| YouTube Channel

धर्म्ममूल (dharmmamUla)

 
Yates
English
धर्म्म-मूल (लं) 1.
n.
Foundation of
virtue or law (the
Vedas).
Wilson
English
धर्म्ममूल
n.
(-लं) The foundation of Hindū law and religion
(the Vedas.)
E.
धर्म्म, and मूल root.
वाचस्पत्यम्
Sanskrit
धर्म्ममूल
न०
६० धर्मस्य प्रमाणे, तानि मन्वादिभि-र्दर्शितानि तत्र मनुः“वेदोऽखिली धर्ममूलं स्मृतिशीले तद्विदाम् ।आचारश्चैव साधूनामात्मनस्तुष्टिरेव च” विधिर्बिधेयस्तर्कश्च वेदाङ्गानि षडेव चेति” विधिरज्ञातज्ञापकोवेदभागः विधेयोमन्त्रः तर्कोमीमांसा अङ्गान्याहदेवलः “शिक्षाव्याकरणनिरुक्तच्छन्दःकल्पज्योतीषीतिवेदाङ्गानि” “शुचो तु चरिते शीलनित्यायारणैनशीलत्वाभिधानात् क्वथं पृथगुपादनम् आचर्य्यानु-ष्ठनिलक्षणक्रियारूपत्वादाचारस्य स्वरूपविशेषत्वाच्छी-लस्य व्यक्त एव भेदः “शुचौ तु चरिते शीलमिति”शीलस्य चरितविशेषहेतुत्वादुपचारेण चरितत्वाभि-धानम् अथ शीलं कस्य धर्मतां प्रमापयति आत्मनएव पुरुषविशेषस्वभावोऽन्यथानुपपद्यमानः स्वस्य श्रेयःसाधनतां बाधयति तथा ब्राह्मण्यतेत्यादिहारीत-वचने भावप्रत्ययान्ततयाभिधानं शीलस्य क्रियाव्यति-रोकतां बोधयत् स्वभावतामेव ज्ञापयति यदाह हा-रीतः “ब्राह्मण्यता देवपितृभक्तता सौम्यता अपरोपतापिता अनश्लीलता मृदुता अपारुष्यं मित्रता ८प्रियवादित्वम् कारुण्यं १० कृतज्ञता ११ शरण्यता १२ प्र-शान्ति १३ श्चेति त्रयोदशविधं शीलम्” आचारो विवाहादौकङ्कणबन्धनाद्यनुष्ठानम् आत्मतुष्टिरत्र धर्मसन्देहे वै-दिकसंस्कारवासितान्तःकरणानां साधूनामेकत्र पक्षे मनःपरितोषः याज्ञवल्क्यः “श्रुतिः स्मृतिः सदाचारः स्वस्यच प्रियमात्मनः सम्यक् सङ्कल्पजः कामो धर्ममूलमिदंस्मृतम् पुराणन्यायमीमांसा धर्मशस्त्राङ्गमित्रिताः ।वेदाः स्थानानि विद्यानाम् धर्मस्य चतुर्दश”