| YouTube Channel

धनद्रोही (dhanadrohI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“द्रुह जिघांसायाम्”@} 2 द्रोहकः-हिका, द्रोहकः-हिका
3 दुद्रुहिषकः-दुद्रोहिषकः-दुध्रुक्षकः-क्षिका, दोद्रुहकः-हिका
4 द्रोहिता-त्री-द्रोग्धा-ग्ध्री-द्रोढा-ढ्री, द्रोहयिता-त्री, दुद्रुहिषिता-दुद्रोहिषिता-दुध्रुक्षिता-त्री, दोद्रुहिता-त्री
5 द्रुह्यन् 6 -न्ती, 7 8 अभिद्रुह्यन्-न्ती, द्रोहयन्-न्ती, दुद्रुहिषन्-दुद्रोहिषन्-दुध्रुक्षन्-न्ती
-- 9 द्रोहिष्यन्- 10 ध्रोक्ष्यन्-न्ती-ती, द्रोहयिष्यन्-न्ती-ती, दुद्रुहिषिष्यन्-दुद्रोहिषिष्यन्-दुध्रुक्षिष्यन्-न्ती-ती
-- -- द्रोहयमाणः, द्रोहयिष्यमाणः, -- दोद्रुह्यमाणः, दोद्रुहिष्यमाणः
11 मित्रध्रुक्-मित्रध्रुग्-मित्रध्रुट्-मित्रध्रुड्-द्रुहौ-द्रुहः
-- यज्ञध्रुक्-सीताध्रुक्, प्रध्रुक्-प्रध्रुट्, 12 जनध्रुक्-द्रुहौ-द्रुहः
13 द्रुग्धम्-द्रुग्धः-द्रुग्धवान्, द्रूढम्-द्रूढः-द्रूढवान्, द्रोहितः, दुद्रुहिषितः-दुद्रोहिषितः-दुध्रुक्षितः, दोद्रुहितः-तवान्
द्रुहः, 14 द्रोही, 15 मित्रद्रोही 16, धनद्रोही, द्रोहः, दुद्रुहिषुः-दुद्रोहिषुः-दुध्रुक्षुः, दोद्रुहः
द्रोहितव्यम्-द्रोग्धव्यम्-द्रोढव्यम्, द्रोहयितव्यम्, दुद्रुहिषितव्यम्-दुद्रोहिषितव्यम्-दुध्रुक्षितव्यम्, दोद्रुहितव्यम्
द्रोहणीयम्, द्रोहणीयम्, दुद्रुहिषणीयम्-दुद्रोहिषणीयम्-दुध्रुक्षणीयम्, दोद्रुहणीयम्
द्रोह्यम्, द्रोह्यम्, दुद्रुहिष्यम्-दुद्रोहिष्यम्-दुध्रुक्ष्यम्, दोद्रुह्यम्
ईषद्द्रोहः-दुर्द्रोहः-सुद्रोहः
-- -- द्रुह्यमाणः, द्रोह्यमाणः, दुद्रुहिष्यमाणः-दुद्रोहिष्यमाणः-दुध्रुक्ष्यमाणः, दोद्रुह्यमाणः
द्रोहः, द्रोहः, दुद्रुहिषः-दुद्रोहिषः-दुध्रुक्षः, दोद्रुहः
17 द्रोहितुम्-द्रोग्धुम्-द्रोढुम्, द्रोहयितुम्, दुद्रुहिषितुम्-दुद्रोहिषितुम्-दुध्रुक्षितुम्, द्रोद्रुहितुम्
द्रुग्धिः-द्रूढिः, द्रोहणा, दुद्रुहिषा-दुद्रोहिषा-दुध्रुक्षा, दोद्रुहा
द्रोहणम्, द्रोहणम्, दुद्रुहिषणम्-दुद्रोहिषणम्-दुध्रुक्षणम्, दोद्रुहणम्
18 द्रुहित्वा-द्रोहित्वा, द्रुग्ध्वा-द्रूढ्वा, द्रोहयित्वा, दुद्रुहिषित्वा-दुद्रोहिषित्वा-दुध्रुक्षित्वा, दोद्रुहित्वा
प्रद्रुह्य, प्रद्रोह्य, प्रदुद्रुहिष्य-प्रदुद्रोहिष्य-प्रदुध्रुक्ष्य, प्रदोद्रुह्य
द्रोहम् २, द्रोहित्वा २- द्रुग्ध्वा २-द्रूढ्वा २, द्रोहम् २, द्रोहयित्वा २, दुद्रुहिषम् २- दुद्रुहिषित्वा २- दुद्रोहिषम् २-दुध्रुक्षम् २, दुद्रोहिषित्वा २-दुध्रुक्षित्वा २, द्रोद्रुहम्
