| YouTube Channel

धनञ्जयः (dhanaJjayaH)

 
Hindi
Hindi
धनंजय (अर्जुन, धन के विजेता)
Apte Hindi
Hindi
धनञ्जयः
पुं*
- "धन + जि + खच्, मुम्"
अर्जुन का नाम
धनञ्जयः
पुं*
- "धन + जि + खच्, मुम्"
अग्नि का विशेषण
Wordnet
Sanskrit
Synonyms:
अग्निः, वैश्वानरः, वीतहोत्रः, अग्निहोत्रः, हुरण्यरेताः, सप्तार्चि, विभावसुः, वृषाकपिः, स्वाहापतिः, स्वाहाप्रयः, स्वाहाभुक्, अग्निदेवः, अग्निदेवता, धनञ्जयः, जातवेदः, कृपीटयोनिः, शोचिष्केशः, उषर्बुधः, बृहद्भानुः, हुतभुक्, हविरशनः, हुताशः, हुताशनः, हविर्भुक्, हव्यवाहनः, हव्याशनः, क्रव्यवाहनः, तनुनपात्, रोहिताश्वः, आशुशुक्षणिः, आश्रयाशः, आशयाशः, आश्रयभुक्, आश्रयध्वंसी, पावकः, पावनः, तेजः, वह्निः, ज्वलनः, अनलः, कृशानुः, वायुसखा, वायुसखः, दहनः, शिखी, शिखावान्, कृष्णवर्त्मा, अरणिः, घासिः, दावः, पचनः, पाचनः, पाचकः, जुहुवान्, वाशिः, अर्चिष्मान्, प्रभाकरः, छिदिरः, शुन्ध्युः, जगनुः, जागृविः, अपाम्पितः, जलपित्तः, अपित्तम्, हिमारातिः, फुत्करः, शुक्रः, आशरः, समिधः, चित्रभानुः, ज्वालाजिह्वा, कपिलः, विभावसुः, तमोनुद्, शुचिः, शुक्रः, दमुनः, दमीनः, अगिरः, हरिः, भुवः
noun
देवताविशेषः-हिन्दुधर्मानुसारम् अग्नेः देवतास्वरूपम्।
"अग्नेः पत्नी स्वाहा।"
Synonyms:
अर्जुनः, धनञ्जयः, पार्थः, शक्रनन्दनः, गाण्डिवी, मध्यमपाण्डवः, श्वेतवाजी, कपिध्वजः, राधाभेदी, सुभद्रेशः, गुडाकेशः, बृहन्नलः, ऐन्द्रिः, फाल्गुनः, जिष्णुः, किरीटी, श्वेतवाहनः, बीभत्सुः, विजयः, कृष्णः, सव्यसाची, कृष्णः, जिष्णुः
noun
कुन्तेः तृतीयः पुत्रः।
"अर्जुनः महान् धनुर्धरः आसीत्।"
Tamil
Tamil
த4னஞ்ஜய: : அர்ஜுனன், நெருப்பு, அக்னி.
