| YouTube Channel

धर्म्मः (dharmmaH)

 
शब्दकल्पद्रुमः
Sanskrit
धर्म्मः, पुं
क्ली,
(धरति लोकान् ध्रियते पुण्यात्मभि-रिति वा धृ + “अर्त्तिस्तुहुस्रिति ।” उणां१ १३९ इति मन् ।) शुभादृष्टम् (यथा, हितोदेशे ५९ ।“एक एव सुहृद्धर्म्मो निधनेऽप्यनुयाति यः ।शरीरेण समं नाशं सर्व्वमन्यत्तु गच्छति
”)तत्पर्य्यायः पुण्यम् श्रेयः सुकृतम् वृषः ।इत्यमरः २४
न्यायः स्वभावः आचारः ।उपमा क्रतुः (यथा, महाभारते १४ ८८ २१ ।“कृत्वा प्रवर्ग्यं धर्म्माख्यं यथावत् द्विजसत्तमाः ।चक्रुस्ते विधिवद्राजंस्तथैवाभिषवं द्बिजाः
”)अहिंसा उपनिषत् इति मेदिनी से, १६ ।दानादिके, क्ली इति हेमचन्द्रः
(यथा, योगसारे ।“प्राणायामस्तथा ध्यानं प्रत्याहारोऽथ धारणा ।स्मरणञ्चैव योगेऽस्मिन् पञ्च धर्म्माः प्रकी-र्त्तिताः
”)
धर्म्मः,
पुं,
(धृ + मन् ।) धनुः यमः सोमपः ।इति मेदिनी मे, १६
सत्सङ्गः अर्हन् इतिहेमचन्द्रः १५
देवताविशेषः ब्रह्मणोदक्षिणस्तनाज्जातः (यथा, मत्स्यपुराणे १० ।“अङ्गुष्ठाद्दक्षिणाद्दक्षः प्रजापतिरजायत् ।धर्म्मस्तनान्तादभवत् हृदयात् कुसुमायुधः
”)तस्य भार्य्या दक्षस्य त्रयोदशकन्याः तस्यचतुर्द्दशापत्यानि यथा पत्न्यां श्रद्धायां ऋतम्१ मैत्र्यां प्रसादः दयायां अभयम् शान्त्यांसुखम् तुष्ट्यां मुत् पुष्ट्यां गर्व्वः क्रियायांयोगः उन्नतौ दर्पः बुद्ध्यां अर्थः मेधायांस्मृतिः १० मूर्त्त्यां नरनारायणौ ११ १२तितिक्षायां क्षेमम् १३ ह्रीसंज्ञायां प्रच्छ्रयः १४ ।इति श्रीभागवतम्
*
अपि ।“श्रद्धा लक्ष्ीर्धृतिस्तुष्टिः पुष्टिर्मेधा तथा क्रिया ।बुद्धिर्लज्जा वपुः शान्तिः सिद्धिः कीर्त्तिस्त्रयोदशी ।पत्न्यर्थं प्रतिजग्राह धर्म्मो दाक्षायणीः प्रभुः
”विष्णुपुराणमते सिद्धिस्थाने ऋद्धिरन्यत् तुल्यम्
तासामपत्यानि यथा, --“श्रद्धा कामञ्च श्रीर्दर्पं नियमं धृतिरात्मजम् ।सन्तोषञ्च तथा तुष्टिर्लोभं पुष्टिरसूयत
मेधा श्रुतं क्रिया दण्डं नयं विनयमेव ।बोधं बुद्धिस्तथा लज्जा विनयं वपुरात्मजम्
व्यवसायं प्रजज्ञे वै क्षेमं शान्तिरसूयत ।सुखं सिद्धिर्यशः कीर्त्तिरित्येते धर्म्मसूनवः
कामो नन्दी सुतं हर्षं धर्म्मपौत्त्रमसूयत
*
अधर्म्मवंशो यथा, मार्कण्डेयपुराणे ।“हिंसा भार्य्या त्वधर्म्मस्य तस्यां जज्ञे तथानृतम् ।कन्या निकृतिस्ताभ्यां सुतौ द्बौ नरकं भयम्
माया वेदना चैव मिथुनं द्वयमेतयोः ।भयाज्जज्ञेऽथ वै माया मृत्युं भूतापहारिणम्
वेदना स्वसुतञ्चापि दुःखं जज्ञेऽथ रौरवात् ।मृत्योर्व्याधिर्जराशोकतृष्णाः क्रोधश्च जज्ञिरे