दोद्रुहित्वा २।
प्रासङ्गिक्यः
01
=>
(८८५)
02
=>
(४-दिवादिः-११९७। सक। वेट्। पर। रधादिः।)
03
=>
[[१। सन्नन्तात् ण्वुलि, ‘रधादिभ्यश्च’ (७-२-४५) इतीड्विकल्पः। इट्पक्षे, ‘रलो व्युपधाद्धलादेः संश्च’ (१-२-२६) इति कित्त्वविकल्पः। इडभावपक्षे ‘वा द्रुह- मुहष्णुहष्णिहाम्’ (८-२-३३) इति घत्वविकल्पः। तत्र घत्वे, सकारपरत्वेन ‘एकाचो बशो भष्--’ (८-२-३७) इति भष्भावे, ‘षढोः कः सि’ (८-२-४१) इति कत्वे दुध्रुक्षकः इति रूपं तुल्यमेव। एवं सन्नन्ते सर्वत्र रूपत्रयं ज्ञेयम्।]]
04
=>
[[२। तृचि इट्पक्षे द्रोहिता इति रूपम्। इडभावपक्षे घत्वे, द्रोग्धा इति रूपम्। ढत्वपक्षे तु धत्वष्टुत्वयोः कृतयोः, ‘ढो ढे लोपः’ (८-३-१३) इति ढलोपे, ‘ढ्रलोपे पूर्वस्य--’ (६-३-१११) इति दीर्घ बाधित्वा परत्वात् गुणे कृते द्रोडा इति रूपम्। एवं तव्यदादिष्वपि रूपत्रयस्योपपत्तिर्ज्ञेया।]]
05
=>
[देवदत्ताय]
06
=>
[[३। शतरि, ‘दिवादिभ्यः--’ (३-१-६९) इति श्यन्प्रत्यये, ‘क्रुधद्रुहेर्ष्या--’ (१-४-३७) इति यं प्रति कोपः तस्य संप्रदानसंज्ञा।]]
07
=>
[देवदत्तं]
08
=>
[[४। ‘क्रुधद्रुहोरुपसृष्टयोः--’ (१-४-३८) इति सोपसृष्टादस्मात् परत्वेन बिद्यमानात् कर्मसंज्ञायां द्वितीया भवति।]]
09
=>
[पृष्ठम्०७८३+ २३]
10
=>
[[१। स्यप्रत्यये इडभावपक्षे, घत्वपक्षे, ढत्वपक्षेऽपि रूपं तुल्यमेव।]]
11
=>
[[२। ‘सत्सूद्विषद्रुहदुह--’ (३-२-६१) इत्यादिना सुप्युपपदे, उपसर्गे क्विप्। पदान्तत्वे यथासम्भवं घत्वे ढत्वे रूपद्वयम्।]]
12
=>
[[आ। ‘रद्धारये सोऽयमनश्वराय तृप्यन्मना दृप्तजनद्रुहेऽस्मै।’ धा। का। २। ६४।]]
13
=>
[[३। वलादेरार्धधातुकस्य रधादित्वेनेड्विकल्पनात् निष्ठायाम्, ‘यस्य विभाषा’ (७-२-१५) इतीण्निषेधः। घत्वपक्षे द्रुग्धः इति, ढत्वपक्षे द्रूढः इति रूपमिति विशेषः। ढत्वपक्षे ‘ढूलोपे पूर्वस्य--’ (६-३-१११) इति दीर्घोऽत्र भवतीति विशेषः। एवं क्तिन्यपि ज्ञेयम्।]]
14
=>
[[४। तच्छीलादिषु कर्तृषु, ‘सम्पृचानुरुधाङ्यमाङ्यसपरिसृसंसृजपरिदेविसंज्वरपरिक्षिप- परिरटपरिवदपरिदहपरिमुहदुषद्विषद्रुहदुह--’ (३-२-१४२) इत्यादिना घिनुणि रूपम्।]]
15
=>
[[B। ‘द्रोहि खद्योतसम्पर्कि नयनामोषि दुःसहम्।।’ भ। का। ७। ६।]]
16
=>
[[५। ‘सुप्यजातौ--’ (३-२-७८) इति ताच्छील्ये णिनिप्रत्ययः।]]
17
=>
[पृष्ठम्०७८४+ १९]
18
=>
[[१। क्त्वायाम्, इड्विकल्पपक्षे, कित्त्वविकल्पे रूपद्वयम्, इडभावपक्षे, घत्वविकल्प- नात्, घत्वे, ढत्वे रूपद्वयम् इत्याहत्य रूपचतुष्टयं ज्ञेयम्।]]