| YouTube Channel

धर्मसार (dharmasAra)

 
Monier Williams Cologne
English
धर्म—सार
m.
‘law-essence’,
N.
of wk.
Aufrecht Catalogus Catalogorum
English
धर्मसार by Prabhākara. Burnell 130^a. Quoted in
Ācāramayūkha and in Ācārārka.
शब्दकल्पद्रुमः
Sanskrit
धर्म्मसारः,
पुं,
(धर्म्मस्य सारः ।) श्रेष्ठपुण्यकर्म्म ।यथा ब्रह्मोवाच ।“धर्म्मसारमहं वक्ष्ये सङ्क्षेपाच्छृणु शङ्कर ! ।भुक्तिमुक्तिप्रदं सूक्ष्मं सर्व्वपापविनाशनम्
श्रुतं ब्रह्म बलं धैर्य्यं सुखमुत्साहमेव ।शीको हरति वै नॄणां तस्माच्छोकं परित्यजेत्
कर्म्मदेवाः कर्म्मलोकाः कर्म्मसम्बन्धिबान्धवाः ।कर्म्माणि प्रेरयन्तीह पुरुषं सुखदुःखयोः
दानमेव परो धर्म्मो दानात् सर्व्वमवाप्यते ।दानान्मुक्तिञ्च राज्यञ्च दद्याद्दानं ततो नरः
एकतः क्रतवः सर्व्वे समग्रवरदक्षिणाः ।एकतो भयभीतस्य प्राणिनः प्राणरक्षणम्
तपसा ब्रह्मचर्य्येण यज्ञैस्त्यागेन वा पुनः ।गतिन्तु लभते जन्तुर्गङ्गां संसेव्य यां लभेत्
अश्रद्धा परमं पापं श्रद्धा पापप्रणाशिनी ।जहाति पापं श्रद्धावान् जीर्णां त्वचमिवोरगः
पुराकृतपुण्यानां नराणामिह शङ्कर ! ।त्रीण्येतानि प्रपद्यन्ते श्रद्धादातव्यमर्थिनः
दूरादतिथयो यस्य गृहमायान्त्यवारिताः ।स गृहस्थ इति प्रोक्तः शेषास्तु गृहरक्षकाः
चिन्तयन्ति ये विष्णुं नार्च्चयन्ति ये नराः ।धर्म्मस्य नाशका ये ते वै निरयगामिनः
ये होमजपस्नानदेवतार्च्चनतत्पराः ।सत्यक्षान्तिदयायुक्तास्ते नराः स्वर्गगामिनः
दाता सुखदुःखानां हर्त्तास्ति कश्चन ।स्वकृतान्येव भुज्यन्ते दुःखानि सुखानि
धर्म्मार्थं जीवितं येषां सन्तानार्थञ्च मैथुनम् ।देवार्थं तर्पणं येषां दुर्गाण्यभितरन्ति ते
सन्तुष्टः को शक्नोति फलमूलैश्च जीवितुम् ।सर्व्व एव हि साम्येन शङ्कटान्यवगाहते
लोभात् क्रोधः प्रभवति लोभाद्द्रोहः प्रवर्त्तते ।लोभान्मोहश्च माया मानो मत्सर एव
रागद्वे षानृतक्रोधलोभमोहमदोज्झितः ।यः शान्तः परं लोकं याति पापविवर्ज्जितः
देवता मुनयो नागा गन्धर्व्वा गुह्यका नराः ।धार्म्मिकं पूजयन्तीह धनाढ्यं कामिनम्
मन्त्रबलवीर्य्येण प्रज्ञया पौरुषेण वा ।अलभ्यं लभते मर्त्यस्तत्र का परिदेवना
यथामिषं जले मत्स्यैर्भक्ष्यते श्वापदर्भवि ।आकाशे पक्षिभिर्न्नित्यं तथा सर्व्वत्र वित्तवान्
सर्व्वसत्त्वदयालुत्वं सर्व्वेन्द्रियविनिग्रहः ।सर्व्वत्रानित्यबुद्धित्वं श्रेयः परमिदं स्मृतम्
पश्यन्निवाग्रतो मृत्युं यो धर्म्मं नाचरेन्नरः ।अजागलस्तनस्येव तस्य जन्म निरर्थकम्
भ्रणहा ब्रह्महा गोघ्नः पितृहा गुरुतल्पगः ।भूमिं सर्व्वगुणोपेतां दत्त्वा पापैः प्रमुच्यते
गोदानात् परं दानं किञ्चिदस्तीति मे मतिः ।सा गौर्न्यायार्ज्जिता दत्त्वा कृत्स्नं तारयते कुलम्
नान्नदानात् परं दानं किञ्चिदस्ति वृषध्वज ! ।अन्नेन धार्य्यते सर्व्वं चराचरमिदं जगत्
कन्यादानं वृषोत्सर्गं जपस्तीर्थं श्रुतं तथा ।हस्त्यश्वरथदानानि मणिरत्नवसुन्धराः
अन्नदानस्य सर्व्वाणि कलां नार्हन्ति षोडशीम् ।अन्नात् प्राणो बलं तेजश्चान्नाद्वीर्य्यं धृतिः स्मृतिः
कूपवापीतडागादि आरामाणि कारयेत् ।त्रिःसप्तकुलमुद्धृत्य विष्णुलोके महीयते
साधूनां दर्शनं पुण्यं तीर्थादपि विशिष्यते ।कालेन फलते तीर्थं सद्यः साधुसमागमः
सत्यं दमस्तपः शौचं सन्तोषः क्षान्तिरार्ज्जवम् ।ज्ञानं शमो दया दानमेष धर्म्मः सनातनः
”इति गारुडे २२५ अध्यायः
वाचस्पत्यम्
Sanskrit
धर्मसार
पु०
धर्मेषु सारः श्रेष्ठपुण्यकर्मणि तत्साधनेच गरुडपु० २२५ अ० विस्तरेणोक्तः