| YouTube Channel

धर्म्मपुत्त्रः (dharmmaputtraH)

 
शब्दकल्पद्रुमः
Sanskrit
धर्म्मपुत्त्रः,
पुं,
(धर्म्मस्य पुत्त्रः ।) युधिष्ठिरराजः ।इति त्रिकाण्डशेषः
(यथा, महाभारते ।२३५ १८ ।“न पापकं धास्यति धर्म्मपुत्त्रोधनञ्जयश्चाप्यनुवर्त्स्यते तम्
”)नरनारायणावृषी इति पुराणम्
(यथा, देवीभागवते १९ ।“तापसौ धर्म्मपुत्त्रौ द्बौ सुशान्तमनसावुभौ
”)धर्म्मतः कृतपुत्त्रः धरम्वेटा इति भाषा
यथा, --“यावद्धुर्जटिधर्म्मपुत्त्रपरशुक्षुणाखिलक्षत्त्रिय-श्रेणोशोणितपिच्छिला वसुमती कोऽस्यामधा-स्यत् पदम् ।त्रैलोक्याभयदानदक्षिणभुजावष्टम्भदिव्योदयोदेवोऽयं दिनकृत्कुलैकतिलको प्राभविष्यद्यदि
”इति महानाटके २५