दुःखोत्तराः स्मृता ह्येते सर्व्वे चाधर्म्मलक्षणाः ।नैषां भार्य्यास्ति पुत्त्रो वा सर्व्वे ते ह्यूर्द्ध्वरेतसः
”धर्म्मोत्पत्तिर्यथा, वराहपुराणे ।“अथोत्पत्तिं प्रवक्ष्यामि धर्म्मस्य महतो नृप ! ।माहात्म्यञ्च तिथिञ्चैव तन्निबोध नराधिप ! ।सर्व्वं ब्रह्माव्ययः शुद्धपरादपरसंज्ञितः ।स सिसृक्षुः प्रजास्त्वादौ पालनञ्च व्यचिन्तयत्
तस्य चिन्तयतस्त्वङ्गाद्दक्षिणाच्छ्वेतकुण्डलः ।प्रादुर्बभूव पुरुषः श्वेतमाल्यानुलेपनः ।तं दृष्ट्वोवाच भगवांश्चतुष्पात् स्यात् कृते युगे ।त्रेतायां त्रिपदश्चासौ द्बिपदो द्बापरेऽभवत्
कलावेकेन पादेन प्रजाः पालयते प्रभुः ।षड्गेहो ब्राह्मणानां त्रिधा क्षत्त्रे व्यवस्थितः
द्विधा विश्येकधा शूद्रे स्थितः सर्व्वगतः प्रभुः ।गुणद्रव्यक्रियाजातिचतुष्पादः प्रकीर्त्तितः
त्रिशृङ्गोऽसौ स्मतो वेदे ससंहितपदक्रमः ।तथा आद्यन्त ओङ्कारद्बिशिराः सप्तहस्तवान्उदात्तादित्रिभिर्बद्ध एवं धर्म्मो व्यवस्थितः
ब्रह्मोवाच ।अद्यप्रभृति ते धर्म्म तिथिरस्तु त्रयोदशी
यस्तामुपोष्य पुरुषो भवन्तं समुपार्ज्जयेत् ।कृत्वा पापसमाचारं तस्मान्मुञ्चति मानवः
”तस्य पुत्त्रा यथा, वामनपुराणे ।“धर्म्मस्य भार्य्या हिंसाख्या तस्यां पुत्त्रचतुष्टयम् ।सम्प्राप्तं मुनिशार्द्दूल ! योगशास्त्रविचारकम्
ज्येष्ठः सनत्कुमारोऽभूद्द्बितीयश्च सनातनः ।तृतीयः सनको नाम चतुर्थश्च सनन्दनः
साङ्ख्यवेत्तारमपरं कपिलं वोढुमासुरिम् ।दृष्ट्वा पञ्चशिखं श्रेष्ठं योगयुक्तं तपोनिधिम्
ज्ञानयोगं ते दद्युर्ज्यायांसोऽपि कनीयसाम्
”(चतुर्द्दशद्वापरे वेदव्यसनादयमेव व्यास आसीत् ।यथा, देवीभागवते २९ ।“त्रयोदशे चान्तरिक्षो धर्म्मश्चापि चतुर्द्दशे
”यथा, ब्रह्माण्डे २७ अध्याये ।“धर्म्मो नारायणो नाम व्यासस्तु भविता यदा ।तदाप्यहं भविष्यामि भविष्यामि महामुनिः
बालखिल्याश्रमे पुण्यपर्व्वते गन्धमादने ।तत्रापि मम ते पुत्त्रा भविष्यति तपोधनाः
सुधामा कव्यपश्चैव कनिष्ठा विरजास्तथा ।मम योगबलोपेता विमना ह्यूर्द्धरेतसः
प्राप्य माहेश्वरं तेजो रुद्रलोकाय संस्थिताः
”क्वचित् युगस्य वैपरीत्यकथनन्तु कल्पभेदादवि-रुद्धमित्यधिगन्तव्यम्
) धर्म्मलक्षणं यथा, --“पात्रे दानं मतिः कृष्णे मातापित्रोश्च पूजनम् ।श्रद्धा वलिर्गवां ग्रासः षड्विधं धर्म्मलक्षणम्
”इति पाद्मोत्तरखण्डम्
*
धर्म्माङ्गानि यथा, पाद्मभूमिखण्डे ।“ब्रह्मचर्य्येण सत्येन तपसा प्रवर्त्तते ।दानेन नियमेनापि क्षमाशौचेन वल्लभ !
