| YouTube Channel

धनाश्रीः (dhanAzrIH)

 
शब्दकल्पद्रुमः
Sanskrit
धनाश्रीः,
स्त्री,
रागिणीविशेषः धानसी इतिभाषा हनूमन्मते श्रीरागस्य तृतीयभार्य्या ।अस्याजातिः षाडवः गृहं षड्जस्वरः गान-समयः हिमर्त्तौ द्बितीयप्रहरः कस्यचिन्मतेदिवावसानम् रागमालायामस्या रूपं वियो-गिनी रमणी रक्तवसना विच्छेदवेदनया दुर्ब्बलाकृशा एकाकिनी वकुलवृक्षतलोपविष्टारुदन्ती कल्लिनाथमते मेघरागस्य चतुर्थ-भार्य्या भरतमते मालकोषपुत्त्रगान्धाररागस्यपत्नी इति सङ्गीतशास्त्रम्