धर्मघट (dharmaghaTa)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Spoken Sanskrit
Englishधर्मघट - dharmaghaTa - - jar of fragrant water offered daily in the month vaizAkha
Monier Williams Cologne
EnglishApte Hindi
Hindiधर्मघटः
धर्मः-घटः -
वैशाख के महीने में ब्राह्मण को प्रतिदिन दिये जाने वाले सुगन्धित जल का घड़ा
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
L R Vaidya
Englishशब्दकल्पद्रुमः
Sanskritधर्म्मघटः, (धर्म्माय घटः सुगङ्गोदकपरिपूर्ण-कलसः ।) सौरवैशाखे प्रत्यहदातव्यसुगन्धोदक-पूरितकलसः । यथा, काशीखण्डे १२ अध्याये ।“दद्युर्धर्म्मघटांश्चापि सुगन्धोदकपूरितान् ॥
”तद्विधिर्यथा । अथ धर्म्मघटव्रतम् ।तत्र प्रथमं स्वस्तिवाचनं कृत्वा सूर्य्यः सोम इतिपठित्वा सङ्कल्पं कुर्य्यात । यथा, --अद्येत्यादि वैशाखे मासि अमुकपक्षे अमुक-तिथौ महाविषुवसंक्रान्त्यां अमुकगोत्रा श्री-अमुकी देवी यमालयगमननिवारणपूर्व्वकश्री-विष्णुप्रीतिकामा अद्यारभ्य वर्षचतुष्टयं यावत्प्रतिवर्षीयमेषस्थरवौ प्रत्यहं गणपत्यादिनाना-देवतापूजापूर्व्वक-श्रीविष्णुपूजा-सभोज्यघटदान-कथाश्रवण-ब्राह्मणभोजनरूपधर्म्मघटव्रतमहंकरिष्ये ॥
* ॥
वारान्तरे अद्येत्यादि महा-विषुवसंक्रान्त्यां मत्संकल्पितधर्म्मघटव्रतकर्म्मणियथाविधिकगणपत्यादिनानादेवतापूजापूर्व्वकं श्री-विष्णुपूजासभोज्यघटदानकथाश्रवणमहं करिष्ये ।इति सङ्कल्प्य तत्सूक्तं पाठयेत् । ततो ब्राह्मणःप्रतिनिधीभूतः सामान्यार्घ्यासनशुद्धिभूतशुद्ध्या-दिकं विधाय शालग्रामादौ घटे वा गणेशा-दीन् नवग्रहान् दिक्पालांश्च संपूज्य वांहृदयाय नमः इत्याद्यङ्गन्यासकरन्यासौ कृत्वाओँ ध्येयः सदा इत्यादिना विष्णुं ध्यात्वा स्वशि-रसि पुष्पं दत्त्वा मानसोपचारैः संपूज्यार्घ्यंसंस्थाप्य पुनर्ध्यात्वावाह्य षोडशोपचारैः ओँभगवते विष्णवे नम इति मन्त्रेण संपूज्य यथा-शक्ति ओँ विष्णवे नम इति मन्त्रं जप्त्वा जपंसमर्प्य ओँ नमो ब्रह्मण्यदेवायेत्यादिना प्रणम्यलक्ष्मीं सरस्वतीं आवरणदेवताश्च पूजयेत् ।ततः एते गन्धपुष्पे ओँ सभोज्यवारिपूर्णघटायनमः । इति त्रिरभ्यर्च्य --“ओँ घटत्वं धर्म्मरूपोऽसि ब्रह्मणा निर्म्मितः पुरा ।त्वयि लिप्ते सन्तु लिप्ताश्चन्दनैः सर्व्वदेवताः ॥