शब्दकल्पद्रुमः
Sanskrit
धनञ्जयः,
पुं,
(धनं जयति सम्पादयतीति जि +खच् + मुम् “धनमिच्छेत् हुताशनात् ।”इत्युक्तेरस्य तथात्वम् ।) अग्निः चित्रकवृक्षः ।इत्यमरः ५६
(धनं जयति अरीन्निर्जित्य अर्ज्जयतीति जि + खच् + मुम् ।)अर्ज्जुनः (अस्य निरुक्तिर्यथा, महाभारते ।४ ४२ १३ ।“सर्व्वान् जनपदान् जित्वा वित्तमाश्रित्य केवलम् ।मध्ये धनस्य तिष्ठामि तेनाहुर्मां धनञ्जयम्
”)नागभेदः तु जलाशयाधिपतिः (यथा, महाभारते ।“कम्बलाश्वतरौ नागौ धृतराष्ट्रबलाहकौ ।मणिमान् कुण्डधारश्च कर्कोटकधनञ्जयौ
”)देहमारुतः शरीरवाह्यपञ्चवाय्वन्तर्गतःइति मेदिनी ये, १२०
(“धनञ्जयः पोषण-करः ।” इति वेदान्तसारः ३३
“न जहाति मृतञ्चापि सर्व्वव्यापी धनञ्जयः
”इति सुबोधिनी
)“धनञ्जयस्तथा घोषे महारजतवर्णकः ।ललाटे चोरसि स्कन्धे हृदि नाभौ त्वगस्थिषु
”इति शारदातिलकटीकायां राघवभट्टः
अर्ज्जुनवृक्षः इति रत्नमाला
*
(गोत्र-विशेषः तद्बंशीये, त्रि यथा, महाभारते ।२ ३३ ३४ ।“धनञ्जयानामृषभः सुसामा सामगोऽभवत्
”विष्णुः यथा, महाभारते १३ १४९ ८३ ।“अनिर्द्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनञ्जयः
”“यत् दिग्विजये धनं प्रभूतं अजयत्तेन धनञ्जयः ।‘पाण्डवानां धनञ्जयः ।’ इति भगवद्वचनात् ।”इति शाङ्करभाष्यम्
षोडशद्वापरस्य व्यासः ।यथा, देवीभागवते ३० ।“त्रय्यारुणिः पञ्चदशे षोडशे तु धनञ्जयः
”)
कृदन्तरूपमाला
Sanskrit
1 {@“जि जये”@} 2 जयः = उत्कर्षप्राप्तिः, अभिभवश्च।
आद्ये अकर्मकः, द्वितीये सकर्मकः।
‘जयेज्जयाभिभवयोराद्येऽर्थेऽसावकर्मकः।।
अुत्कर्षप्राप्तिराद्योऽर्थो द्वितीयेऽर्थे सकर्मकः।’ 3 इति देवः 4 जायकः-यिका, 5 जापकः-पिका, 6 जिगीषकः, 7 जेजीयकः-यिका
8 जेता 9 -त्री, जापयिता-त्री, जिगीषिता-त्री, जेजीयिता-त्री
10 जयन्-न्ती, जापयन्-न्ती, जिगीषन्-न्ती
-- जेष्यन्-न्ती-ती, जापयिष्यन्-न्ती-ती, जिगीषिष्यन्-न्ती-ती
-- 11 विजयमानः- 12 पराजयमानः, 13 जापयमानः, विजिगीषमाणः, 14, पराजिगीषमाणः, जेजीयमानः
विजेष्यमाणः-पराजेष्यमाणः, जापयिष्यमाणः, वि15जिगीषिष्यमाणः, जेजीयिष्यमाणः
16 इन्द्रजित् 17, प्रजित्, अभिजित्, शत्रुजित्-जिद्-जितौ-जितः
जितम्-तः-जितवान् 18, जापितः, जिगीषितः, जेजीयितः-तवान्
जयः, 19 जित्वरः, 20 21 जित्वा-जित्वानौ-जित्वानः, कंसजित्वा, जित्वरी, 22 23 जिष्णुः, 24 25 धनञ्जयः, समितिञ्जयः, 26 जयी, 27 जयिनी, 28 जयकः
29 जयमानः, जापः, जिगीषुः, विजिगीषुः, 30 जेज्यः
जेतव्यम्, जापयितव्यम्, जिगीषितव्यम्, जेजीयितव्यम्
जयनीयम्, जापनीयम्, जिगीषणीयम्, जेजीयनीयम्
31 जय्यम्-जेयम् 32, जित्यः 33 34, जाप्यम्, जिगीष्यम्, जेजीय्यम्
