| YouTube Channel

धर्मनैपुण्यकाम (dharmanaipuNyakAma)

 
वाचस्पत्यम्
Sanskrit
धर्मनैपुण्यकाम
पु०
धर्मस्य नैपुण्यमतिशयं कामयते कम-अण् पूर्वं गृहीतवेदप्राये पश्चाद् अध्ययनजन्यादृष्टवि-शेषेच्छौ “नित्यानध्याय एव स्याद् ग्रामेषु नगरेषु ।धर्मनैपुण्यकामानां पूतिगन्धे सर्वदा” मनुः “नैपुण्य-मतिशयः धर्मातिशयार्थिनो ग्रामनगरयोः सर्वदान-ध्यायः स्यात् कुत्सितगन्धे सर्वस्मिन्नपि गम्य-माने धर्मनैपुण्यकामं प्रत्ययं नित्यानध्यायोपदेशो, विद्यानैपुण्यकामस्य कदाचिदध्ययनमनुजानाति येशिष्याः केचिद् गृहीतवेदप्राया अध्ययननियमजन्यादृष्टेच्छवस्ते धर्मनैपुण्यकामाः केचित् प्रथमाध्येतारोविद्यातिशयमात्रार्थिनस्ते विद्यानैपुण्यकामाः” कुल्लू०