| YouTube Channel

धर्म्मकृत् (dharmmakRt)

 
वाचस्पत्यम्
Sanskrit
धर्म्मकृत्
त्रि०
धर्मं धर्मसाधनं कर्म करोति कृ--क्विप् तुक् ।१ धर्मसाधनकर्मकरे “ज्येष्ठासु बहुमित्रः सन्तुष्टोधर्मकृत् प्रचुरकोपः” वृ० सं० विष्णौ
पु०
धर्मगुप्“धर्मकृद्धर्मी” विष्णुस० “धर्माधर्मविहीनोऽपि धर्म-मर्य्यादास्थापनार्थं धर्ममेव करोतीति धर्मकृत्” भा०