धनप्रयोग (dhanaprayoga)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte Hindi
Hindiधनप्रयोगः
धनम्-प्रयोगः -
सूदखोरी
Shabdartha Kaustubha
Kannadaधनप्रयोग
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಧನವು ವೃದ್ಧಿ ಹೊಂದಲು ಬಡ್ಡಿಗಾಗಿ ಸಾಲ ಕೊಡುವುದು
व्युत्पत्तिः - > धनस्य वृद्ध्यर्थं प्रयोगः
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
वाचस्पत्यम्
Sanskritधनप्रयोग धनस्य बुद्ध्यर्थं प्रयोगः । ऋणरूपेण अध-मर्णाय धनस्य दानरूपे प्रयोगे । तन्नक्षत्रादि सुहूर्त्त-चिन्तामणौ पीयूषधारायाञ्चोक्तं यथा“स्वात्यादित्यमृदुद्विदैवगुरुभे कर्णत्रयाश्वे चरे लग्नेधर्मसुताष्टशुद्धिसहिते द्रव्यप्रयोगः शुभः । नारेग्राह्यमृणं तु संक्रमदिने वृद्धौ करेऽर्केऽह्नि यत् तद्वंशेषुभवेदृणं न च बुधे देयं कदाचिद्धनम्” । “स्वात्या-दित्येति । स्वातीपुनर्वसुचित्रानुराधामृगरेवतीविशाखा-पुष्यश्रवणधनिष्ठाशततारकाश्विनीष्वेकादशसु नक्षत्रेषु द्रव्यप्रयोगः शुभः द्रव्यं परस्मै ऋणत्वेन देयं यदाह भीम-पराक्रमः “मृदुपुष्याश्विनी चैव विशाखाश्रवणत्रयम् ।पुनर्वसौ च शंसन्ति घनादिनिधिवर्त्तनम् । वर्त्तन-मृणादिरूपेण दानं मिश्रनक्षत्रत्वाद्विशाखानिषेधे प्राप्तेऋणदाने एव न निषेध इति विशेषः । हृतनष्टादौ तुनिषिद्धैव । अथ लग्ने चरे मेषकर्कतुलामकराणामन्यतमेधर्मो नवमं सुतः पञ्चमम् अष्टशब्देन लक्षणयाष्टमस्था-नमुच्यते तेषां शुद्धिः नवमपञ्चमस्थानयोः शुभग्रहसत्त्वंपापग्रहराहित्यञ्च अष्टमे तूभयराहित्यमित्यर्थः । एवंरूपया शुद्ध्या सहिते लग्ने ऋणं देयम् । उक्तञ्चरत्नमालायां “शुद्धेषु धर्मात्मजनैधनेषु चरे विलग्नेद्रविणप्रयोगः” इति । अथाऽऽरे मङ्गलवार ऋण न ग्राह्यंतदुक्तं ज्योतिःप्रक्राशे “ऋणं भौमे न गृह्णीयान्न देयंबुधवासरे । ऋणच्छेदं कुजे कुर्यात् सञ्चयं सोमनन्दने” ।अत्र तुर्विशेषे संक्रमः संक्रान्तिः तद्दिवसे, वृद्धौ वृद्धियोगेकरेऽर्केऽह्नि हस्तनक्षत्रसहिते रविवारे हस्तार्के इतियावत्तत्रापि ऋणं न आह्यमिति प्रत्येकं सम्बन्धः । ननुकुतो न आह्यमित्यत आह यदिति यद्यस्माद्धेबोस्त-दृणं तद्वंशेषु ऋणग्रहीतृकुलेषु भवेत् तदृणं तत्पुत्र-पौत्रादिभिरपि परिहर्त्तुमशक्यमित्यर्थः अर्थादेषुभौमसंक्रान्त्यादिदिनेषु ऋणमवश्यं परिहर्त्तव्यमिति नि-ष्कृष्ठोर्थः । “हस्तेऽर्कवारे संक्रान्तौ यदृणं स्यात् कुलेषु तत ।वृद्धियोगे तथा ज्ञेयमृणच्छेदं तु कारयेदिति” ज्योतिःप्रकाशकारोक्तेश्च । अथ बुधे बुधवारे कदाचिदप्यृणंन देयम् । “न देयं बुधवासरे” इत्यधुनैवोक्तत्वात् । पी० धा०तत्र निषिद्धनक्षत्रादि तत्रैवोक्तं यथा“तीक्ष्णमिश्रध्रुवोग्रैर्यद्द्रव्यं दत्तं निवेशितम् । प्रयुक्तञ्चविनष्टञ्च विष्ट्यां पाते न चाप्यते” मु० चि० “तीक्ष्णेतितीक्ष्णमिश्रध्रुवोग्रसंज्ञकैर्नक्षत्रैर्यद्द्रव्यं सुवर्णादि दक्षं क-लान्तरं विनैव दत्तं न तु स्वत्वपरित्यागेन, तद्दत्तमित्युच्यतेनिवेशितं स्वेष्टसमीपे प्रत्ययार्थं स्थापितं प्रयुक्तं कला-न्तररीतिपुरःसरोत्तमर्णाधमर्णव्यवहारेण कस्मै चिद्दत्तं, विनष्टं चौरादिना हृतं स्वयमेव वा क्वचित्त्यक्तंतद्द्रव्यं निश्चयेन कदाचिदपि नाप्यते तथा विष्ट्यांभद्रायां पाते व्यतीपाते महापाते वा हृतं द्रव्यं नप्राप्यते चकाराद्ग्रहणेऽपि न देयसिति व्याख्येयं वसि-ष्ठवाक्यस्वरसात् उक्तञ्च वसिष्ठेन “ध्रुवोग्रसाधारण-दारुणर्क्षे निक्षिप्तमर्थं त्वथ वा प्रनष्टम् । चौरैर्हृतंदत्तमुपप्लवे वा विष्ट्याञ्च पाते न च लभ्यते तत्” । उपप्लवेग्रहणे । यत्तु केचिद्व्याकुर्वते “निश्चयेन चौरहृतस्य द्रव्यस्यप्राप्त्यप्राप्तिविचारोऽन्धकादिनक्षत्रैरेव बालाभोऽन्धकेनिकट एव हृतस्य चौरैरित्युक्तत्वात् । चौरानिर्णये-त्वनेनैव विचारः” तच्चिन्त्यं वसिष्ठवाक्येऽपि चौरैर्हृ-तमिति साक्षाच्चौरपदोपादानाद्येन केनापि विचारःकर्त्तव्य इति युक्तमुत्पश्यामः । एवं चौरानिर्णयेऽपिस्वेच्छया विचारः तत्रोभयैक्ये प्राप्त्यप्राप्तिनिश्चयएव उभयैक्याभावे तु प्रयत्नेनेति” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
