| YouTube Channel

धर्माधर्मपरीक्षण (dharmAdharmaparIkSaNa)

 
Spoken Sanskrit
English
धर्माधर्मपरीक्षण dharmAdharmaparIkSaNa
n.
kind of ordeal by drawing lots or slips of black and white paper
धर्माधर्मपरीक्षण dharmAdharmaparIkSaNa
n.
test of right and wrong
Monier Williams Cologne
English
धर्माधर्म—परीक्षण
n.
the test of and w°, a kind of ordeal by drawing lots or slips of black and white paper Sch. on
Yājñ.
शब्दकल्पद्रुमः
Sanskrit
धर्म्माधर्म्मपरीक्षणं,
क्ली,
(धर्म्मश्च अधर्म्मश्च तयोःपरीक्षणम् ।) परीक्षाविशेषः यथा, --“अधुना संप्रवक्ष्यामि धर्माधर्म्मपरीक्षणम् ।हन्तॄणां याचमानानां प्रायश्चित्तार्थिनां नृणाम्
राजतं कारयेत् धर्म्ममधर्म्मं सीसकायसम् ।लिखेत् भूर्जे पटे वापि धर्म्माधर्म्मौ सितासितौ
अभ्युक्ष्य पञ्चगव्येन गन्धमाल्यैः समर्च्चयेत् ।सितपुष्पस्तु धर्म्मः स्यादधर्म्मोऽसितपुष्पधृक्
एवं विधायोपलिख्य पिण्डयोस्तौ निधापयेत् ।गोमयेन मृदा वापि पिण्डौ कार्य्यौ समन्ततः
मृद्भाण्डक उपहृते स्थाप्यौ चानुपलक्षितौ ।उपलिप्ते शुचौ देशे देवब्राह्मणसन्निधौ
आवाहयेत् ततो देवान् लोकपालांश्च पूर्व्ववत्
धर्म्मावाहनपूर्व्वन्तु प्रतिज्ञापत्रकं लिखेत् ।यदि पापविमुक्तोऽहं धर्म्मस्त्वायातु मे करे
अशुद्धश्चेन्मम करे पापमायातु धर्म्मतः ।अभियुक्तस्तयोश्चैकं प्रगृह्णीताविलम्बितः
धर्म्मे गृहीते शुद्धः स्यादधर्म्मे तु हीयते ।एवं समासतः प्रोक्तं धर्म्माधर्म्मपरीक्षणम्
”इति मिताक्षरा