| YouTube Channel

धनुर्व्वेदः (dhanurvvedaH)

 
शब्दकल्पद्रुमः
Sanskrit
धनुर्व्वेदः,
पुं,
(धनूंषि उपलक्षणेन धनुरादीन्य-स्त्राणि विद्यन्ते ज्ञायन्तेऽनेनेति विद + करणेघञ् ।) धनुर्व्विद्याबोधकशास्त्रम् तत्तु यजु-र्व्वेदस्योपवेदः इति चरणव्यूहः
(यथा, मधुसूदनप्सरस्वतीकृतप्रस्थानभेदे ।“यजुर्व्वेदस्योपवेदो धनुर्व्वेदः पादचतुष्टयात्मकोविश्वामित्रप्रणीतः तत्र प्रथमो दीक्षापादः ।द्वितीयः संग्रहपादः तृतीयः सिद्धिपादः ।चतुर्थः प्रयोगपादः तत्र प्रथमे पादे धनुर्लक्षण-मधिकारिनिरूपणञ्च कृतम् तत्र धनुःशब्दश्चापेरूढोऽपि चतुर्विधायुधवाचको वर्त्तते तच्च चतु-र्विधम् मुक्तममुक्तं मुक्तामुक्तं यन्त्रमुक्तञ्च तत्रमुक्तं चक्रादि अमुक्तं खड्गादि मुक्तामुक्तंशल्यावान्तरभेदादि यन्त्रमुक्तं शरादि तत्र-मुक्तमस्त्रमित्युच्यते अमुक्तं शस्त्रमित्युच्यते ।तदपि ब्राह्मवैष्णवपाशुपतप्राजापत्याग्नेयादि-भेदादनेकविधम् एवं साधिदैवतेषु समग्रेषु चतु-र्विधायुधेषु येषामधिकारः क्षत्त्रियकुमाराणांतदनुयायिनाञ्च ते सर्व्वे चतुर्विधाः पदातिरथ-गजतुरगारूढाः एवं दीक्षाभिषेकशाकुनमङ्गल-करणादिकञ्च सर्व्वमपि प्रथमे पादे निरूपितम् ।सर्व्वेषामस्त्रशस्त्रविशेषाणां आचार्य्यस्य लक्षण-पूर्व्वकं संग्रहणं संग्रहपादे द्बितीये दर्शितम् ।गुरुसम्प्रदायसिद्धानां शास्त्रविशेषाणां पुनः पुन-रभ्यासो मन्त्रदेवतासिद्धिकरणादिकं तृतीये पादे ।एवं देवतार्च्चनाभ्यासादिभिः सिद्धानां अस्त्र-शस्त्रविशेषाणां प्रयोगश्चतुर्थे पादे निरूपितः
”)