| YouTube Channel

धर्ममेघ (dharmamegha)

 
Monier Williams Cologne
English
धर्म—मेघ
m.
a partic. Samādhi,
Yogas.
(-ध्यान
n.
a partic. state of mind connected with it, ib., Sch.)
Shabdartha Kaustubha
Kannada
धर्ममेघ
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಅಸಂಪ್ರಜ್ಞಾತ ಸಮಾಧಿ
निष्पत्तिः - > मिह (सेचने) -कुत्वम् (७-३-५३)
व्युत्पत्तिः - > धर्मान् मेहति
प्रयोगाः - > "प्रसङ्ख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेर्धर्ममेधः"
उल्लेखाः - > पा० यो० सू०
Sanskrit Tibetan
Tibetan
chos kyi sprin
१) धर्ममेघ २) धर्ममेघा ३) महाधर्ममेघ
chos sprin
धर्ममेघ
वाचस्पत्यम्
Sanskrit
धर्ममेघ
पु०
धर्मात् मेहति वर्षति मिह--अच् धश्चान्तादेशः६ त० पातञ्जलोक्ते असंप्रज्ञातसमाधौ तल्लक्षणादि पात०सूत्रभाष्यविवृतिषूक्तं यथा “प्रसङ्ख्यानेऽप्यकुसीदस्यसर्वथा विवेकख्यातेर्धर्ममेघः समाधिः” सू० ।“यदायं ब्राह्मणः प्रसङ्ख्यानेऽप्यकुसीदस्ततोऽपि नकिञ्चित प्रार्थयते तत्रापि विरक्तस्य सर्वथा विवेकख्याति-रेव भवतीति पुंस्कारवीजक्षयान्नास्य प्रत्ययान्तराण्युत्प-द्यन्ते तदास्य धर्ममेधोनाम समाधिर्मवति” भा०“ततः पसङ्ख्यानान्नकिञ्चित् सर्वभावाधिष्ठातृत्वादिप्रार्थयते प्रत्युत तत्राप्रि क्लिश्नाति परिणामित्वदोषदर्शनेनविरक्तः सर्वथा विवेकख्यातेरेव भवति एतदेव विवृणोतितत्रापीति यदा व्युत्थानप्रत्यया भवेयुः तदा नायंब्राह्मणः सर्वथा विवेकख्यातिः यतस्तस्य प्रत्ययान्त-राणि भवन्ति ततः सर्वथा यदा विवेकख्यातिरितितदास्य धर्ममेघःसमाधिर्भवति एतदुक्तं भवति प्रसङ्ख्यानेविरक्तस्तन्निरोधमिच्छन् धर्ममेघं समाधिमुपासीततदुपासने सर्वथा विवेकख्यातिर्भवति” विवृतिः ।“ततः क्लेशकर्मनिवृत्तिः” सू० ।“तल्लाभादविद्यादवः क्लेशाः समूलकाषं कषिताभवन्ति कुशलाकुशलाश्च कर्माशयाः समूलघातं हताभवन्ति क्लेशकर्मनिवृत्तौ जीवन्नेव विद्वान् विमुक्ती भवतिकस्मात् यस्माद्विपर्ययो भवस्य कारणं, हि क्षीणविप-र्ययः कश्चित् केनचित् क्वचिज्जातो दृश्यते इति” भा० ।“तन्निरोद्धुं पारयतीति तस्य प्रयोजनमाह ।ततः कस्मात् पुनर्जीवन्नेव विद्वान् विमुक्तोभवतिउत्तरं यस्मादिति क्लेशकर्मवासनेद्धः किल कर्माशयोजात्यादिनिदानं, चासति निदाने निदानी भवितुम-र्हति यथाहात्र भगवानक्षपादः “वीतसागजन्मादर्शना-दिति” विवृतिः ।“तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्यात् ज्ञेय-मल्पम् ।” सू०“सर्वैः क्लेशकर्मावरणेर्विमुक्तस्य ज्ञानस्यानन्त्यं भवतितमसामिभूतमावृतं ज्ञानसत्वं क्वचिदेव रजसा प्रवर्त्तितम्उद्घाटितं ग्रहणसमर्थैं भवति तत्र यदा सर्वैरावरण-मलैरपगतमलं भवति तदा भवत्यस्यानन्त्यं ज्ञानस्यानन्त्यात्ज्ञेयमल्पं सम्पद्यते यथाकाशे खद्योतः, यत्रेदमुक्तम्“अत्नोमणिमविध्यत्तमनङ्गुलिरथावयत् अग्रीवस्तं प्रत्य-सुञ्चत्तमजिह्वोभ्यपूजयदिति” भा० ।“अथैवं धर्ममेघे सति कीदृशं चित्तमित्याह ।तदेति आव्रियते चित्तसत्वमेभिरिति आवरणानि-मलाः क्लेशकर्माणि सर्वे ते आवरणमला-श्चेति सर्ववरणमलाः तेभ्योऽपेतस्य ज्ञानस्य चित्तसत्वस्यज्ञायतेऽनेनेति अनया व्युत्पत्त्या, आनन्त्यादपरिमेयत्वात्ज्ञेयमल्वम् यथा हि शरदि घनपटलमुक्तस्य चन्द्रा-र्च्चिषः परितः प्रद्योतमानस्य प्रकाशानन्त्यात् प्रकाश्याःघटादयोऽल्पाः प्रकाशन्ते एवमपगतरजस्तमसश्चित्तसत्वस्यप्रकाशानन्त्यादल्पं प्रकाश्यमिति तदेतदाह सर्वैरितिएतदेव व्यतिरेकमुखेन स्फोरयति आवरकेण तमसा-भिभूतमिति क्रियाशीलेन रजसा प्रवर्त्तितमतएवोद्वा-टितं तम इत्यथः अतएव सर्वान् धर्मान् ज्ञेयान् मेहतिवर्षति प्रकाशनेनेति धममेघ इत्युच्यते नन्वयमस्तु धर्म-मेघः समाधिः सवासनक्लेशकर्माशयप्रशमहेतुः अथसत्यप्यस्मिन कस्मात् जायते पूनर्जन्तुः इत्यत आहयत्रेदमुक्तमिति कारणसमुच्छेदेऽपि चेत् कार्यं क्रियतेहन्त भोः मणिवेधाटयोऽन्धादिभ्यो भवेयुः प्रत्यक्षाः, तथा-चानुपपन्नार्थतायामाभाणको लौकिक उपपन्नार्थः स्यात् ।अविध्यदब्धोमणिमिति आवयत् ग्रथितवान्, प्रत्य-मुञ्चत् पिनद्धवान्, अभ्यपूजयत् स्तुतवानिति” विवृतिः ।“ततः कृतार्थानां परिणामक्रमसमाप्तिर्गुणानाम् ।” सू०“तस्य धर्ममेघस्योदयात् कृतार्थानां गुणानां परिणा-मक्रमः परिसमाप्यते नहि कृतभोगापवर्गाः परिसमाप्त-क्रमाः क्षणमध्यवस्थातुमुत्सहन्ते ।” भा०“ननु धर्ममेघस्य परा काष्ठा तानप्रसादमात्रं परंवैराग्यं समूलघातमपहन्तु व्युत्थानसमाधिः संस्का-रान् सक्लेशकर्माशयान, गुणास्तु स्वतएव विकारकरण-शीलाः कस्मात्तादृशमपि पुरुषं प्रति देहेन्द्रियादि नार-भन्ते इत्यत आह ततो--गुणानाम् शीलमिदंगुणानां यं प्रति कृतार्थास्तं प्रति प्रवर्त्तन्तेइति भावः” विवृतिः