| YouTube Channel

धातोः (dhAtoH)

 
कृदन्तरूपमाला
Sanskrit
1 {@“घट्ट चलने”@} 2 ‘घट्टयेद् घट्टते द्वे स्तां चलने णौ शपि क्रमात्’।
3 इति देवः।
घट्टकः-ट्टिका, घट्टकः-ट्टिका, जिघट्टिषकः-षिका, जाघट्टकः-ट्टिका
अित्यादीनि सर्वाण्यपि रूपाणि भौवादिककड्डधातुवत् 4 बोध्यानि।
अस्य धातोः अनुदात्तेत्त्वात् शानचि--घट्टमानः, घट्टिष्यमाणः, जिघट्टिष- माणः, जिघट्टिषिष्यमाणः
इत्यादीनि रूपाणि भवन्तीति विशेषः।
‘घट्टि- वन्दिविदिभ्यश्च’ 5 इति वचनेन घट्टना इति रूपं स्त्रियां भवति।
ल्युटि घट्टनम् 6।
7 घट्टितम्।
प्रासङ्गिक्यः
01
=>
(४५८)
02
=>
(१-भ्वादिः-२५९। सक। सेट्। आत्म।)
03
=>
(श्लो। ७३)
04
=>
(१५६)
05
=>
(वा। ३-३-१०७)
06
=>
[[B। ‘तमङ्गदे मन्दरकूटकोटिव्याघट्टनोत्तेजनया मणीनाम्।’ शिशुपालवधे ३-६।]]
07
=>
[[C। ‘तत्केलिसङ्गोष्टितलोष्टमानमद् वने मरुद्घट्टितपोस्फुटद्द्रुमे।।’ धा। का। १-३४।]]
1 {@“घष कान्तिकरणे”@} 2 ‘घुषि’ इत्यस्य पाठान्तरमिदम्।
3 घाषकः-षिका, घाषकः-षिका, जिघषिषकः-षिका, जाघषकः-षिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकखषधातुवत् 4 बोध्यानि।
अस्य धातोः आत्मनेपदित्वात् घषमाणः, घषिष्यमाणः, जिघषिषिष्यमाणः
इत्यादीनि रूपाणि शानचि भवन्ति, इति विशेषः।
प्रासङ्गिक्यः
01
=>
(४६०)
02
=>
(१-भ्वादिः-६५२। सक। सेट्। आत्म।)
03
=>
[पृष्ठम्०४५१+ ३१]
04
=>
(३४६)
1 {@“णभ हिंसायाम्”@} 2 ‘नभ्येन्नभ्नाति नभतेः हिंसायां तत्तुभेः समम्।’ 3 इति देवः।
नाभकः-भिका, नाभकः-भिका, निनभिषकः-षिका, नानभकः-भिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकणभतिवत् 4 ज्ञेयानि।
अस्य धातोः क्र्यादौ परस्मैपदिषु पाठात् शतरि-नभ्नन्-ती, नभिष्यन्-न्ती-ती
इति रूपाणि, इति विशेषः।
5
प्रासङ्गिक्यः
01
=>
(६६३)
02
=>
(९-क्र्यादिः-१५२०। सक। सेट्। पर।)
03
=>
(श्लो। १४५)
04
=>
(६६१)
05
=>
[पृष्ठम्०६१६+ २५]
1 {@“तक हसने”@} 2 ‘तकेत् तङ्केद् यथासंख्यं हसने कृच्छ्रजीवने।।’ 3 इति देवः।
ताककः-किका, ताककः-किका, तितकिषकः-षिका, तातककः-किका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकककतिवत् 4 ज्ञेयानि।
अस्य धातोः परस्मैपदित्वात् तकन्-न्ती, तकिष्यन्-न्ती-ती, तितकिषन्-न्ती-ती, तितकिषिष्यन्-न्ती-ती
इति शतरि रूपाणि भवन्तीति विशेषः।
5 तक्यम्, 6 व्यतितकन्-न्ती।
7
प्रासङ्गिक्यः
01
