| YouTube Channel

धर्म्मारण्यं (dharmmAraNyaM)

 
शब्दकल्पद्रुमः
Sanskrit
धर्म्मारण्यं,
क्ली,
(धर्म्माय धर्म्मस्य वा यदरण्यम् ।)पुण्यवनविशेषः तस्य नामकारणं यथा, --“स धर्म्मः पीडितः सर्व्वं सोमेनाद्भुतकर्म्मणा ।तारां जिघृक्षता पत्नीं म्रातुराङ्गिरसस्य
सोऽप्ययाद्भीषितस्तेन बलिना क्रूरकर्म्मणा ।अरण्यं गहनं घोरं प्रविवेश तदा प्रभुः
ब्रह्मोवाच ।यच्चारण्यमिदं धर्म्म ! त्वया व्याप्तं चिरं विभो ! ।नाम्ना भविष्यति ह्येतद्धर्म्मारण्यमिति प्रभो !
”इति वराहपुराणम्
(गयास्थतीर्थविशेषः यथा, वायुपुराणे गया-माहात्म्ये ।“प्रथमेऽह्नि विधिः प्रोक्तो द्वितीयदिवसे व्रजेत् ।धर्म्मारण्यं तत्र धर्म्मो यस्माद्यज्ञमकारयत्
”)