| YouTube Channel

धर्म्म्यविवाहः (dharmmyavivAhaH)

 
शब्दकल्पद्रुमः
Sanskrit
धर्म्म्यविवाहः,
पुं,
(धर्म्म्यः धर्म्मार्हो विवाहः ।)विवाहविशेषः पञ्चविधः ब्राह्म-दैवार्षगान्धर्व्वप्राजापत्यरूपः अधर्म्म्यविवाह-स्त्रिविधः असुरराक्षसपैशाचरूपः यथा, “धर्म्म्येष्वेव विवाहेषु कालपरीक्षणं नाधर्म्म्येषु
”इत्युद्वाहतत्त्वम्
(यस्य वर्णस्य यो विवाहोधर्म्म्यः उक्तो यथा, मनौ २१ -- २६ ।“ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः ।गान्धर्व्वो राक्षसश्चैव पैशाचश्चाष्टमोऽधमः
यो यस्य धर्म्म्यो वर्णस्य गुणदोषौ यस्य यौ ।तद्वः सर्व्वं प्रवक्ष्यामि प्रसवे गुणागुणान्
षडानुपूर्व्व्या विप्रस्य क्षत्त्रस्य चतुरोऽरवान् ।विट्शूद्रयोस्तु तानेव विद्याद्धर्म्म्यान्न राक्षसान्
चतुरो ब्राह्मणस्याद्यान् प्रशस्तान् कवयो विदुः ।राक्षसं क्षत्त्रियस्यैकमासुरं वैश्यशूद्रयोः
पञ्चानान्तु त्रयो धर्म्म्या द्वावधर्म्मौ स्मृताविह ।पैशाचश्चासुरश्चैव कर्त्तव्यौ कदाचन
पृथक् पृथग्वा मिश्रौ वा विवाहौ पूर्व्वचोदितौ ।गान्धर्व्वोराक्षसश्चैव धर्म्म्यौ क्षत्त्रस्य तौ स्मृतौ
”)