| YouTube Channel

धनपतिः (dhanapatiH)

 
Apte Hindi
Hindi
धनपतिः
पुं*
धनम्-पतिः -
कुबेर का विशेषण
शब्दकल्पद्रुमः
Sanskrit
धनपतिः,
पुं,
(धनानां पतिः ।) कुवेरः इतिधनञ्जयः
(यथा, महाभारते १२ ।“तथा धनपतेर्यक्षा गुह्यका राक्षसास्तथा
”)अस्य उत्पत्तिर्यथा, --महातपा उवाच ।“शृणु चान्यां वसुपतेरुत्पत्तिं पापनाशिनीम् ।यथा वायुः शरीरस्थो धनदः सम्बभूव
आद्यं शरीरं यत्तस्मिन् वायुरन्तस्थितोऽभवत् ।प्रयोजनान्मूर्त्तिमत्त्वमादिशन् क्षेत्रदेवताः
तत्रामूर्त्तस्य वायोस्तु उत्पत्तिः कीर्त्त्यते मया ।तां शृणुष्व महाभाग ! कथ्यमानां मयानघ !
ब्रह्मणः सृजतः सृष्टिं मुखाद्वायुर्विनिर्ययौ ।प्रचण्डशर्करावर्षी तं ब्रह्मा प्रत्यषेधयत्
मूर्त्तो भवस्व शान्तश्च तत्रोक्तो मूर्त्तिमान् भवन् ।सर्व्वेषाञ्चैव देवानां यद्वित्तं फलमेव
तत् सर्व्वं पाहि नोक्तं तस्माद्धनपतिर्भवेत् ।तस्य ब्रह्मा ददौ तुष्टस्तिथिमेकादशीं प्रभुः
तस्यामनग्निपक्वाशी यो भवेन्नियतः शुचिः ।तस्यास्तु धनदो देवस्तुष्टः सर्व्वं प्रयच्छति
एषा धनपतेर्मूर्त्तिः सर्व्वकिल्विषनाशिनी ।य एतां शृणुयाद्भक्त्या पुरुषः पठतेऽपि वा
सर्व्वकाममवाप्नोति स्वर्गलोकञ्च गच्छति
”इति वराहपुराणम्