| YouTube Channel

धर्म्मशास्त्रं (dharmmazAstraM)

 
शब्दकल्पद्रुमः
Sanskrit
धर्म्मशास्त्रं,
क्ली,
(धर्म्मस्य धर्म्माय वा शास्त्रम् ।)मन्वादिप्रणीतशास्त्रम् तत्पर्य्यायः स्मृतिः २धर्म्मसंहिता इति हेमचन्द्रः
धर्म्मशास्त्र-प्रयोजका यथा, याज्ञवल्क्ये ५-६ ।“मन्वत्रिविष्णुहारीतयाज्ञवल्क्योशनोऽङ्गिराः ।यमापस्तम्बसम्बर्त्ताः कात्यायनवृहस्पती
पराशरव्यासशङ्खलिखिता दक्षगोतमौ ।शातातपो वशिष्ठश्च धर्म्मशास्त्रप्रयोजकाः
”एते प्रधानानि अन्येऽपि सन्ति
रघुनन्दन-धृतधर्म्मशास्त्राणि यथा, --“मलिम्लुचे दायभागे संस्कारे शुद्धिनिर्णये ।प्रायश्चित्ते विवाहे तिथौ जन्माष्टमीव्रते
दुर्गोत्सवे व्यवहृतावेकादश्यादिनिर्णये ।तडागभवनोत्सर्गे वृषोत्सर्गत्रये व्रते
प्रतिष्ठायां परीक्षायां ज्योतिषे वास्तुसंज्ञके ।दीक्षायामाह्निके कृत्ये क्षेत्रे श्रीपुरुषोत्तमे
सामश्राद्धे यजुःश्राद्धे शूद्रकृत्यविचारणे ।इत्यष्टाविंशतिस्थाने तत्त्वं वक्ष्यामि यत्नतः
”इति रघुनन्दनभट्टाचार्य्यः