| YouTube Channel

धर्म्मशास्त्र (dharmmazAstra)

 
Yates
English
धर्म्म-शास्त्र (स्त्रं) 1.
n.
A code of laws.
Wilson
English
धर्म्मशास्त्र
n.
(-स्त्वं)
1 The body or code of Hindu law.
2 Any work on the subject.
E.
धर्म्म virtue, and शास्र a treatise.
वाचस्पत्यम्
Sanskrit
धर्म्मशास्त्र
न०
शिष्यतेऽनेन शास--करणे ष्ट्रन् त० धर्म-शासने मन्वादिप्रणीते धर्मप्रतिपादके ग्रन्थभेदेस्मृतिशास्त्रे तस्य कर्त्तारश्च हेमाद्रिव्रतखण्डे दर्शिता यथा“शाङ्खलिखितौ स्मृतयो धर्मशास्त्राणि तेषां प्रणे-तारोमनुविष्णुयमदक्षाङ्गिरोऽत्रिवृहस्पत्युशनआपस्तम्बव-शिष्ठकात्यायगपराशरव्यासशङ्खलिखितसवर्त्तगौतमशाता-तपहारीतयाज्ञवल्क्यप्राचेतसादयः” यमः “मनुर्यमो-वसिष्ठोऽत्रिः दक्षो विष्णुस्तथाङ्गिराः उशना वाक्-पतिर्व्यास आपस्तम्बोऽथ गौतमः कात्यायनो नार-दश्च याज्ञवल्क्यः पराशरः संवर्त्तश्चैव शङ्खश्च हा-रीतो लिखितस्तथा एतैर्यानि प्रणीतानि धर्मशा-स्त्राणि वै पुरा तान्येवाति प्रमाणानि हन्तव्यानिहेतुभिः” “आदिशब्दाच्च वृद्धदेवलसोमजमदग्निप्रजापति-विश्वामित्रवृद्धशातातपपैठीनसिपितामहबौधायनच्छागलेय-जाबालिच्यवनमरीचिकश्यपाः” तथा हि भविष्यपुराणे“अष्टादशपुराणेषु यानि वाक्यानि पुत्रक! तान्यालोच्यमहाबाहो! तथा स्मृत्यन्तरेषु मन्वादिस्मृतयो याश्चषड्विंशत् परिकीर्त्तिताः तासां वाक्यानि क्रमशःसमालोक्य व्रवीमि ते” इति मन्वादिस्मृतीनां षड्-त्रिंशत्त्वमुक्तम्, तच्चानन्तरोक्ताभिरेव पूर्य्यते यानिपुनर्महाभारतरामायणविष्णुधर्मशिवधर्मप्रभृतीनि गृह्य-परिशिष्टानि तानि स्मृत्यन्तरेषु चेत्यनेनैवोक्तानितथा चोक्तं भविष्यपुराणे “अष्टादश पुराणानि रामस्यचरितं तथा विष्णुधर्माणि शास्त्राणि शिवधर्माश्चभारत! कार्ष्णञ्च पञ्चमोदेवो यन्महामारतं स्मृतम् ।सौराश्च धर्मा राजेन्द्र! मानवोक्ता महीपते! जयेतिनाम चैतेषां प्रवदन्ति मनीषिण इति” “तदपि स्मृत्य-न्तरेषुचैवेत्यनेनैव परिगृहीतं वेदितव्यम्” हेमाद्रि० व्र०