=>
(६८९)
02
=>
(१-भ्वादिः-११७। अक। सेट्। पर।)
03
=>
(श्लो। ४३)
04
=>
(१३९)
05
=>
[[१। ‘तकिशसिजनिभ्यो यद्वाच्यः’ (वा। ३-१-९७) इति ण्यदपवादो यत्प्रत्ययः।]]
06
=>
[[२। ‘प्रतिषेधे हसादीनामुपसंख्यानम्’ (वा। १-३-१५) इति वचनात् कर्मव्यतीहारेऽपि शानज् न। हसादयः = हसनाद्यर्थकाः धातवः।]]
07
=>
[पृष्ठम्०६३७+ २७]
1 {@“तिकृ गतौ”@} 2 तेककः-किका, तेककः-किका, तितेकिषकः-तितिकिषकः-षिका, तेतिककः, किका
तेकिता-त्री, तेकयिता-त्री, तितेकिषिता-तितिकिषिता-त्री, तेति- किता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि तिकधातुवत् 3 ज्ञेयानि।
अस्य धातोः भ्वादौ आत्मनेपदिषु पाठात् तेकमानः, तेकिष्यमाणः, तितेकिष- माणः-तितिकिषमाणः
इत्यादीनि रूपाणि शानचि भवन्तीति विशेषः।
प्रासङ्गिक्यः
01
=>
(७१७)
02
=>
(१-भ्वादिः-१०५। सक। सेट्। आत्म।)
03
=>
(७१६)
1 {@“दासृ दाने”@} 2 ‘दंसयेन्मोक्षणे, दस्येत् क्षये दंसयते णिचि।।
दंशदर्शनयोः, दासेर्दाने दासति दासते।’ 3 इति देवः।
दासकः-सिका, दासकः-सिका, दिदासिषकः-षिका, दादासकः-सिका
4 इत्यादीनि सर्वाण्यपि रूपाणि पूर्वलिखितकासृधातुवत् 5 ज्ञेयानि।
अस्य धातोः परस्मैपदित्वात् शतरि एवं रूपमिति विशेषः--दासन्-न्ती, दासयन्- न्ती
इति।
प्रासङ्गिक्यः
01
=>
(८३६)
02
=>
(१-भ्वादिः-८९४। सक। सेट्। उभ।)
03
=>
(श्लो १८६-१८७)
04
=>
[पृष्ठम्०७४१+ २४]
05
=>
(१८८)
1 {@“भ्रेषृ गतौ”@} 2 ‘भेषृ--इत्यपि’ इति भैत्रेयः।
‘--भये, चलने च’ इति क्षीरस्वामी पपाठ।
‘भ्लेषृ--’ इत्यन्ये इति धा।
का।
3।
भ्रेषकः-षिका, भ्रेषकः-षिका, बिभ्रेषिषकः-षिका, बेभ्रेषकः-षिका
भ्रेषिता-त्री, भ्रेषयिता-त्री, बिभ्रेषिषिता-त्री, बेभ्रेषिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकगेपतिवत् 4 बोध्यानि।
अस्य धातोः उभयपदित्वात् शतरि भ्रेषन् 5 -न्ती, भ्रेषिष्यन्-न्ती-ती
इत्यादीनि रूपाण्यधिकानीति विशेषः।
प्रासङ्गिक्यः
01
=>
(११९३)
02
=>
(१-भ्वादिः-८८४। अक। सेट्। उभ।)
03
=>
(२-२७)
04
=>
(४२९)
05
=>
[[B। ‘चाय्या व्ययद्दाशविलोकभेषभ्रेषज्झषा यासदघं स्पशन्ती।।’ धा। का। २। २७।]]
1 {@“मुडि मार्जने”@} 2 मार्जनम् = शुद्धिर्न्यग्भावश्च।
‘--मञ्जने’ इति क्षीरस्वामी।
“-- ‘मञ्जने’ इति काशकृत्स्नधातुपाठीयकन्नडटीकायां 3 पाठः।
मञ्जनम् = स्नानम् इत्यपि तत्रैव।” इति क्षी-टीका।
