| YouTube Channel

धनं (dhanaM)

 
Apte 1890
English
धनं [धन्-अच्] 1 Property, wealth, riches, treasure, money (gold, chattels &c.)
धनं तावदसुलभं H. 1
(fig. also), an in तपोधन, विद्याधन, &c.
2 (a) Any valued possession, an object of affection or endearment, dearest treasure
कष्टं जनः कुलधनरैनुरंजनीयः U. 1. 14
गुरोरपीदं धनमाहिताग्नेः R. 2. 44
मानधन, अभिमान° &c. (b) A valuable article
Ms. 8. 201, 202.
3 Capital, (opp. वृद्धि or interest).
4 A booty, prey, spoil.
5 The reward given to a victor in a combat, the prize won in a game.
6 A contest for prizes, a match.
7 The lunar mansion called धनिष्ठा.
8 Surplus, residue.
9 (In math.) The affirmative quantity or plus (opp. ऋण).
10 A sound.
Comp.
अधिकारः right to property, right of inheriting property.
अधिकारिन् m.,
अधिकृतः {1} a treasurer. {2} an heir.
अधिगोप्तृ m.,
अधिपः,
अधिपतिः,
अध्यक्षः {1} an epithet of Kubera
Ki. 5. 16. {2} a treasurer.
अपहारः {1} fine. {2} plunder.
अर्चित a. {1} honoured with gifts of wealth, kept contented by valuable presents
मानधना धनार्चिताः Ki. 1. 19. {2} wealthy, opulent.
अर्थिन् a. desiring or seeking for wealth, covetous, miserly.
आधारः a treasury.
ईशः,
ईश्वरः {1} a treasurer. {2} an epithet of Kubera.
उष्मन् m. warmth of wealth
cf. अर्थोष्मन्.
एषिन् m. a creditor who claims his money
काम, काम्य a. covetous, greedy.
केलिः an epithet of Kubera.
क्षयः loss of wealth
धनक्षये वर्धति जाठराग्निः Pt. 2. 178.
गर्व,
गर्वित a. purseproud.
छूः the numidian crane.
जातं all kinds of valuable possessions, aggregate property.
a. liberal. (
दः) {1} a liberal or munificent man. {2} an epithet of Kubera
R. 9. 25
17. 80. {3} N. of fire. {4} = धनंजय (4) q. v. °अनुजः an epithet of Rāvaṇa
R. 12. 52, 88.
दंडः punishment in the shape of a fine.
दायिन् m. fire.
धानी treasury.
पतिः {1} an epithet of Kubera
तत्रागारं धनपतिगृहानुत्तरेणास्मदीयं Me. 75, 7. {2} a treasurer. {3} = धनंजय (4) q. v.
पालः {1} a treasurer. {2} an epithet of Kubera.
पिशाचिका,
पिशाची ‘the demon of wealth’, an avaricious desire of wealth, greed, avarice.
प्रयोगः usury.
मद a. purseproud. (
दः) prīde of wealth.
मूलं principal, capital.
लोभः avarice, cupidity.
व्ययः {1} expenditure. {2} extravagance.
स्थानं a treasury.
हरः {1} an heir. {2} a thief. {3} a kind of perfume.
हार्य a. to be won over by wealth
Mk. 1. 31, 5. 9.
हीन a. deprived of wealth, poor.
