| YouTube Channel

धर्माचार्य्य (dharmAcAryya)

 
वाचस्पत्यम्
Sanskrit
धर्माचार्य्य
पु०
धर्मे आचार्य्यः धर्मशिक्षके गुरुभेदेऋग्वेदिनां तर्पणीये ऋषिभेदे “सुमन्तुजैमिनिवैशम्पायनपैलसूत्रभाष्यभारतमहाभारतधर्माचार्य्या इत्यु-पक्रमे ये चान्ये आचार्य्यास्ते सर्व तृप्यन्त्विति”आश्व० गृ० धर्माचार्य्याश्च नैमित्तिकादिप्रलयो-त्तरं वैदिकधर्माचारयोः शिक्षार्थं वीजीभूता धर्म-प्रवर्त्तका ऋषिभेदाः यहाह मिता० प्रा० अध्याये“ननु नैमित्तिकादिप्रतिसञ्चरेऽखिलाध्यापकप्रलयादविदित-वेदास्तस्योपरितनाजनाः कथमग्निहोत्रादिकं कर्मकरिष्यन्ति कथन्तराञ्चाकृतकर्माणः स्वर्गमार्गमधिरो-क्ष्यन्तीत्यत आह “तत्राष्टाशीतिसाहस्रा मुनयो गृह-मेधिनः पुनरावर्त्तिनो वीजभूता धर्मप्रवर्त्तकाः” याज्ञ० ।तत्र पितृयाने अष्टाशीतिसहस्रसंख्या मुनयो गृहस्था-श्रमिणः पुनरावृत्तिधर्माणः सर्गादौ वेदस्योपदेशकतयाधर्मतरुप्रादुर्भावे वीजभूताः सन्तोऽग्निहोत्रादिधर्मप्रव-र्त्तका अतो प्रागुदितदोषसमागमः किञ्च ।सिप्तर्षिनागवीथ्यन्तर्देवलोकं समाश्रिताः तावन्त एवमुनयः सर्वारम्भविवर्जिताः तपसा ब्रह्मचर्येण सङ्ग-त्यागेन मेधया तत्र गत्वावतिष्ठन्ते यावदाहूतसंप्लवम्”याज्ञ० सप्तर्षयः प्रसिद्धा नागवीथ्यैरावतपथः तदन्तरालेतावन्त एवाष्टाशीतिसहस्रसंख्या मुनयः सर्वारम्भविव-र्जिताः केवलज्ञाननिष्ठास्तपोब्रह्मचर्ययुक्तास्तथासङ्गत्या-तिनो देवलोकं समाश्रिताः आहूतसंप्लवम्प्राकृत-प्रलयपर्य्यन्तमवतिष्ठन्ते तत्र स्थिताः सृष्ट्यादावा-ध्यात्मिकधर्माणां प्रवर्त्तकाः कथम्भूतास्ते मुनय इत्यतआह “यतो वेदाः पुराणानि विद्योपनिषदस्तथा श्लोकाःसूत्राणि भात्याणि यच्च किञ्चन वाङ्मयम्” याज्ञ० ।यतो द्विविधादपि मुनिसमूहाच्चत्वारो वेदाः पुराणाङ्ग-विद्यौपनिषद्रश्च नित्यभता एवाध्येतृपरम्परायाताःप्रवृत्तास्तथा श्लोका इतिहासात्मकाः सूत्राणि शब्दानु-शासनमीमांसागोचराणि भाष्याणि सूत्रव्याख्या-रूपाणि यदन्यदायुर्विद्यादिकं वाङमयं तदपि यत् सका-शात्प्रवृत्तं तथाविधास्ते मुनयो धर्मप्रवर्त्तकाः एवंसति वेदस्यापि नानित्यतादोषप्रसङ्गः”