35 सखैः पृषत्कैः ईषज्जयः स्फुटमनेन दशाननोऽपि।।’ अतर्घराघवे ३। ३३।]] ईषज्जयः-दुर्जयः-सुजयः
-- -- -- 36 जीयमानः, जाप्यमानः, जिगीष्यमाणः, जेजीय्यमानः
37 जयः, जापः, जिगीषः, जेजीयः
जेतुम्, जापयितुम्, जिगीषितुम्, जेजीयितुम्
जितिः, जापना, विजिगीषा, जेजीया
जयनम्, 38 उज्जयिनी, जायनम्, जिगीषणम्, जेजीयनम्
जित्वा, जापयित्वा, जिगीषित्वा, जेजीयित्वा
39 विजित्य, विजाप्य, विजिगीष्य, विजेजीय्य
जायम् जित्वा २, जापम् २, जापयित्वा २, जिगीषम् २, जिगीषित्वा २, जेजीयम्
जेजीयित्वा
40 जैत्रम्, 41 इति उण्प्रत्यये वृद्धौ, आयादेशे जायुः।
जयति अनेन रोगानिति जायुः = औषधम्।]] जायुः।
प्रासङ्गिक्यः
01
=>
(५९९)
02
=>
(१-भ्वादिः-५६१। अक। अनि। पर।)
03
=>
(श्लो। १३-१४)
04
=>
[[४। ‘अचो ञ्णिति’ (७-२-११५) इति वृद्धौ, आयादेशे रूपम्। एवं णमुल्यपि।]]
05
=>
[[५। ण्यन्ते ‘क्रीङ्जीनां णौ’ (६-१-४८) इत्यात्वे, ‘अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुग् णौ’ (७-३-३६) इति पुगागमे रूपम्। एवं ण्यन्ते सर्वत्र ज्ञेयम्।]]
06
=>
[[६। ‘सन्लिटोर्जेः’ (७-३-५७) इत्यभ्यासादुत्तरस्य कुत्वेन गकारः। ‘इको झल्’ (१-२-९) इति सनः कित्त्वनिषेधाद् गुणो न। एवं सन्नन्ते सर्वंत्र ज्ञेयम्।]]
07
=>
[[७। यङि, ‘अकृत्सार्वधातुकयोः--’ (७-४-२५) इति दीर्घः। एवं यङन्ते सर्वत्र ज्ञेयम्।]]
08
=>
[पृष्ठम्०५६७+ २२]
09
=>
[[आ। ‘जेता यज्ञद्रुहां संख्ये धर्मसन्तानसूर्वने।’ भ। का। ४। २७।]]
10
=>
[[B। ‘सञ्चारनिष्ठ्यूतनखेन्दुचन्द्रिकं लोके जयन्तं सकलैकजीवनम्।’ धा। का। १। ७२।]]
11
=>
[[१। ‘विपराभ्यां जेः’ (१-३-१९) इति शानच्।]]
12
=>
[[C। ‘खं पराजयमानोऽसावुन्नत्या पवनात्मजम्।’ भ। का। ८। ९।]]
13
=>
[[२। धातोरकर्मकत्वे ‘अणावकर्मकात् चित्तवत्कर्तृकात्’ (१-३-८८) इति ण्यन्तात् परस्मै- पदमेव। सकर्मकत्वे तु ण्यन्ताच्छानजपि भवतीति ज्ञेयम्।]]
14
=>
[[३। ‘पूर्ववत् सनः’ (१-३-६२) इति विपरापूर्वकत्वे सन्नन्तात् शानच्।]]
15
=>
[परा]
16
=>
[[४। ‘सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप्’ (३-२-६१) इति उपसर्गे, अनुपसर्गे वा उपपदे क्विप्।]]
17
=>
[[ड्। ‘इन्द्रजित्सूर्विनाशाय मारुतेः क्रोधमूर्च्छितः।।’ भ। का। ९। ३।]]
18
=>
[[E। ‘यातयामं विजितवान् रामं यदि किं ततः।।’ भ। का। ५-३९।]]
19
=>
[[५। ‘इण्नशिजिसर्तिभ्यः क्वरप्’ (३-२-१६३) इति तच्छीलादिषु कर्तृषु क्वरप्। ‘ह्रस्वस्य पिति--’ (६-१-७१) इति तुक्।]]
20
=>
[[F। ‘हस्तेकरिष्यति जगत्त्रयजित्वरोऽपि कस्तादृशीं दुहितरं जनकेश्वरस्य।’ अनर्धराघघे ३। ८।]]
21
=>
