| YouTube Channel

धन्वी (dhanvI)

 
Wordnet
Sanskrit
Synonyms:
धन्वी
noun
तामसमनोः पुत्रः।
"धन्विनः वर्णनं पुराणेषु अस्ति।"
Synonyms:
बकुलः, सिन्धुपुष्पः, शारदिका, गूढपुष्पकः, चिरपुष्पः, धूकः, भ्रमरानन्दः, मधुपुष्पः, मघगन्धः, मद्यलालसः, मद्यामोदः, मकुलः, मकुरः, विशारदः, शक्रद्रुमः, शिवकेसरः, सर्वकेसरः, सिंहकेसरः, स्थिरपुष्पः, स्त्रीमुखमधुदोहदः, स्त्रीमुखमधुदोहलः, स्त्रीमुखपः, शीतगन्धा, धन्वः, सीधुगन्धः, करकः, केसरः, चिरपुष्पः, धन्वी, मुकुरः, दन्तधावनः, स्त्रीमुखमधुः
noun
एकस्य चिरहरितस्य वृक्षस्य पुष्पम्।
"बकुलस्य सुगन्धः तीव्रः भवति।"
Synonyms:
बकूलः, अगस्त्यः, वकवृक्षः, केसरः, केशरः, सिंहकेसरः, वरलब्धः, सीधुगन्धः, मुकूलः, मुकुलः, स्त्रीमुखमधुः, दोहलः, मधुपुष्पः, सुरभिः, भ्रमरानन्दः, स्थिरकुसुमः, शारदिकः, करकः, सीसंज्ञः, विशारदः, गूढपुष्यकः, धन्वी, मदनः, मद्यामोदः, चिरपुष्पः, करहाटकः, करहाटः, स्त्रीमुखमधुदोहदः, स्त्रीमुखमधुदोहलः, स्त्रीमुखपः, शीतगन्धा, धन्वः, सीधुगन्धः, करकः, केसरः, चिरपुष्पः, मुकुरः, दन्तधावनः
noun
वृक्षविशेषः, पुष्पष्पवृक्षविशेषः आयुर्वेदे अस्य गुणाः शीतलत्वहृद्यत्वविषदोषनाशित्वम्।
"बकूलस्य फलम् दन्तस्थैर्यकरम् अस्ति।"
Synonyms:
धनुर्धरः, धनुर्भृत्, धनुर्धारी, धन्वी, धनुषमान्, धानुष्कः, निषङ्गी, अस्त्री, तूणी
noun
यः धनुः धरति।
"साधुवेशधरौ भ्रमन्तौ द्वौ धनुर्धरौ ऋषिः अपश्यत्।"
शब्दकल्पद्रुमः
Sanskrit
धन्वी, [न्] त्रि, (धनुश्चापोऽस्त्यस्येति व्रीह्या-दित्वात् इनिः ।) धनुर्धरः इत्यमरः ।८ ६९
(यथा, कुमारे १० ।“कुर्य्यां हरस्यापि पिनाकपाणे-र्धैर्य्यच्युतिं के मम धन्विनोऽन्ये
”)विदग्धः इति विश्वः
धन्वी, [न्]
पुं,
(धन्वमस्त्यस्येति धन्व + इनिः ।)दुरालभा अर्ज्जुनवृक्षः (अस्य पर्य्यायोयथा, --“धन्वी धनञ्जयः पार्थो नदीजः ककुभोऽर्ज्जुनः ।”इति वैद्यकरत्नमालायाम्
)वकुलः इति राजनिर्घण्टः
पार्थः इतिविश्वः
(विष्णुः यथा, महाभारते १३ ।१४९ २२ ।“ईश्वरो विक्रमो धन्वी मेधावी विक्रमः क्रमः
”महादेवः यथा, तत्रैव १३ १७ ४२ ।“कमण्डलुधरो धन्वी बाणहस्तः कपालवान्
”तामसमनोः पुत्त्रविशेषः यथा, हरिवंशे ।७ २४ ।“तपोरतिरकल्माषस्तन्वी धन्वी परन्तपः ।तामसस्य मनोरेते दश पुत्त्रा महाबलाः
”)