| YouTube Channel

धातोराधृषीयत्वेनइति (dhAtorAdhRSIyatvenaiti)

 
कृदन्तरूपमाला
Sanskrit
1 {@“ज वयोहानौ”@} 2 ‘जृणाति जीर्यति जरत्येकार्थे जारयत्यपि।’ 3 इति देवः।
अस्य धातोराधृषीयत्वेन ‘आधृषाद्वा’ 4 इति णिज्विकल्पः
णिजभावपक्षे, जारकः-रिका, जिजरीषकः-जिजरिषकः-जिजीर्षकः-र्षिका, जेजिरकः-रिका
इत्यादीनि, णिच्पक्षे जारकः-रिका, जारयिता-त्री, इत्यादीनि रूपाणि जृणातिवत् 5 बोध्यानि।
णिजभावपक्षे शुद्धाद्धातोः ‘शोषात् कर्तरि परस्मैपदम्’ 6 इति शास्त्रात् परस्मैपदमेव।
तदानीं शतरि 7 जरन्- न्ती इति रूपमिति विशेषः।
ण्यन्तात् सनि तु--जिजारयिषकः-षिका, जिजारयिषिता-त्री, जिजारयिषन्-न्ती, जिजारयिषिष्यन्-न्ती-ती, जिजारयिष- माणः, जिजारयिषिष्यमाणः, जिजारयिट्-यिषौ-यिषः, जिजारयिषितः-तवान्, जिजारयिषुः, जिजारयिषितव्यम्, जिजारयिषणीयम्, जिजारयिष्यम्, ईषज्जि- जारयिषः-दुर्जिजारयिषः-सुजिजारयिषः, जिजारयिष्यमाणः, जिजारयिषः, जिजारयिषितुम्, जिजारयिषा, जिजारयिषणम्, जिजारयिषित्वा, प्रजिजारयिष्य जिजारयिषम् जिजारयिषित्वा २, इति रूपाणि इति विशेषः।
प्रासङ्गिक्यः
01
=>
(६१९)
02
=>
(१०-चुरादिः-१८१५। अक। सेट्। उभ। आधृषीयः।)
03
=>
(श्लो। ३९)
04
=>
(ग। सू। चुरादौ)
05
=>
(६१८)
06
=>
(१-३-७८)
07
=>
[[आ। ‘अजरद्वृषवद् विरिक्तपीडः पुनरभ्येत्य विशिष्टचित्ततापि।’ धा। का। ३। ४९।]]