Hindi
Hindi
धन
शब्दकल्पद्रुमः
Sanskrit
धनं,
क्ली,
(धनति रौतीति धन रवे + पचाद्यच् ।)स्नेहपात्रम् इति शब्दरत्नावली
गोधनम् ।इति मेदिमेदीनी ने, १२
(यथा, हरिवंशे ७३ ३३ ।“अनुजग्मुश्च गोपालाः कालयन्तो धनानि
”)जीवनोपायः (दधन्ति धान्यादिकमुत्पादय-तीति धन + अच् यद्वा, दधाति सुखमिति ।धा + “कॄपॄवृजिमन्दिनिधाञः क्युः ।” उणां ८१ ।इत्यत्र “बाहुलकात् केवलादपि क्युः ।” इत्युज्ज्वल-दत्तोक्तेः क्युः ।) द्रविणम् (यथा, उद्भटे ।“धनैर्निष्कुलीनाः कुलीना भवन्तिधनैरापदं मानवा निस्तरन्ति ।धनेभ्यः परो नास्ति बन्धुर्हि लोकेधनान्यर्जयध्वं धनान्यर्ज्जयध्वम्
”)तत्पर्य्यायः द्रव्यम् वित्तम् स्वापतेयम् ४रिक्थम् ऋक्थम् वसु हिरण्यम् ८द्रविणम् द्युम्नम् १० अर्थः ११ राः १२ विभवः१३ इत्यमरः ९०
काञ्चनम् १४लक्ष्मीः १५ भोग्यम् १६ सम्पत् १७ वृद्धिः १८श्रीः १९ व्यवहार्य्यम् २० इति राजनिर्घण्टः
रैः २१ भोगः २२ इति जटाधरः
स्वम् २३ ।इति शब्दरत्नावली
तस्य वैदिकपर्य्यायाः ।मघम् रेक्णः रिक्थम् वेदः वरिवः ५श्वात्रम् रत्नम् रयिः क्षत्रम् भगः १०मीलुम् ११ गयः १२ द्युम्नम् १३ इन्द्रियम् १४वसु १५ रायः १६ राधः १७ भोजनम् १८तना १९ नृम्णम् २० बन्धुः २१ मेधाः २२ यशः२३ ब्रह्म २४ द्रविणम् २५ श्रवः २६ वृत्रम् २७वृतम् २८ इत्यष्टाविंशतिरेव धननामानि ।इति वेदनिघण्टौ अध्यायः
*
तत्त्रिविधं यथा, --“धनन्तु त्रिविधं ज्ञेयं शुक्लं शवलमेव ।कृष्णञ्च तस्य विज्ञेयो विभागः सप्तधा पृथक्
क्रमायत्तं प्रीतिदायं प्राप्तञ्च सह भार्य्यया ।अविशेषेण सर्व्वेषां वर्णानां त्रिविधं धनम्
वैशेषिकं धनं दृष्टं ब्राह्मणस्य त्रिलक्षणम् ।याजनाध्यापने नित्यं विशुद्धाच्च प्रतिग्रहः
त्रिविधं क्षत्त्रियस्यापि प्राहुर्व्वैशेषिकं धनम् ।युद्धार्थलब्धं करजं दण्ड्यवध्यापहारतः
वैशेषिकं धनं दृष्टं वैश्यस्यापि त्रिलक्षणम् ।कृषिगोरक्षबाणिज्यं शूद्रस्यैभ्यस्त्वनुग्रहात्
कुषीदकृषिबाणिज्यं प्रकुर्व्वीत स्वयं कृतम् ।आपत्काले स्वयं कुर्व्वन्नैनसा युज्यते द्बिजः
”इति गारुडे २१६ कुत्रचित् २१० अध्यायः
*
धनभागिनो दायशब्दे द्रष्टव्याः धनाभागिनोयथा, --“कुब्जवामनखञ्जानां क्लीवानां श्वित्रिणामपि ।उन्मत्तानां तथान्धानां धनभागो विद्यते
शय्यासनस्थानमात्रञ्छाया चान्नं भुजिक्रिया ।एतावद्दीयते दैत्य नार्थभागहरा हि ते
”इति वामनपुराणे ७५ अध्यायः
*
अधना यथा, --“त्रय एवाधना राजन् ! भार्य्या दासस्तथा सुतः ।यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनम्
”इति मात्स्ये ३१ अध्यायः
*
धनस्य प्राणतुल्यत्वमुक्तं यथा, --“यदेतद्द्रविणं नाम प्राणा एते बहिश्चराः ।स तस्य हरते प्राणान् यो यस्य हरते धनम्
”इति कूर्म्मे २९ अध्यायः
*
“अपरावाधमक्लेशं प्रयत्नेनार्जितं धनम् ।स्वल्पं वा वहुलं वापि देयमित्यभिधीयते
