| YouTube Channel

धर्म्माध्यक्षः (dharmmAdhyakSaH)

 
शब्दकल्पद्रुमः
Sanskrit
धर्म्माध्यक्षः,
पुं,
(धर्म्मे धर्म्माधिकरणे अध्यक्षः ।)धर्म्माधिकरणी इति हेमचन्द्रः ३८८
“कुलशीलगुणोपेतः सर्व्वधर्म्मपरायणः ।प्रवीणः प्रेषणाध्यक्षो धर्म्माध्यक्षो विधीयते
”इति चाणक्ये १०२
(विष्णुः यथा, महाभारते १३ १४९ २८ ।“लोकाध्यक्षः सुराध्यक्षो धर्म्माध्यक्षः कृताकृतः
”“धर्म्माधर्म्मो साक्षादीक्षते अनुरूपं फलं दातुम् ।तस्माद्धर्म्माध्यक्षः ।” इति शाङ्करभाष्यम्
)