अहिंसया सुशान्त्या अस्तेयेनापि वर्त्तते ।एतैर्द्दशभिरङ्गैस्तु धर्म्ममेव प्रसूचयेत्
”धर्म्ममूलं यथा, मत्स्यपुराणे ।“अद्रोहश्चाप्यलोभश्च दमो भूतदयातपः ।ब्रह्मचर्य्यं ततः सत्यमनुक्रोशः क्षमा धृतिः ।सनातनस्य धर्म्मस्य मूलमेतद्दुरासदम्
”कलेर्दशसहस्रवर्षान्ते धर्म्मादयो हरेः पदं गमि-ष्यन्ति यथा, --“शालग्रामो हरेर्मूर्त्तिर्जगन्नाथश्च भारतम् ।कलेर्दशसहस्रान्ते ययौ त्यक्त्रा हरेः पदम्
सत्त्वञ्च धर्म्मं सत्यञ्च वेदाश्च ग्रामदेवताः ।व्रतं तपश्चानशनं ययुस्तैः सार्द्धमेव
”इति ब्रह्मवैवर्त्ते प्रकृतिखण्डम्
*
धर्म्माधारस्थानानि यथा, --“यत्र स्थानं तवाधारो वदामि श्रूयतां विभो ! ।वैष्णवेषु सर्व्वेषु यतिषु ब्रह्मचारिषु
पतिब्रतासु प्राज्ञेषु वानप्रस्थेषु भिक्षुषु ।नृपेषु धर्म्मशीलेषु सत्सु सद्बैश्यजातिषु
द्विजसेविषु शूद्रेषु सत्संसर्गस्थितेषु ।एषु त्वं सन्ततं पूर्णो धर्म्मराज ! विराजसे
युगे युगे तवाधारा एते पुण्यतमा जनाः
”अपि ।“अश्वत्थवटविल्वेषु तुलसीचन्दनेषु ।देवार्हेषु पुष्पेषु विद्यमानोऽसि शाखिषु
देवालयेषु तीर्थेषु सतां शश्वद्गृहेषु ।वेदवेदाङ्गश्रवणजनेषु सभासु
श्रीकृष्णगुणनामोक्तश्रुतिगीतस्थलेषु ।व्रतपूजातपोन्याययज्ञसाक्षिस्थलेषु
दीक्षापरीक्षाशपथगोष्ठगोष्पदभूमिषु ।गवां गृहेषु गोष्ठेषु विद्यमानो हि पश्यसि
कृशता ते भविता धर्म्मैतेषु स्थलेषु
धर्म्मागम्यस्थानानि यथा, --“एतदन्येषु कृशता यदगम्यञ्च तत् शृणु ।पुंश्चलीषु तद्गृहेषु गृहेषु नरघातिनाम्
नरघातिषु नीचेषु मूर्खेषु खलेषु ।देवतागुरुविप्रेषु पाल्यानां धनहारिषु
असन्नरेषु धूर्त्तेषु चौरेषु रतिभूमिषु ।दुरोदरसुरापानकलहानां स्थलेषु
शालग्रामसाधुतीर्थपुराणरहितेषु ।दस्युग्रस्तेषु देवेषु तालच्छायासु गर्व्विषु
असिजीविमसीजीविदेवलग्रामयाजिषु ।वृषवाहस्वर्णकारजीवहिंसोपजीविषु
भर्तृनिन्दितनारीषु स्त्रीजितेषु पुंसु ।दीक्षासन्धिविष्णुभक्तिविहीनेषु द्विजेषु
स्वाङ्गकन्याविक्रयिषु स्वयोषिद्विक्रयिष्वथ ।शालग्रामसुरग्रन्थभूमिविक्रयिषु प्रभो !