‘मुण्डते मार्जने खण्डेः, खण्डने शपि मुण्डति।।’ 4 इति देवः।
मुण्डकः-ण्डिका, मुण्डकः-ण्डिका, मुमुण्डिषकः-षिका, मोमुण्डकः-ण्डिका
मुण्डिता-त्री, मुण्डयिता-त्री, मुमुण्डिषिता-त्री, मोमुण्डिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककुण्ठतिवत् 5 ज्ञेयानि।
अस्य धातोः आत्मनेपदित्वात् मुण्डमानः, मुण्डिष्यमाणः, मुमुण्डिषमाणः, मुमुण्डिषिष्यमाणः
इति शानचि रूपाणि इति विशेषः।
प्रासङ्गिक्यः
01
=>
(१२८२)
02
=>
(१-भ्वादिः-२७५। सक। सेट्। आत्म।)
03
=>
(पृष्ठ १००)
04
=>
(श्लो। ८३)
05
=>
(२०९)
1 {@“मुद संसर्गे”@} 2 ‘संसर्गे णिचि मोदयेदिति भवेत् हर्षे पुनर्मोदते।।’ 3 इति देवः।
मोदकः-दिका, मुमोदयिषकः-षिका
मोदयिता-त्री, मुमोदयिषिता-त्री
इत्यादीनि रूपाणि शतरं विना चौरादिककोटयतिवत् 4 बोध्यानि।
अस्य धातोः उभयपदित्वात् शतरि 5 मोदयन्-न्ती, मुमोदयिषन्-न्ती, मोदयिष्यन्-मुमोदयिषिष्यन्-न्ती-ती
इति विशेषः।
प्रासङ्गिक्यः
01
=>
(१२८६)
02
=>
(१०-चुरादिः-१७४१। सक। सेट्। उभ।)
03
=>
(श्लो। ११३।)
04
=>
(२०५)
05
=>
[सर्पिषा सक्तून्]
1 {@“मुस्त संघाते”@} 2 मा।
धा।
वृत्तिः अमुं धातुं पठति।
अन्ये सर्वेऽपि ‘मुस्त’ इत्यस्यानुकूला एव।
‘अस्त--’ इत्यस्य पाठभेदः इति मा।
धा।
धा।
का।
3 च।
मुस्तकः-स्तिका, मुमुस्तयिषकः-षिका
मुस्तयिता-त्री, मुमुस्तयिषिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि चौरादिककुस्मयतिवत् 4 बोध्यानि।
अस्य धातोः उभयपदित्वात् शतरि-मुस्तयन्-न्ती, मुमुस्तयिषन्-न्ती
मुस्तयिष्यन्-न्ती-ती, मुमुस्तयिषिष्यन्-न्ती-ती, इमानि रूपाण्यधिकानीति विशेषः।
प्रासङ्गिक्यः
01
=>
(१२९२)
02
=>
(१०-चुरादिः-१६३२। सक। सेट्। उभ।)
03
=>
(३। २६)
04
=>
(२३६)
1 {@“मूल रोहणे”@} 2 ‘मूलेः प्रतिष्ठितौ मूलेद् रोहणे मूलयेदिति।’ 3 इति देवः।
‘मुल--इति नन्दी’ इति क्षीरस्वामी।
मूलकः-लिका, मुमूलयिषकः-षिका, मूलयिता-त्री, मुमूलयिषिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि चौरादिककूटयतिवत् 4 ज्ञेयानि।
अस्य धातोः उभयपदित्वात् शतरि-मूलयन्-न्ती, मुमूलयिषन्-न्ती, मूलयिष्यन्-न्ती- ती, मुमूलयिषिष्यन्-न्ती-ती
इति विशेषः।
5 मूलकः।
प्रासङ्गिक्यः
01
=>
(१२९७)
02
=>
(१०-चुरादिः-१६०३। सक। सेट्। उभ।)
03
=>
(श्लो। १५७)
04
=>
(२४०)
05
=>
[[३। स्वार्थे कन्प्रत्यये रूपमेवम्। मूलकः = शाकविशेषः।]]