| YouTube Channel

धर्म्मसावर्णिः (dharmmasAvarNiH)

 
शब्दकल्पद्रुमः
Sanskrit
धर्म्मसावर्णिः,
पुं,
(धर्म्म एव सावर्णिः सूर्य्यपुत्त्रीमनुः ।) एकादशो मनुः अस्मिन्मन्वन्तरेधर्म्मसेतुरवतारः वैधृत इन्द्रः विहड्गमकाम-गमाद्या देवाः अरुणादयः सप्तर्षयः सत्य-धर्म्मादयो मनुपुत्त्रा भविष्यन्ति इति श्रीभाग-वतम्
*
“भविष्यधर्म्मपुत्त्रस्य सावर्णस्यान्तरं शृणु ।विहङ्गमाः कामगमा निर्म्माणरतयस्तथा
त्रिप्रकारा भविष्यन्ति एकैकस्त्रिंशको गणः ।मासर्त्तुदिवसा ये तु निर्म्माणरतयस्तु ते
विहङ्गमा रात्रयोऽथ मुहूर्त्ताः कामगो गणः ।इन्द्रो वृषाख्यो भविता तेषां प्रख्यातविक्रमाः
हविष्मांश्च धनिष्ठश्च ऋषिरन्यस्तथारुणिः ।निश्चरश्चानघश्चैव वृष्णिश्चान्यो महामुनिः
सप्तर्षयोऽन्तरे तस्मिन्नग्नितेजाश्च सप्तमः
सर्व्वानुगः सुशर्म्मा देवानीकः पुरूद्बहः
हेमधन्वा दृढायुश्च विभानुस्तत्सुता नृपाः
”इति मार्कण्डेयपुराणम्