”इति चन्दनेनानुलिप्य अद्येत्यादि अमुकगोत्राश्रीअमुकी देवी श्रीविष्णुप्रीतिकामा धर्म्मघट-व्रतकर्म्मणि इमं सभोज्यवारिपूर्णघटमर्च्चितंश्रीविष्णुदैवतं यथासम्भवगोत्रनाम्ने ब्राह्म णायाहंददे । इत्युत्सृज्य कृताञ्जलिः पठेत् ।“ओँ धर्म्म त्वं धटरूपेण ब्रह्मणा निर्म्मितः पुरा ।त्वयि दत्तेऽक्षया लोका मम सन्तु निरामयाः ॥
यथा त्वं शीतलो नित्यं संपूर्णः शीतवारिणा ।तथा मां सुरशार्द्दूल ! शीतलं कुरु धर्म्मराट् ॥
एष धर्म्मघटो दत्तो ब्रह्मविष्णुशिवात्मकः ।अस्य प्रदानात् सफला मम सन्तु मनोरथाः ॥
पानीयं प्राणिनां प्राणाः पानीयं पावनं महत् ।पानीयस्य प्रदानेन तृप्तिर्भवतु शाश्वती ॥
”इति पठित्वा दक्षिणां दत्त्वाच्छिद्रावधारणंकृत्वा कथां शृणुयात् ॥
* ॥
अथ कथा । श्रीकृष्ण उवाच ।“शृणु राजत् ! प्रवक्ष्यामि व्रतानां व्रतमुत्तमम् ।चन्द्रकेतुरिति ख्यातो राजासीद्धार्म्मिकः सुधीः ॥
सुशीला तस्य भार्य्यासीत् मालावत्यतिविश्रुता ।सा सर्व्वगुणसंयुक्ता साध्वीयं द्रौपदी यथा ॥
एकस्मिन् समये राजन् ! लोमशस्य च सन्निधौ ।सैषा पुटाञ्जलिर्भूत्वा लोमशं परिपृच्छति ॥
मालावत्युवाच ।शृणु त्वं मुनिशार्द्दूल ! सर्व्वधर्म्मपरायण ! ।यमालयं न गच्छामि तदुपायं ब्रवीहि मे ॥
समाख्याहि व्रतं देव ! सफलं पापनाशनम् ॥
लोमश उवाच ।शृणु राज्ञि ! महाभागे ! येन तत्र न गच्छति ।तदुपायं प्रवक्ष्यामि शृणु त्वं हि समाहिता ॥
जन्मजन्मकृतात् पापान्मुच्यते नात्र संशयः ।विष्णुस्मरणमात्रेण हन्ति पापं पुराकृतम् ॥
येन धर्म्मप्रसादेन तुष्टो देवो जनार्द्दनः ।पूजयेद्देवदेवेशं सर्व्वकामफलप्रदम् ॥
समारोप्य ततो देवं चन्दनेन विलेपितम् ।पूजयेत् परया भक्त्या गन्धपुष्पादिभिस्तथा ॥
अयने कोटिगुणितं लक्षं विष्णुपदीषु च ।षडशीतिसहस्रन्तु षडशीत्यामुदाहृतम् ॥
विषुवे शतसाहस्रं व्रतं तत्र समाचरेत् ॥
मालावत्युवाच ।ममैतत् कथितं सर्व्वं यद्व्रतञ्च त्वया प्रभो ! ।किं विधानं फलं किं वा कैश्च लोके कृतं पुरा ॥
लोमश उवाच ।शृणु देवि ! महाभागे ! पूर्व्वकालस्य या कथा ।विनिष्क्रान्ते ततश्चैत्रे यदा मेषगतो रविः ॥
दोषादिरहिते काले चतुर्व्वर्षं समाचरेत् ।तत्र नित्यं घटं दद्यात् मासमेकं सभोज्यकम् ॥
चन्दनेन समालिप्तं दक्षिणादिभिरन्वितम् ।व्रतमेतत् समाकुर्य्यात् यावत् वर्षचतुष्टयम् ॥
