| YouTube Channel

धर्म्मन् (dharmman)

 
वाचस्पत्यम्
Sanskrit
धर्म्मन्
पु०
धृ--मनिन् धर्मे पुण्ये शुभादृष्टभेदे “प्रेतिरसि-धर्मणे त्वा धर्मं जिन्व” ताण्ड्यब्रा० “धर्मणेधर्माय” भा० “निर्गुणत्वान्न चिद्धर्मा” सां० सू० आत्मनोनिर्गुणत्वान्न तस्य चित् धर्मा धर्म इत्यर्थः “ज्ञानं नैवा-त्मनो धर्मः” इति सां० प्र० धृतवाक्यात् तथात्वम् धर्मन्शब्देदृश्यम् धारके
त्रि०
“पितुं नु स्तोषं महो धर्माणंतविषीम्” ऋ० १८७ “महो महान्तं धर्माणं सर्वस्यधारकम्” भा० अनेनैवोपपत्तौ वहुब्रीहौ “धर्मादनिचकेवलात्” पा० अनिच्करणं चित्स्वरार्थं धर्मशब्दान्त-तया प्रयोगनिरासार्थञ्च