| YouTube Channel

धर्मपरिणाम (dharmapariNAma)

 
Apte Hindi
Hindi
धर्मपरिणामः
पुं*
धर्मः-परिणामः -
हृदय में सदाचरण का उद्बोधन
वाचस्पत्यम्
Sanskrit
धर्मपरिणाम
पु०
धर्मरूपः परिणामः पातञ्जलोक्ते चि-त्तस्य धर्मिणः व्युत्थाननिरे र्धर्मयोरभिभवप्रादुर्भाव-रूपे परिणामभेदे यथाह तत्र“एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामाव्याख्याताः” पात० सू० ।“एतेन पूर्वोक्तेन चित्तपरिणामेन धर्मलक्षणावस्था-रूपेण भूतेन्द्रियेषु धर्मपरिणामो लक्षणपरिणामश्चा-ऽवस्थापरिणामश्चोक्तोवेदितव्यः तत्र व्युत्थाननिरोधयोर्ध-र्मयोरभिभवप्रादुर्भावौ धर्मिणि धर्मपरिणामः लक्षण-परिणामश्च निरोधस्त्रिलक्षणः त्रिभिरध्वमिर्युक्तः खल्व-नागतलक्षणमध्वानं प्रथमं हित्वा धर्मत्वमनतिक्रान्तोवर्त्तमानं लक्षणं प्रतिपन्नः यत्रास्य स्वरूपेणाभिव्यक्तिरे-षोऽस्य द्वितीयोऽध्वा चातीतानागताभ्यां वियुक्तः ।तथा व्युत्थानं त्रिलक्षणं त्रिभिरध्वभिर्युक्तं वर्त्तमानंलक्षणं हित्वा धर्मत्वमनतिक्रान्तमतीतलक्षणं प्रतिपन्न-मेषोऽस्य तृतीयोऽध्वा नचानागतवर्त्तमानाभ्यां लक्षणाभ्यांवियुक्तः एवं पुनर्व्युत्थानमुपसम्पद्यमानमनागतल-क्षणं हित्वा धर्मत्वमनतिक्रान्तं वर्त्तमानं लक्षणं प्रति-पन्नं यत्रास्य स्वरूपाभिव्यक्तौ सत्यां व्यापार एषोऽस्यद्वितीयोऽध्वा चातीतानागताभ्यां लक्षणाभ्यां विमुक्त-मित्येवं पुनर्निरोध एवं पुनर्व्युत्यानभिति तथाऽव-स्थापरिणामो निरोधलक्षणेषु निरोधसंस्कारा बलवन्तोभवन्ति दुर्बला व्युत्थानसंस्कारा इत्येषु धर्माणामवस्था-परिणामः तत्र धर्मिणोधर्मैः परिणामो धर्माणाम्अध्वनां लक्षणैः परिणामो लक्षणानामप्यवस्थाभिः परि-णाम इत्येवं धर्मलक्षणावस्थापरिणामैः शून्यं नक्षणमपि गुणवृत्तमवतिष्ठते चलञ्च गुणवृत्तं गुण-स्वाभाव्यन्तु प्रवृत्तिकारणमुक्तं गुणानामिति एतेनभूतेन्द्रियेषु धर्मधर्मिभेदात् त्रिविधपरिणामो वेदितव्यः ।परमार्थतस्त्वेक एव परिणामौ धर्मिस्वरूपमात्रो हिधर्मोधर्मिविक्रियैवैष धर्मद्वारा प्रपञ्च्यते इति तत्र धर्मस्यधर्मिणि वर्त्तमानस्यैवाध्वस्वतीतानागतवर्त्तमानेषु भावा-न्यथात्वं भवति द्रव्यान्यथात्वं यथा सुवर्णभाजनस्यभित्त्वाऽन्यथा क्रियमाणस्य भावान्यथात्वमिति ।” भा०“ननु चित्तपरिणतिमात्रमुक्तं तु तत्प्रकारा धर्म-लक्षणावस्थापरिणामास्तत् कथं तेषामतिदेश इत्यतआह तत्र व्युत्थाननिरुद्धयोरिति धर्मलक्षणा-वस्थाशब्दाः परं नोच्चारिताः तु धर्मलक्षणावस्थावरिणामा नोक्ता इति संक्षेपार्थः तथा हि व्युत्थाननिरोधसंस्कारयोरित्यत्रैव सूत्रे धर्मपरिणाम उक्तः इमञ्चधर्मपरिणामं दर्शयता तेनैव धर्माधिकारिणो लक्षणपरि-णामोऽपि तेन सूत्रित एवेत्याह लक्षणपरिणाम इतिलक्ष्यते अनेनेति लक्षणं कालभेदः लक्षितवस्तु वस्त्वन्तरेभ्यःकालान्तरयुक्तेभ्योव्यवच्छिद्यत इति निरोधस्त्रिलक्षणःअस्यैव व्याख्यानं त्रिभिरध्वमिर्युक्तः अध्वशब्दः काल-वचनः खल्वनागतलक्षणमध्वानं हित्वा तत् किम-ध्ववत् धर्मनिरोधत्वमप्यतिपतति नेत्याह