धनुः (dhanuH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte 1890
EnglishHindi
Hindi(पु) एक धनुष
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Apte Hindi
Hindiधनुः
- धन्- उ
धनुष
Wordnet
Sanskrit धनुः
समुद्रस्य गभीरतायाः मापनस्य परिमाणम्।
"एकः धनुः षट् पदं यावत् भवति।"
धनुः, चापः, धन्व, शरासनम्, कोदण्डम्, कार्मुकम्, इष्वासः, स्थावरम्, गुणी, शरावापः, तृणता, त्रिणता, अस्त्रम्, धनूः, तारकम्, काण्डम्
शरनिःक्षेपयन्त्रम्।
"एष व्याघ्रः तस्य लुब्धकस्य धनुषः निःसृतेन बाणेन हतः ।"
धनुः, धनुराशिः
मेषादिद्वादशराश्यान्तर्गतः नवमः राशिः स च मूलपूर्वाषाढासमुदायोत्तराषाढप्रथमपादेन भवति।
"येषां राशिः धनुः अस्ति तेषां कृते एषः मासः फलदायी।"
अमरकोशः
SanskritWord: धनुः
Root: धनुस्
Gender: पुं
Number: all
Meaning(s):
⇒ bow
⇒ desert
⇒ arid land
⇒ fiddlestick
⇒ arc or part of a circle
⇒ sign of the zodiac Sagittarius
⇒ Chironji tree [Buchanania Latifolia - Bot.]
⇒ are or quadrant for ascertaining the sun's altitude and zenith-distance
Shloka(s):
2|8|83|1 ► धनुश्चापौ धन्वशरासनकोदण्डकार्मुकम्। (क्षत्रियवर्गः)
2|8|83|2 ► इष्वासोऽप्यथ कर्णस्य कालपृष्ठं शरासनम्॥ (क्षत्रियवर्गः)
Synonym(s):
➠ 2|8|83|1 ⇢ धनुः (धनुस्) (पुं)
➠ 2|8|83|1 ⇢ धनुः (धनुस्) (नपुं) ⇒ bow, desert, arid land, fiddlestick, arc or part of a circle, sign of the zodiac Sagittarius, Chironji tree [Buchanania Latifolia - Bot.], are or quadrant for ascertaining the sun's altitude and zenith-distance
➠ 2|8|83|1 ⇢ चापः (चाप) (पुं)
➠ 2|8|83|1 ⇢ चापम् (चाप) (नपुं)
➠ 2|8|83|1 ⇢ धन्व (धन्वन्) (नपुं) ⇒ bow, shore, waste, desert, rain-bow, dry soil, sign of the zodiac Sagittarius
➠ 2|8|83|1 ⇢ शरासनम् (शरासन) (नपुं)
➠ 2|8|83|1 ⇢ कोदण्डम् (कोदण्ड) (नपुं)
➠ 2|8|83|1 ⇢ कार्मुकम् (कार्मुक) (नपुं) ⇒ bow, rainbow, efficacious, Sagittarius, geometrical arc, bow-shaped instrument, particular constellation, consisting of the wood kRm, uka
➠ 2|8|83|2 ⇢ इष्वासः (इष्वास) (पुं)
Related word(s):
परा_अपरासंबन्धः ➡ शिवधनुः
गुण-गुणी-भावः ➡ धनुषः_शब्दः
उपाधि ➡ आयुधम्
अवयव_अवयवीसंबन्धः ➡ धनुषः_अन्त्यभागः
उपजीव्य_उपजीवक_भावः ➡ धनुर्धरः
शब्दकल्पद्रुमः