अनेनैव विधानेन या व्रतञ्च समाचरेत् ।सर्व्वं कुलं समुद्धृत्य स्वर्गलोके महीयते ॥
द्रौपद्याचरितं यत्तत् शृणु त्वं ध्यानतत्परा ।द्रौपद्या तदिदं पूर्व्वं न कृतं व्रतमुत्तमम् ॥
मृता गता च सा साध्वी न लभेत दिवं पुनः ।अथ शीघ्रं समागत्य तामूचुर्यमकिङ्कराः ॥
विषुवे च त्वया साध्वि ! न कृतं तद्व्रतं किल ।ततो मरणकाले स्यात् स्वर्गद्वारं विरोधितम् ॥
यमदूतैः समासाद्य गले पाशो निवेशितः ॥
द्रौपद्युवाच ।के यूयमिति तद्ब्रूत कुत्र वा नीयतेऽधुना ।कथं पाशो गले दत्तः कथयस्व मम ध्रुवम् ॥
यमदूता ऊचुः ।मा भैषीर्नीयते देवि ! धर्म्मराजस्य सन्निधौ ।पृथिव्यां यानि तीर्थानि व्रतानि विविधानि च ॥
यज्ञदानविधानञ्च त्वया सर्व्वं प्रतिष्ठितम् ।किन्त्वत्र न कृतं पूर्व्वं माधवे मासि सुव्रते ! ॥
व्रतं धर्म्मघटं नाम तेन यासि यमालयम् ॥
द्रौपद्युवाच ।यमदूता महात्मानो नयन्तु मां यमालयम् ।तत्प्रसादेन मे शीघ्रं गले पाशो विमुञ्चतु ॥
ततो विधृत्य स्वकरे समानीता यमान्तिकम् ॥
यम उवाच ।शृणु त्वं द्रौपदी साध्वि ! सर्व्वं त्वया प्रतिष्ठितम् ।न कृतो देवदेवस्य व्रतं धर्म्मघटस्त्वया ॥
तथापि तुष्टो भद्रेऽहं वरं वृणु यथेप्सितम् ॥
द्रौपद्युवाच ।वरं ददस्व मे नाथ ! गच्छामि पुनरालयम् ।कर्त्तव्यं तद्विधानेन व्रतं तव प्रसादतः ॥
यम उवाच ।व्रतं धर्म्मघटं देवि ! कुरु गत्वा निजालयम् ।नागन्तव्यं त्वया देवि ! पुनर्म्मम पुरीं शुभे ! ॥
ततो गता च सा चैव तुष्टोऽभूदन्तकस्तदा ।भूयो भूमिगृहं प्राप्य तदेव च तथा सती ॥
सा तत्र तद्व्रतञ्चक्रे दानं होमं यथाविधि ।संपूर्णे तु व्रते तत्र प्रतिष्ठामाचरत् सती ॥
ददौ द्वादशविप्रेभ्यो दानानि द्वादशानि च ।चत्वारि जलपात्राणि वस्त्रेण सहितानि च ॥
दानानि च ततो दत्त्वा तत्सङ्ख्यकघटास्तथा ।आसनानि च चत्वारि पादुकासहितानि च ॥
दक्षिणान्तु ततो दत्त्वा वस्त्राणि विविधानि च ।तद्व्रतञ्च सुसम्पन्नं विष्णुहस्तेऽन्यसत्ततः ॥
एवं कृत्वा व्रतं साध्वी द्रौपदी सुसमाहिता ।अन्तकालं समासाद्य सा गता वैष्णवं पुरम् ॥
इत्युक्ता लोमशेनाथ कन्या मालावती तथा ।कृत्वा चैव व्रतं साध्वी देवाराधनपूर्व्वकम् ॥
सा नित्यं गर्गरीं दत्त्वा सभोज्यदक्षिणान्विताम् ।देवोद्देशेन विप्राय श्रद्धया प्रत्यपादयत् ॥
एवं या कुरुते नारी पुत्त्रपौत्त्रसमन्विता ॥