मित्रद्रोहिकृतघ्नेषु सत्यविश्वासघातिषु ।शरणागतहीनेषु आश्रितघ्नेषु तेषु
शश्वन्मिथ्योक्तिशीलेषु तथा सीमापहारिषु ।कामात्क्रोधात्तथा लोभान्मिथ्यासाक्षिप्रवादिषु
पुण्यकर्म्मविहीनेषु पुण्यकर्म्मविरोधिषु ।स्थातुमेतेषु निन्द्येषु नाधिकारस्तव प्रभो !
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ४२ अध्यायः
देवादीनां धर्म्मो यथा, --सुकेशिरुवाच ।“किंलक्षणो भवेद्धर्म्मः किमाचरणसत्क्रियः ।यमाश्रित्य सीदन्ति देवाद्यास्तु तदुच्यताम्
ऋषय ऊचुः ।देवानां परमो धर्म्मः सदा यज्ञादिकाः क्रियाः ।स्वाध्यायवेदवेत्तृत्वं विष्णुपूजारतिः स्मृतिः
दैत्यानां बाहुशालित्वं मात्सर्य्यं युद्धसत्क्रिया ।विन्दनं नीतिशास्त्राणां हरशक्तिरुदाहृता
सिद्धानासुदितो धर्म्मो योगयुक्तिरनुत्तमा ।स्वाध्यायं ब्रह्मविज्ञानं भक्तिर्द्वाभ्यामपि स्थिरा
उत्कृष्टोपासनं ज्ञेयं नृत्यवाद्येषु वादिता ।सरस्वत्यां स्थिरा भक्तिर्गान्धर्व्वो धर्म्म उच्यते
विद्याधरत्वमतुलं विज्ञानं पौरुषे मतिः ।विद्याधराणां धर्म्मोऽथ भवान्यां भक्तिरेव
गान्धर्व्वविद्यावेदित्वं भक्तिः स्थाणौ तथा स्थिरा ।कौशल्यं सर्व्वशिल्पेषु धर्म्मः कैम्पुरुषः स्मृतः
ब्रह्मचर्य्यममानित्वं योगाभ्यासरतिर्दृढा ।सर्व्वत्र कामचारित्वं धर्म्मोऽयं पैतृकः स्मृतः
ब्रह्मचर्य्यं यताशित्वं जप्यज्ञानञ्च राक्षस ! ।नियमा धर्म्मवेदित्वमार्षं धर्म्मं प्रचक्षते
स्वाध्यायं ब्रह्मचर्य्यञ्च दानं यजनमेव ।अकार्पण्यमनायासं दयाहिंसाक्षमादयः
जितेन्द्रियत्वं शौचञ्च माङ्गल्यं भक्तिरुच्यते ।शङ्करे भास्करे देव्यां धर्म्मोऽयं मानवः स्मृतः
धनाधिपत्यं भोगानि स्वाध्यायं शङ्करार्च्चनम् ।अहङ्कारमशौचञ्च धर्म्मोऽयं गुह्यकेष्विति
परदाराभिमर्षित्वं परार्थेऽपि लोलुपा ।स्वाध्यायस्त्र्यम्बके भक्तिर्धर्म्मोऽयं राक्षसः स्मृतः
अविवेकताथाज्ञानं शौचहानिरसत्यता ।पिशाचानामयं धर्म्मः सदा चामिषगृध्नुता
योनयस्तु द्वादशैताः सह धर्म्माश्च राक्षस ! ।ब्रह्मणा कथिताः पुण्या द्वादशैव गतिप्रदाः
”इति वामनपुराणे ११ अध्यायः
धर्म्माधर्म्मलक्षणम् यथा, --“अहिंसालक्षणो धर्म्मो हिंसा चाधर्म्मलक्षणा
”इति महाभारतम्
“वेदप्रणिहितो धर्म्मो ह्यधर्म्मस्तद्विर्य्ययः
”इति श्रीभागवतम्
“विहितक्रियया साध्यो धर्म्मः पुंसां गुणो मतः ।प्रतिषिद्धक्रियासाध्यः गुणोऽधर्म्म उच्यते
”इति धर्म्मदीपिका
(दुह्यवंशीयनृपविशेषः यथा, भागवते २३ १४ ।“द्रुह्योस्तु तनयो वभ्रुः सेतुस्तस्यात्मजस्ततः ।आरब्दस्तस्य गान्धारस्तस्य धर्म्मस्ततो धृतः
”)