| YouTube Channel

धर्म्मबाणिजिकः (dharmmabANijikaH)

 
शब्दकल्पद्रुमः
Sanskrit
धर्म्मबाणिजिकः,
पुं,
(धर्म्मे बाणिजिक इव फल-कामनया धर्म्माचरणादेवास्य तथात्वम् ।)पुण्यकर्म्मफलकामी यथा, --“धर्म्मबाणिजिका मूढाः फलकामा नराधमाः ।अर्च्चयन्ति जगन्नाथं ते कामानाप्नुवन्त्युत
”इति मलमासतत्त्वधृतविष्णुधर्म्मोत्तरतृतीय-काण्डीयवचनम्