| YouTube Channel

धर्म्मवैतंसिकः (dharmmavaitaMsikaH)

 
शब्दकल्पद्रुमः
Sanskrit
धर्म्मवैतंसिकः,
पुं,
(धर्म्मे वैतंसिक इव आत्मनोधार्म्मिकत्वविज्ञापनाय पाशिकः कपटाचारीवेत्यर्थः ।) पांपकर्म्मणा धनमासाद्यात्मनोधार्म्मिकत्वख्यापनाय दानकर्त्ता तत्पापफलंयथा, --“धर्म्मवैतंसिको यस्तु पापात्मा पुरुषस्तथा ।ददाति दानं विप्रेभ्यो लोकविश्वासकारणम्
पापेन कर्म्मणा विप्रो धनं लब्ध्वा निरङ्कुशः ।रागमोहान्वितोऽशान्तः कलुषीं योनिमाप्नु-यात्
”इति वह्निपुराणे स्नानविधिनामाध्यायः