Sanskritधनुः, (धनतीति । धन + “भृमृशीतॄचरीति ।”उणां । १ । ७ । इति उः ।) चापः । (यथा, हितोपदेशे ।“धनुर्वंशविशुद्धोऽपि निर्गुणः किं करिष्यति ॥
”)राशिविशेषः । पियालवृक्षः । इति सिद्धान्त-कौमुद्यामुणादिवृत्तिः ॥
धनुः, [स्] (धन + “अर्त्तिपॄवपीति ।” उणां२ । ११८ । इति उसिः स च नित् ।) पियाल-वृक्षः । धनुर्धरे, त्रि । इति मेदिनी । से, २६ ॥
धनुः, [स्] (धनतीति । धन शब्दे + “अर्त्ति-पॄवपीति ।” उणां २ । ११८ । इनि उसिः स चनित् ।) शरनिःक्षेपयन्त्रम् । धनुक इति भाषा ।तत्पर्य्यायः । चापः २ धन्व ३ शरासनम् ४कोदण्डम् ५ कार्मुकम् ६ इष्वासः ७ । इत्यमरः ।२ । ८ । ८३ ॥
स्थावरम् ८ गुणी ९ शरावापः१० तृणता ११ त्रिणता १२ । इति त्रिकाण्ड-शेषः । अस्त्रम् १३ धनूः १४ । इति जटाधरः ॥
तारकम् १५ काण्डम् १६ । इति शब्दरत्ना-वली ॥
तस्य लक्षणं यथा, --“धनुस्तु द्बिविधं प्रोक्तं शार्ङ्गं वांशं तथैव च ।कोमलं वर्णवृढता तयोर्गुण उदाहृतः ॥
सुखसम्पत्तिकरणं सममुष्ट्यायतं धनुः ।विपदो मुष्टिवैषम्ये तदङ्गे भङ्गमावहेत् ॥
”इति युक्तिकल्पतरुः ॥
धनुर्विद्यारम्भदिनं यथा, --“शनिभौमबुधान्येषु वारेषु सुतिथौ हरौ ।प्रबुद्धे चापविद्याया आरम्भः शुभदो मतः ॥
”इति ज्योतिःसारसंग्रहः ॥
विद्यारम्भोक्तनक्षत्राणि तत्र शुभानि ॥
(एतदस्त्रविद्यां ब्रह्मा पृथुनाम्ने महीपतयेप्रथमं दत्तवान् । असौ एव लोकेषु अस्याःप्रचारमकरोत् । यदुक्तम् वैशम्यायनेन ।“असिः पूर्व्वं मया सृष्टो दुष्टनिग्रहकारणात् ।भवादृशसमीपस्थो लोकान् शिक्षन् चरत्यसौ ॥
धनुराद्यायुधव्यक्तौ त्वमेवादिः स्मृतो मया ।तस्मात् शस्त्राणि चास्त्राणि ददानि तव पुत्त्रक ! ॥
”अस्य प्रमाणं यथा, बृहच्छार्ङ्गधरे ।“चतुर्विंशाङ्गुलो हस्तश्चतुर्हस्तं धनुः स्मृतम् ।तद्भवेन्मानवं चापं सर्व्वलक्षणसंयुतम् ॥
”तथा आग्नेयधनुर्व्वेदे ।“चतुर्हस्तं धनुः श्रेष्ठं त्रिभिः सार्द्धैस्तु मध्यमम् ।कनिष्ठन्तु त्रिभिः प्रोक्तं नित्यमेव पदातिनः ॥
”धनुस्तु शार्ङ्गवांशभेदेन द्विविधम् । यथा, युक्ति-कल्पतरौ ।“धनुस्तु द्विविधं प्रोक्तं शार्ङ्गं वांशं तथैव च ॥
”एतयोः प्रकारमाह धनुर्व्वेदे ।“शार्ङ्गिकं त्रिणतं प्रोक्तं वैणवं सर्व्वनामितम् ॥
”शार्ङ्गधनुषः प्रमाणमाह बृहत्-शार्ङ्गधरे ।“शार्ङ्गं पुनर्धनुर्दिव्यं तद्विष्णोः परमायुधम् ॥
वितस्तिसप्तमं मानं निर्म्मितं विश्वकर्म्मणा ॥
न स्वर्गे न च पाताले न भूमौ कस्यचित् करे ।तद्धनुर्वशमायाति त्यक्त्रैकं पुरुषोत्तम् ॥
