| YouTube Channel

धातुवृत्तौइति (dhAtuvRttauiti)

 
कृदन्तरूपमाला
Sanskrit
1 {@“विट आक्रोशे”@} 2 क्षीरतरङ्गिण्याम्, ‘विट--’ इति पठित्वा ‘डान्तोऽयमिति 3 नन्दी’ इति दृश्यते।
धातुवृत्तौ ‘बिट--बशादिः’ इति पठितम्
तत्र टिप्पन्यां ‘विट विड इति मैत्रेयः’ इति दृश्यते।
भट्टोजिदीक्षितोऽपि ‘बिट--’ इत्येव 4 पठति।
काशकृत्स्नस्तु-- ‘विट शब्दे हास्यशब्दे’ इति।
वेटकः-टिका, वेटकः-टिका, विवेटिषकः-विविटिषकः-षिका-वेविटकः-टिका
इत्यादीनि रूपाणि सर्वाण्यपि भौवादिककेटतिवत् 5 ज्ञेयानि।
डान्तपक्षे विडालः 6 इति।
विटः प्रसिद्धः।
प्रासङ्गिक्यः
01
=>
(१६०१)
02
=>
(१-भ्वादिः-३१७। अक। सेट्। पर।)
03
=>
(विड)
04
=>
(बशादिः)
05
=>
(१९०)
06
=>
[[४। “‘विड इति सौत्रो धातुः ण्यन्तः।। औणादिके कालच्प्रत्यये रूपम्
\n\n वेडयति मूषकानिति विडालः मार्जारः।” इति दशपाद्युणादिवृत्तौ (८-११५) दर्शितम्।]]