| YouTube Channel

धर्म्म्यः (dharmmyaH)

 
शब्दकल्पद्रुमः
Sanskrit
धर्म्म्यः, त्रि, (धर्म्म + “धर्म्मपथ्यर्थन्यायादनपेते ।”४ ९२ इति यत् ।) धर्म्मादनपेतः ।धर्म्मयुक्तः यथा, श्रीभगवद्गीतायाम् ।“धर्म्म्याद्धि युद्धात् श्रेयोऽन्यत् क्षत्त्रियस्य नविद्यते
”“न्यूनाधिकविभक्तानां धर्म्म्यः पितृकृतः स्मृतः
”इति दायभागः
(धर्म्मेण प्राप्यः “नौवयोधर्म्मेति ।” ९१ ।इति यत् धर्म्मलभ्यः इति सिद्धान्तकौमुदी
)