पौरुषेयन्तु यच्छार्ङ्गं बहुवत्सरशोभितम् ।वितस्तिभिः सार्द्धषड् भिर्निमित्तं धनुषोऽधमम् ॥
प्रायो योज्यं धनुः शार्ङ्गं गजयोधाश्वसादिनाम् ।रथिनाञ्च पदातीनां वांशं चापं प्रकीर्त्तितम् ॥
”वांशधनुषः प्रमाणमाह तत्रैव ।“त्रिपर्व्वं पञ्चपर्व्वं वा सप्तपर्व्वं प्रकीर्त्तितम् ।नवपर्व्वञ्च कोदण्डं चतुर्द्धा शुभकारणम् ॥
चतुष्पर्व्वञ्च षट्पर्व्वं अष्टपर्व्वं विवर्ज्जयेत् ॥
”“अतिजीर्णमपक्वञ्च ज्ञातिघृष्टं तथैव च ।दग्धं छिद्रं न कर्त्तव्यं वाह्याभ्यन्तरहस्तकम् ॥
गुणहीनं गुणाक्रान्तं वास्तुदोषसमन्वितम् ।गलग्रन्थिर्न कर्त्तव्या तलमध्ये तथैव च ॥
”“अपक्वं भङ्गमायाति अतिजीर्णन्तु कर्कशम् ।ज्ञातिघृष्टन्तु सोद्वेगं कलहो बान्धवैः सह ॥
दग्धेन दह्यते वेश्म छिद्रं युद्धविनाशनम् ।बाह्ये लक्ष्यं न लभ्येत तथैवाभ्यरेऽपि च ॥
हीने तु सन्धिते बाणे संग्रामे भङ्गकारकम् ।आक्रान्ते च पुनः क्वापि न लक्ष्यं प्राप्यते दृढम् ॥
”“गलग्रन्थितलग्रन्थिधनहानिकरं धनुः ।एभिर्दोषैर्विनिर्मुक्तं सर्व्वकार्य्यकरं स्मृतम् ॥
”उपलक्षेपकधनुषः प्रकारमाह तत्रैव ।“उपलक्षेपकं चापं वैणवं तद्द्विरज्जुकम् ।त्रिहस्तोत्सेधसहितं द्ब्यङ्गुलीविस्तृतं तु तत् ॥
”आसनविशेषः । यथा, हठयोगप्रदीपिका-याम् । १ । २५ ।“पादाङ्गुष्ठौ तु पाणिभ्यां गृहीत्वा श्रवणावधि ।धनुराकर्षणं कुर्य्याद्धनुरासनमुच्यते ॥
” * ॥
चतुर्हस्तपरिमाणम् । काठा इति भाषा । यथा, “चतुर्विंशाङ्गुलो हस्तस्तच्चतुष्कं धनुः स्मृतम् ॥
”इति जलाशयतत्त्वम् ॥
मेषादिद्वादशराश्यन्तर्गतनवमराशिः । तत्-पर्य्यायः । तौक्षिकः २ । इति दीपिका । अस्यदेवता पूर्व्वार्द्धमनुष्याकारशेषार्द्धाश्वाकारधनु-र्धारी पुरुषः । स मूलापूर्व्वाषाढासमुदायोत्त-राषाढप्रथमपादेन भवति । स च शीर्षोदयःपीतः स्वर्णवर्णो वा पर्व्वतचरः महाशब्दकरःपूर्व्वदिक्स्वामी दृढाङ्गः रूक्षः क्षत्त्रियवर्णःउष्मः पित्तप्रकृतिरित्यर्थः अल्पसन्तानः अल्प-स्त्रीसङ्गः अग्निराशिः ॥
* ॥
एतद्राशिजात-फलं यथा, “क्रोधी द्रुतवाक् पुण्यमतिः शुचिःप्राज्ञः सुखी सर्व्वलोकालापी च ॥
” इतिजातकचन्द्रिकादयः ॥
* ॥
अपि च ।“बहुकलाकुशलः प्रबलो महान्विमलताकलितः सरलोक्तिभाक् ।शशधरे हि धनुर्धरगे नरोधनकरो न करोति धनव्ययम् ॥
”तल्लग्नजातफलं यथा, --“धनुर्लग्ने समुत्पन्नो नीतिमान् धनवान् सुखी ।कुलमध्ये प्रधानश्च प्राज्ञः सर्व्वस्य पोषकः ॥
”इति कोष्ठीप्रदीपः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