”अपरावाधं परपीडारहितम् अक्लेशं पात्र-क्लेशाजनकम्
*
तामसधनं यथा, --“पार्श्विकद्यूतचौर्य्यार्त्तिप्रतिरूपकसाहसैः ।व्याजेनोपार्जितं यत्तु तत् कृष्णं समुदाहृतम्
”पार्श्विकः पात्रतया योऽर्जयति आर्त्त्या पर-पीडया प्रतिरूपेण कृत्रिमरत्नादिना साह-सेन समुद्रयानगिर्य्यारोहणादिना व्याजेनब्राह्मणवेशेन शूद्रादिना कृष्णं तामसम्
*
राजसधनं यथा, --‘कुसीदकृषिबाणिज्यशुल्कगानानुवृत्तिभिः ।कृतोपकारादाप्तञ्च राजसं समुदाहृतम्
’अनुवृत्त्या सेवया
*
सात्त्विकधनं यथा, --‘श्रुतशौर्य्यतपःकन्याशिष्ययाज्यान्वयागतम् ।धनं सप्तविधं शुद्धं मुनिभिः समुदाहृतम्
’श्रुतेनाध्ययनेन शौर्य्येण जयादिना तपसा जप-होमदेवार्च्चादिना कन्यागतं कन्यया सहागतंश्वशुरादेर्लब्धम् शिष्यागतं गुरुदक्षिणादिना ।याज्यागतं आर्त्विज्यलब्धम् अन्वयागतं दाया-देभ्यो लब्धम् शुद्धं सात्त्विकम् ।” इति शुद्धितत्त्वेदेवलनारदौ
*
धनप्रयोगनक्षत्राणि यथा, अश्विनी पुनर्व्वसुः पुष्यः उत्तरफल्गुनी ।हस्ता पूर्व्वाषाढा उत्तराषाढा श्रवणा ।धनिष्ठा शतभिषा उत्तरभाद्रपत् रोहिणी ।इति ज्योतिषम्
*
धनप्रयोगनिषेधो यथा, “आजं यमद्वन्द्बमहित्रयञ्चशत्रुद्बयं वातयुगं महेशः ।कार्य्यो चैतेषु धनप्रयोगोमृदौ गणे ग्राह्यमृणं देयम्
”इति समयप्रदीपः
अर्थप्रशंसा यथा, --“अर्थेभ्योऽथ प्रवृद्धेभ्यः संवृत्तेभ्यस्त तस्ततः ।क्रियाः सर्व्वाः प्रवर्त्तन्ते पर्व्वतेभ्य इवापगाः
अर्थेन हि विमुक्तस्य पुरुषस्याल्पचेतसः ।विच्छिद्यन्ते क्रियाः सर्व्वा ग्रीष्मे कुसरिती यथा
सोऽयमर्थं परित्यज्य सुखकामः सुखैधितः ।पापमाचरते कर्त्तुं तदा दोषः प्रवर्त्तते
यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः ।यस्यार्थाः पुमान् लोके यस्यार्थाः पण्डितः
यस्यार्थाः विक्रान्तो यस्यार्थाः चबुद्धिमान् ।यस्यार्थाः महाबाहुर्यस्यार्थाः गुणाधिकः
अर्थस्यैते परित्यागे दोषाः प्रव्याहृता मया ।राज्यमुत्सृजता धीर ! येन बुद्धिस्त्वया कृता
यस्यार्था धर्म्मकामार्थास्तस्य सर्व्वं प्रदक्षिणम् ।अधनेनार्थकामेन नार्थः शक्यो विचिन्वता
हर्षः कामश्च दर्पश्च धर्म्मः क्रोधः शमो दमः ।अर्थादेतानि सर्व्वाणि प्रवर्त्तन्ते नराधिपे
येषां नश्यत्ययं लोकश्चरतां धर्म्मचारिणाम् ।तेऽर्थास्त्वयि दृश्यन्ते दुर्दिनेषु यथा ग्रहाः
इति रामायणेयुद्धकाण्डे श्रीरामं प्रति श्रीलक्ष्मण-वाक्यम्
*
अर्थनिन्दा यथा, --“अर्थमनर्थं भावय नित्यंनास्ति ततः सुखलेशः सत्यम् ।पुत्त्रादपि धनभाजां भीतिःसर्व्वत्रैषा विहिता नीतिः
”इत्यादि मोहमुद्गरे द्रष्टव्यम्
*
अनुग्रहार्थं भगवता धनहरणम् यथा, --“राजन् यमनुगृह्णामि हरिस्ये तद्धनं शनैः ।ततोऽधनं त्यजन्त्यस्य स्वजना दुःखदुःखितम्
”इति श्रीभागवतम्