| YouTube Channel

धर्मव्रत (dharmavrata)

 
Shabdartha Kaustubha
Kannada
धर्मव्रत
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಧರ್ಮಕಾರ್ಯಗಳಲ್ಲಿ ನಿರತನಾದವನು
व्युत्पत्तिः - > धर्मे व्रतं यस्य
वाचस्पत्यम्
Sanskrit
धर्मव्रत
त्रि०
धर्मे व्रतं संकल्पविशेषीयस्य धर्मरते धर्मस्यविश्वरूपाख्यपत्न्यां जातायां कन्यायां मरीचिकलत्रेस्त्री तत्कथा वायुपु० “आसीद्धर्मो महातेजाः सर्वविज्ञा-नपारगः विश्वरूपा तत्पत्नी भर्त्तृव्रतपरायणा ।तस्यां धर्मात् समुत्पन्ना कन्या धर्मव्रता सती सर्वलक्षण-सम्पन्ना लक्ष्मीरिव कुलाधिका” इत्युपक्रमे “मरीचे-र्वचनं श्रुत्वा कन्या प्रोवाच तं मुनिम् अहं धर्मव्रता-नाम धर्मपुत्री तपोन्विला पतिव्रतार्थं विप्रेन्द्र! चरामिपरमं तपः धर्मव्रतां मरीचिस्तामुवाच प्रीतिपूर्व-कम् पतिव्रता दर्शनान्मे भविष्यसि शुभव्रते! पति-व्रतेच्छया पृथ्वी विचरामि ह्यऽहर्निशम् त्वञ्चेत् पति-व्रता जाता भजे त्वां भज मां वरम् लोके त्वादृशीकन्या मम तुल्यो ते वरः धर्मव्रते! धर्मपुत्नि! तस्मात्त्वं भज माधुना धर्मव्रता मुनिं प्राह धर्मं याचय सु-व्रत! तत् श्रुत्वा धर्ममगमन्मुनिं धर्मोददर्श तेजःपुञ्जवरं नत्वा ह्यासनार्घ्यादिनार्च्चयत् किमर्थमागतः पृष्टोमरीचिर्धर्ममव्रवीत् कन्यार्थं भ्रमता पृथ्वीं दृष्टा तेकन्यका वरा मह्यं कन्याञ्च तां देहि श्रेयस्तव भवि-ष्यति अर्घ्यादिना समभ्यर्च्च्य धर्मः प्राचेतसेरितम् ।धर्मव्रतां समानीय दत्तवांस्तां मरीचये” धर्मस्यव्रतम् ।हेमाद्रिव्र० उक्ते व्रतभेदे
न०
व्रतशब्दे दृश्यम्