धर्म-त्वमनतिक्रान्तो वर्त्तमानं लक्षणं प्रतिपन्नं यत्र निरोधोऽनागत आसीत् एव सम्प्रति वर्त्तमानो नतु निरोधो-ऽनिरोध इत्यर्थः वर्त्तमानतास्वरूपव्याख्यानंयत्रास्य स्वरूपेण स्वोचितार्थक्रियाकारिणाऽभिव्यक्तिःसमुदाचारः एषोऽस्य प्रथममनागतमध्वानमपेक्ष्य द्विती-योऽद्धा स्यादेतत् अनागतमध्वानं हित्वा चेद्वर्त्त-मानतामापन्नस्ताञ्च हित्वा अतीततामापत्स्यते हन्त भोःअध्वनामुत्पादविनाशौ स्यातां चेष्यते नह्यसत उत्पादोनापि सतोविनाश इत्यत आह नचातीतानागताभ्यांसामान्यात्मनावस्थिताभ्यां वियुक्तैति अनागतस्यनिरोधस्य वर्त्तमानतालक्षणं दर्शयित्वा वर्त्तमानव्युत्था-नस्यातीततां तृतीयमध्वानमाह तथा व्युत्थानमितितत् किं निरोध एवानागतो व्युत्थानं नेत्याह ।एवं पुनर्व्युत्त्ःआनमिति व्युत्थान जात्यपेक्षया पुनर्भावः नव्यक्त्यपेक्षया ह्यतीतं पुनर्भवतीति स्वरूपाभित्य-क्तिरर्थक्रियाक्षमस्याविर्भावः सचैवं लक्षणपरिणामउक्तः तज्जातीयेषु पौनःपुन्येन वर्त्तत इत्याह ।एवं पुनरिति धर्मपरिणामसूचितमेवावस्थापरिणाम-माह तथेति धर्माणां वर्त्तमानाध्वनां बलवत्त्वाबलवत्वा-ऽवस्था तस्याः प्रतिक्षणं तारतम्येन परिणामः उपसं-हरति एष इति परिणामभेदानां सम्बन्धिमेदान्निर्धार-यति तन्त्रानुभवानुसारात् धर्मिण इति तत्किमेष परिणामो गुणानां कादाचित्की नेत्याह ।एवमिति कस्मात्? पुनरयं परिणामः सदातन इत्यतआह चलञ्चेति चोहेत्वर्थः वृत्तं प्रचारः एत-देव कुत इत्यत आह गुणस्वाभाव्यमिति उक्तमत्रैवपुरस्तात् सोऽयं त्रिविधोऽपि चित्तपरिणामः भूतेन्द्रियेषुसूत्रकारेण निर्दिष्ट इत्याह एतेनेति एष धर्म-धर्मिभेदो धर्मधर्मिणोर्भेदमालक्ष्य तत्र भूतानां पृथि-व्यादीनां धर्मिणां नवादिर्घटादि र्वा धर्मपरिणामः ।धर्माणां चातीतानागतवर्तमानरूपतालक्षणपरि-णामः वर्तमानलक्षणापन्नस्य गवादेर्बाल्यकौमारयौवनवार्द्धक्यमवस्थापरिणामः घटादीनामपि नवपुरा-तनतावस्थापरिणाम एवमिन्द्रियाणामपि धर्मिणां तत्त-न्नीलाद्यालोचनं धर्मपरिणामो धर्मस्य वर्त्तमानादिलक्षणपरिणामो वर्त्तमानलक्षणस्य रक्ताद्यालोचनस्फु-टत्वास्फुटत्वादिरवस्थापरिणामः चायमेवंविधो भू-तेन्द्रियपरिणामो धर्मिणो धर्मलक्षणावस्थानां मेदमा-श्रित्य वेदितव्यः अभेदमाश्रित्याह परमार्थतस्त्वितितुशन्दोभेदपक्षाद्विशिनष्टि पारमार्थिकत्वमस्य ज्ञाप्यतेनत्वन्यस्य परिणामस्य निषिध्यते कस्मात्? धर्मिस्वरूप-मात्रोहीति ननु यदि धर्मिविक्रियैव धर्मः कथमसङ्कर-प्रत्ययो लोके परिणामेष्वित्यत आद्व धर्मद्वारेति धर्म-शब्देन धर्मलक्षणावस्थाः परिगृह्यन्ते तद्द्वारेण धर्मिणएव विक्रियेत्येका चासङ्कीर्णा द्वाराणामभेदोऽपिधर्मिणः परस्परासङ्करात् ननु धर्माणामभिन्नत्वेधर्मिणोऽध्वनाञ्च भेदे धर्मिणोऽनन्यत्वेन धर्मेणापिइह धर्मिवद्भवितव्यमित्यत आह तत्र धर्मस्येति भावःसंस्थानभेदः सुवर्णादेर्यथा भाजनस्य रुचकस्वस्तिकव्यपदेशभेदो भवति तन्मात्रमन्यथा भवति तु द्रव्यंसुवर्णभेदमुपैति अत्यन्तमेदाभावादिति वक्ष्यमाणोऽभि-सन्धिः ।” विवृतिः