पुस्तकान्तरे ।‘एवं करोति या नारी नरो वा व्रतमुत्तमम् ।’इति वा पाठः ।आयुरारोग्यमैश्वर्य्यं श्रियञ्च लभते सुखम् ।अन्ते याति परं स्थानं यत्र देवो निरञ्जनः ॥
”इति भविष्यपुराणोक्ता धर्म्मघटव्रतकथासमाप्ता ॥
क्वचित् क्वचित् पद्धतौ विष्णुधर्म्मोत्तरयमपुरा-णोक्ता च लिखिता ॥
वाचस्पत्यम्
Sanskritधर्मघट पू० धर्मार्थं देयो घटः । सौरवैशाखे प्रत्यहं धर्मार्थंदीयमाने गन्धोदकभोज्यादिसहिते घटे । तद्विधानादिभविष्यषु० उक्तं यथा “विनिष्क्रान्ते ततश्चैत्रे यदा मेष-गतो रविः । दोषादिरहिते काले चतुर्वर्षं समाचरेत् ।तत्र नित्यं घटं दद्यात् मासमेकं सभोज्यकम् ।चन्दनेन समालिप्तं दक्षिणादिमिरन्वितम् । व्रत-मेतत् समाकुर्य्यात् यावत् वर्षचतुष्टयम्” । इदन्तुव्रतरूपं दानम् । हेमाद्रिदानखण्डे तु अन्य-विधं धर्माख्यघटस्य दानमुक्तं यथा “अथ धर्मघटदानमाह विष्णुः “शीतलेन सुगन्धेन वारिणा पूरितं घटम् ।शुक्लचन्दनदिग्धाङ्गं पुष्पदामोपशोभितम् । दध्योदनयुतंकुर्य्याच्छरावं तस्य चोपरि । उपानच्छत्रसंयुक्तं धर्माख्यंकल्पयेद्घटम् । पुष्पाक्षतं गृहीत्वा तु इमं मन्त्रमुदी-रयेत् । ॐ नमो विष्णुरूपाय नमः सागरसम्भव! ।अपांपूर्णोद्धरास्मांस्त्वं दुःखसंसारसागरात् । उदकुम्भोमया दत्तो ग्रीष्मे काले दिने दिने । उदकुम्भप्रदानेनप्रीयतां मधुसूदनः” । भविष्योत्तरे “प्रत्यहं धर्मघटकोवस्त्रसंवेष्टिताननः । ब्राह्मणस्य गृहे नेयः शीतामल-जलः शुचिः । वसन्तग्रीष्मयोर्मध्ये यः पानीयं प्रय-च्छति । पले पले सुवर्णस्य फलमाप्नोति गानवः । मार्ग-शीर्षात् समारभ्य उदकुम्भन्तु यः क्षिपेत् । दिने दिनेसहस्रस्य गवां पुण्यफलं लभेत् । तस्यैवोद्यापनं कार्य्यंमासि मासि नरोत्तम । मण्डकावेष्टकाभिश्च पक्वान्नैःसार्वकामिकैः । उद्दिश्य शङ्करं विष्णुं ब्रह्माणमथ वापितॄन् । सतिलं प्रोक्षयित्वा तु मन्त्रेणानेन मानवः ।एष धर्मघटो दत्तो ब्रह्मविष्णुशिवात्मकः । अस्यप्रदानात् सततं मम सन्तु मनोरथाः । अनेन विधिनायस्तु धर्मकुम्भं प्रयच्छति । वसन्ते ग्रीष्मसमये प्रपादान-फलं लभेत् । प्रपादानफलं सोऽपि प्राप्नोतीह न संशयः” ।एतत् परमेव “दद्युर्धर्मघटांश्चापि सुगन्धोदकपूरितान्”काशीख० १२ अ० वचनम् । धर्मकुम्भादयोऽप्यत्र ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
