| YouTube Channel

धातोर्न (dhAtorna)

 
कृदन्तरूपमाला
Sanskrit
1 {@“कृष विलेखने”@} 2 ‘कर्षत्याकर्षणे, शे तु कृषते कृषतीत्युभे।’ 3 इति देवः।
कर्षकः-र्षिका, कर्षकः-र्षिका, चिकृक्षकः-क्षिका, चरीकृषकः-षिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककृषधातुवत् 4 ज्ञेयानि।
5 कृषन् 6 -न्ती-ती, 7 क्रक्ष्यन्-कर्क्ष्यन्-न्ती-ती, कृषमाणः, इति रूपाणीति विशेषः।
‘सप्तम्यां चोपपीडरुधकर्षः’ 8 इति णमुलस्य धातोर्न
तत्र सूत्रे शपा निर्देशात् इति न्यासकारधातुवृत्तिकारादयः।
क्षीरस्वामी तु उभयोरपि ग्रहणं मन्यते।
प्रासङ्गिक्यः
01
=>
(२५६)
02
=>
(६-तुदादिः-१२८६। सक। अनि। उभ।)
03
=>
(श्लो। १७८)
04
=>
(२५५)
05
=>
[[१। ‘तुदादिभ्यः शः’ (३-१-७७) इति शः विकरणप्रत्ययः। शस्य ङिद्वद्भावात् अङ्गस्य गुणो न। स्त्रियाम्, ‘आच्छीनद्योर्नुम्’ (७-१-८०) इति नुम् विकल्पेन।]]
06
=>
[[आ। ‘तुदन् कुचरितान् शुभे प्रणुदमान इष्टं दिशन् प्रमृष्टपललान् क्षिपन् अरिमतिं कृषन् माधवः।’ धा। का। २-७२।]]
07
=>
[[२। ‘अनुदात्तस्य ऋदुपधस्यान्यतरस्याम्’ (६-१-५९) इति अकिति झलादौ प्रत्यये अमागमः सर्वत्र विकल्पेन।]]
08
=>
(३-४-४९)