[[६। ‘अन्येभ्योऽपि दृश्यन्ते’ (३-२-७५) इति क्वनिपि तुक्। कंसं जयति, जितवान् वा कंसजित्वा। स्त्रियां ‘वनो च’ (४-१-७) इति ङीप् रेफश्च।]]
22
=>
[पृष्ठम्०५६८+ २८]
23
=>
[[१। ‘ग्लाजिस्थश्च रस्नुः’ (३-२-१३९) इति तच्छीलादिषु कर्तृषु ग्स्नुः प्रत्ययः। ‘ग्क्ङिति च’ (१-१-५) इत्यत्र गकारस्यापि प्रश्लेषात् गुणो भवति। ‘आदेशप्रत्यययोः’ (८-३-५९) इति षत्वम्।]]
24
=>
[[आ। ‘वसन् माल्यवति ग्लास्नू रामो जिष्णुरधृष्णुवत्।।’ भ। का। ७। ४।]]
25
=>
[[२। ‘संज्ञायां मृतॄवृजिधारिसहितपिदमः’ (३-२-४६) इति संज्ञायां खच्- प्रत्यये, ‘खित्यनव्ययस्य’ (६-३-६६) इति पूर्वपदस्य मुमागमः। ‘विश्वंभरा, साम रथन्तराख्यं, पतिंवरा चापि, धनञ्जयश्च। शत्रुंसहः कोऽपि, वसुन्धरा च, शत्रुन्तपोऽरिन्दम एवमूह्यम्।।’ इति प्रक्रियासर्वस्वे, ‘संज्ञायां भृ--’ (३-२-४६) इति सूत्रस्य क्रमेणोदाहरणानि प्रदर्शितानि।]]
26
=>
[[३। ‘जिदृक्षिविश्रीण्--’ (३-२-१५७) इति तच्छीलादिषु कर्तृषु इनिप्रत्ययः।]]
27
=>
[[B। ‘वीतप्रभावतनुरप्यतनुप्रभावः प्रत्याचकाङूश्र जयिनीं भुजवीर्यलक्ष्मीम्। अस्त्रेषु भूतपतिनापहृतेषु जिष्णुर्वर्षिष्यता दिनकृतेव जलेषु लोकः।।’ किरातार्जुनीये १६। ६४।]]
28
=>
[[४। ‘आशिषि च’ (३-१-१५०) इति वुन्। जयतात् जयकः।]]
29
=>
[[५। ‘ताच्छील्यवयोवचनशक्तिषु चानश्’ (३-२-१२९) इति शक्तौ गम्यमानायां चानश्। मध्ये विकरणप्रत्ययः शप्। ‘सहैव चरमाणौ द्वौ वहमानौ मितं धनुः। जयमानौ रक्षांसि राघवौ मुनिमन्वितौ।।’ इति प्र। सर्वस्वे।]]
30
=>
[[C। ‘विजिगीषुः पुनश्चक्रे व्यूहं दुर्जयमिन्द्रजित्।।’ भ। का। ९। ७०।]]
31
=>
[[६। ‘अचो यत्’ (३-१-९७) इति यति गुणे, ‘क्षय्यजय्यौ शक्यार्थे’ (६-१-८१) इति अयादेशो मिपातितः। जेतुं शक्यम् = जय्यम्। अन्यत्र जेयम्।]]
32
=>
[[ड्। ‘आत्मानं वनवासं जेयं चारिं रघूत्तमः।।’ भ। का। ६। ४७।]]
33
=>
[[७। ‘विपूयविनीयजित्या मुञ्जकल्कहलिषु’ (३-१-११७) इति सूत्रेण हलौ = कृष्टसमी- करणार्थे स्थूलकाष्ठे वाच्ये क्यप् भवति। जित्यो हलिः = बलेन क्रष्टव्य इत्यर्थः।]]
34
=>
[हलिः]
35
=>
[[E। ‘यस्ताटकामकृत बाल [काल]
36
=>
[पृष्ठम्०५६९+ २३]
37
=>
[[१। ‘एरच्’ (३-३-५६) इति भावादौ अप्। घञपवादः।]]
38
=>
[[२। उज्जयन्ति अस्यां वसन्तः इति उज्जयिनी। ‘करणाधिकरणयोश्च’ (३-३-११७) इति ल्युट्। स्त्रियां टित्त्वान्ङीपि उज्जयिनी इति भवति। उज्जयिनी-- नगरविशेषः।]]
39
=>
[[३। ल्यपि ‘ह्रस्वस्य--’ (६-१-७१) इति तुक्।]]
40
=>
[[४। ‘उणादयो बहुलम्’ (३-३-१) इति त्रण्प्रत्ययः। ‘अचो ञ्णिति’ (७-२-११५) इति वृद्धिः।]]
41
=>
[[५। ‘कृवापाजिमि--’ [द। उ। १-८६]