धन्वन्तरिः (dhanvantariH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishधन्वन्तरिः [dhanvantariḥ], 1 of the physician of the gods, said to have been produced at the churning of the ocean with a cup of nectar in his hand
चतुर्दशरत्न.
of the nine Ratnas at the court of Vikramāditya.
of a deity to whom oblations were offered to the North-east quarter
3.85.
of the sun
* 3.3.25.
Wordnet
Sanskrit धन्वन्तरिः, अमृतः
आयुर्वेदस्य आचार्यः देवतानां वैद्यः।
"धन्वन्तरिः समुद्रमन्थनस्य काले समुद्रात् बहिः आगतवान्।"
शब्दकल्पद्रुमः
Sanskritधन्वन्तरिः, (धनुरुपलक्षणत्वात् शल्यादि-चिकित्साशास्त्रं तस्य अन्तं ऋच्छतीति ।ऋ गतौ + “अच इः ।” उणां ४ । १३८ । इतिइः ।) देववैद्यः । स भगवदवतारः । यथा, --“धन्वन्तरिश्च भगवान् स्वयमेव कीर्त्ति-र्नाम्ना नृणां पुरुरुजां रुज आशु हन्ति ।यज्ञे च भागममृतायुरवावरुन्धआयुष्यवेदमनुशास्त्यवतीर्य्य लोके ॥
स वै भगवतः साक्षात् विष्णोरंशांशसम्भवः ।धन्वन्तरिरिति ख्यात आयुर्व्वेददृगिज्यभाक् ॥
”इति श्रीभागवतम् ॥
* ॥
“नारायणांशो भगवान् स्वयं धन्वन्तरिर्महान् ।पुरा समुद्रमथने समुत्तस्थौ महोदधेः ॥
सर्व्ववेदेषु निष्णातो मन्त्रतन्त्रविशारदः ।शिष्यो हि वैनतेयस्य शङ्करस्योपशिष्यकः ॥
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ५१ अध्यायः ॥
अन्यच्च । “काशस्य काशिराजः तस्य दीर्घ-तमाः पुत्त्रोऽभूत् । धन्वन्तरिस्तु दीर्घतमसोऽ-भूत् । न हि संसिद्धकार्य्यकारणः सकल-सम्भूतिष्वशेषज्ञानवित् । भगवता नारायणेनचातीतसम्भूतौ तस्मै वरो दत्तः । काशिराज-गोत्रेऽवतीर्य्य त्वमष्टधा सम्यगायुर्व्वेदं करिष्यसि ।यज्ञभाक् त्वं भविष्यसीति । तस्य च धन्वन्तरेःपुत्त्रः केतुमान् केतुमतो भीमरथः । तस्यापिदिवोदासः ।” इति विष्णुपुराणम् । ४ । ८ । २-५ ॥
* ॥
अस्यार्थः । “संसिद्धकार्य्यकारणः जरादिरहित-देहेन्द्रियः । संयतदेहेन्द्रिय इति वा । सकल-सम्भूतिषु सर्व्वेष्वपि जन्मसु । अशेषज्ञानवित् सर्व्व-शास्त्रवित् । अतीतसम्भूतौ क्षीराब्धौ जन्मनि ।अष्टधा अष्टाङ्गमायुर्व्वेदम् तदुक्तं लघुवाग्भटे ।कायबालग्रहोर्द्ध्वाङ्गशल्यदंष्ट्राजराविषम् ।अष्टावङ्गानि तस्याहुश्चिकित्सा येषु संस्थितेति ।”इति तट्टीकायां स्वामी ॥
* ॥
दिवोदासः ।इति त्रिकाण्डशेषः ॥
(धन्वन्तरिप्रादुर्भावो यथा, “एकदा देवराजस्य दृष्टिर्निपतिता भुवि ।तत्र तेन नरा दृष्टा व्याधिभिर्भृशपीडिताः ॥
तान् दृष्ट्वा हृदयन्तस्य दयया परिपीडितम् ।दयार्द्रहृदयः शक्रो धन्वन्तरिमुवाच ह ॥
धन्वन्तरे ! सुरश्रेष्ठ ! भगवन् ! किञ्चिदुच्यते ।योग्यो भवसि भूतानामुपकारपरो भव ॥
उपकाराय लोकानां केन किन्न कृतं पुरा ।त्रैलोक्याधिपतिर्विष्णुरभून्मत्स्यादिरूपवान् ॥
तस्मात्त्वं पृथिवीं याहि काशीमध्ये नृपो भव ।प्रतीकाराय रोगाणामायुर्व्वेदं प्रकाशय ॥
इत्युक्त्वा सुरशार्द्द्लः सर्व्वभूतहितेप्सया ।समस्तमायुषो वेदं धन्वन्तरिमुपादिशत् ॥
अधीत्य चायुषो वेदमिन्द्राद्धन्वन्तरिः पुरा ।आगत्य पृथिवीं काश्याञ्जातो बाहुजवेश्मनि ।नाम्ना तु सोऽभवत् ख्यातो दिवोदास इति क्षितौ ।बाल एव विरक्तोऽभूच्चचार सुमहत्तपः ॥
यत्नेन महता ब्रह्मा तं काश्यामकरोन्नृपम् ।ततो धन्वन्तरिर्लोकैः काशीराजोऽभिधीयते ॥
हिताय देहिनां स्वीया संहिता विहितामुना ।अयं विद्यार्थिनो लोकान् संहितान्ताम-पाठयत् ॥
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥
)विक्रमादित्यराजस्य नवरत्नान्तर्गतरत्नविशेषः ।यथा, --“धन्वन्तरिक्षपणकामरसिंहशङ्कु-वेतालभट्टघटकर्परकालिदासाः ।ख्यातो वराहमिहिरो नृपतेः सभायांरत्नानि वै वररुचिर्नव विक्रमस्य ॥
”इति नवरत्नम् ॥
(धनोर्धनुर्वेदस्य अन्तमृच्छतीति । महादेवः ।यथा, महाभारते । १३ । १७ । १०३ ।“धन्वन्तरिर्धूमकेतुः स्कन्दो वैश्रवणस्तथा ॥
”)
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
