| YouTube Channel

धनुस (dhanusa)

 
वाचस्पत्यम्
Sanskrit
धनुस
न०
धन--शब्दे उसि चापे शरनिक्षेपयन्त्रभेदेअमरः ज्याकर्षणोत्थशब्दयोगात्तस्य तथात्वम् ।तल्लक्षणम् “धनुस्तु द्विविधं प्रोक्तं शार्ङ्गं वांशं तथैवच कोमलं वर्णदृढता तयोर्गुण उदाहृतः सुख-सम्पत्तिकरणं सममुष्ट्यायतं घनुः विपदो मुष्टि-वैषम्ये तदङ्गे भङ्गमावहेत्” युक्तिकल्पतरुः धनुर्वेद-शब्दे तल्लक्षणादि दृश्यम् पियालवृक्षे
पु०
मेषाव-धिके नवमे राशौ “ना स्वर्णभाः शैलसमोदयोऽतिशब्दो-दिनं प्राक् दृढसूक्ष्मपीतः रक्तोष्णपित्तो धनु-रल्पसूतिसङ्गो द्विमूर्त्तिर्द्विपदोग्निरुग्रः” नी० ता० ।अयञ्च राशिः २१६०० कलात्मकस्य राशिचक्रस्य १४४००कलोत्तरं १८०० कलात्मकः मूलपूर्वाषाढोत्तराषाढाप्रथमचरणात्मकः “मूलं पूर्वाषाढा प्रथमश्चाप्यतारां-शको धन्वी” ज्यो० त० अस्य स्वरूपं “चापी नरोऽश्वजघनः” वृहज्जा० “अश्वतुल्यजघनः नरस्तेन चतुष्पा-दित्यर्थः यथाह यवनेश्वरः “धन्वी मनुष्यो हय-पश्चिमार्द्धस्तमाहुः” भट्टोत्पलः चतुर्हस्तमानेक्रोशशब्दे ३३४० पृ० दृश्यम् धनुर्द्धरे
त्रि०
शब्दार्थचि०गोलक्षेत्रस्य व्यासार्द्धात् न्यूने अंशभेदे चापशब्दे क्षेत्र-शब्दे दृश्यम् “ज्यां प्रोज्झ्य शेषं तत्त्वाश्वि-हतं तद्विवरोद्धृतम् सङ्ख्यातत्त्वाश्विसंवर्गे संयोज्यधनुरुच्यते” सू० सि० “यस्य धनुः कर्त्तुमिष्टं तस्मिन्नशुद्धपूर्वं ज्यापिण्डं न्यूनीकृत्य शेषं पञ्चाकृतिगुणं तद्वि-वरोद्धृतं तयोः शुद्धाशुद्धपिण्डयोरन्तरेण भक्तं फलंशुद्धज्या यतमा ततमसङ्ख्यातत्त्वाश्विनोः संवर्गे घातेसंयोज्य सिद्धं धनुः कथ्यते अत्रोपपत्तिः ज्या यतमाशुद्ध्यति ततमायाश्चापकलायास्ततमसङ्ख्यागुणिततत्त्वा-श्विनः ज्यान्तरेण तत्त्वाश्विकलास्तदा शेषज्यायाःकेत्यनुपातागतफलयुता इति वैपरीत्येन सुगमतरा” रङ्ग० ।बहु० अनङ् धृतधन्वा इत्यादि धन्वना शब्देनैव तत्प्रयो-गोपपत्तौ धृतधनुरित्यादिप्रयोगनिरासार्थमनङ्विधानम्