धर्म्मव्याधः (dharmmavyAdhaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritधर्म्मव्याधः, (धर्म्मप्रधानो व्याधः । शाकपार्थि-वादिवत् मध्यपदलोपिसमासः ।) पापपुरुष-विशेषः । स तु काश्मीरदेशाधिपवसुनामनृप-देहनिर्गतव्याधरूपिब्रह्महत्यात्मकः । तस्य राज्ञोवरेण तस्य धर्म्मव्याध इति संज्ञाभूत् । यथा, --“ततः पुत्त्रं विवस्वन्तं श्रेष्ठं भ्रातृशतस्य ह ।अभिषिच्य स्वके राज्ये तपोवनमुपागमत् ॥
पुष्करं नाम तीर्थानां प्रवरं यत्र केशवः ।पुण्डरीकाक्षनामा तु पूज्यते तत्परायणैः ॥
तत्र गत्वा स राजर्षिः काश्मीराधि पतिर्व्वसुः ।अतितीव्रेण तपसा स्वशरीरमशोषयत् ॥
पुण्डरीकाक्षपारं तु स्तवं भक्त्या जपन् बुधः ।नमस्ते पुण्डरीकाक्ष नमस्ते मधुसूदन ! ।नमस्ते सर्व्वलोकेश ! नमस्ते तिग्मचक्रिणे ॥
”इत्यादि ।“एवन्तु वदतस्तस्य मूर्त्तिमान् पुरुषः किल ।निर्गत्य देहान्नीलाभो घनचण्डो भयङ्करः ॥
उवाच प्राञ्जलिर्भूत्वा किं करोमि नराधिप ! ॥
राजोवाच ।कोऽसि किं कार्य्यमिह ते कस्मादागतवानसि ।एतन्मे कथय व्याध ! एतदिच्छामि वेदितुम् ॥
व्याध उवाच ।पूर्व्वं कलियुगे राजन् ! राजा त्वं दक्षिणामुखे ।अरण्यमागतो हन्तुं श्वापदानि विशेषतः ॥
तत्र त्वयान्यकामेन मृगवेशधरो मुनिः ।दण्डयुग्मेन दूरे तु पातितो धरणीतले ॥
ततस्त्वया महाराज ! सकृन्नारायणं प्रभुम् ।संचिन्त्य द्वादशी शुद्धात्वया राजन् ! उपोषिता ॥
गौर्दत्ता विधिना सद्यो मृतोऽस्युदरशूलतः ।अहञ्च तव देहस्थः सर्व्वं जानामि चाक्षयम् ॥
स्वगस्थस्यापिराजेन्द्र ! स्थितोऽहं स्वेन तेजसा ।इदानीमादिसृष्टौ तु कृते नृपतिसत्तम ! ॥
सम्भूतस्त्वं महाराज ! राज्ञः सुमनसो गृहे ।इदानीं यत् त्वया स्तोत्रं पुण्डरीकाक्षपारगम् ॥
पठितं तत्प्रभावेण विहायाङ्गरुहाण्यहम् ।एकीभूतः पुनर्ज्जातो व्याधरूपो नृपोत्तम ! ॥
एतत् श्रुत्वा वचो राजा परं विस्मयमागतः ।वरेण छन्दयामास तं व्याधं राजसत्तमः ॥
राजोवाच ।स्मारितोऽस्मि महाव्याध ! त्वया जन्मान्तरं गतम् ।तथा त्वं मत्प्रसादेन धर्म्मव्याधो भविष्यसि ॥
”इति वाराहे आदिकृतवृत्तान्तनामाध्यायः ॥
(अपरो धार्म्मिको व्याधविशेषः । अस्य विव-रणन्तु महाभारते । ३ । २०६ अध्यायमारभ्यविशेषतो द्रष्टव्यम् ॥
)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
