| YouTube Channel

धटपरीक्षा (dhaTaparIkSA)

 
शब्दकल्पद्रुमः
Sanskrit
धटपरीक्षा,
स्त्री,
(धटस्य तुलायाः परीक्षा ।)तुलापरीक्षा तत्र धटोत्पत्तिविधिर्यथा ।“पितामहः ।‘छित्वा तु यज्ञियं वृक्षं यूपवन्मन्त्रपूर्व्वकम् ।प्रणम्य लोकपालेभ्यस्तुला कार्य्या मनीषिभिः
’यूपवदिति यूपच्छेदनविहितसर्व्वेतिकर्त्तव्यताति-देशः सा ओँ स्वधिते मैनं हिंसीरिति-च्छेदनमन्त्रविशेषादिरूपा इति व्यवहार-प्रदीपः
‘मन्त्रः सौम्यो वानस्पत्यच्छेदने जप्य एव ।चतुरस्रा तुला कार्य्या दृढा ऋज्वी तयैव
कटकानि देयानि त्रिषु स्थानेषु चार्थवत्
’कटकानि बलयानि ।‘चतुर्हस्ता तुला कार्य्या पादौ चोपरि तत्समौ
’अत्र साधारणत्वेन शारदातिलकोक्तो हस्तोग्राह्यः यथा, --‘चतुर्विंशत्यङ्गुलाढ्यं हस्तं तन्त्रविदो विदुः ।यवानामष्टभिः कॢप्तं मानाङ्गुलमितीरितम्
’यवानां तण्डुलीकृतानाम् ।‘यवानां तण्डुलैरेकमङ्गुलं चाष्टभिर्भवेत् ।अदीर्घयोजितैर्हस्तश्चतुर्व्विंशतिरङ्गुलैः
’इति कालिकापुराणात्
प्रमाणन्तु पार्श्वेन यवानाम् ‘षड्यवाः पार्श्व-सन्मिताः ।’ इति कात्यायनवचनात्
*
अनयोर्व्यवस्थामाह कापिलपञ्चरात्रम् ।‘अष्टभिस्तैर्भवेज्ज्येष्ठं मध्यमं सप्तभिर्यवैः ।कन्यसं षड्भिरुद्दिष्टमङ्गुलं मुनिसत्तम !
’कन्यसं कनिष्ठम् पादौ स्तम्भौ उपरि मृत्ति-कोपरि तत्समौ चतुर्हस्तावित्यर्थः वस्तुतस्तुउपरितत्समौ उपरि तत्समं काष्ठान्तरं ययोःपादयोस्तौ
*
स्तम्भप्रमाणमाह व्यासः ।‘हस्तद्वयं निखेयन्तु प्रोक्तं मुण्डकयोर्द्द्वयोः ।षढस्तन्तु तयोः प्रोक्तं प्रमाणं परिमाणतः
’मुण्डकयोः स्तम्भयोः षढस्तं निखातहस्त-द्वयेन समं अर्थान्मृत्तिकोपरि हस्तचतुष्टय-मित्यर्थः ।‘अन्तरन्तु तयोर्हस्तौ भवेदध्यर्द्धमेव वा ।’तयोः स्तम्भयोः हस्तावन्तरं हस्तद्बयपरि-मितमध्यमित्यर्थः अध्यर्द्धं सार्द्धहस्तद्बयम् ।एतत्तु शालवृक्षोद्भवा कार्य्या पञ्चहस्तायतातुला इति विष्णूक्तपञ्चहस्तायततुलाविषयम् ।व्यवहारदीपिकाप्येवम्
*
अथ धटारोपणविधिः पितामहः ।‘हस्तद्वयं निखेयन्तु पादयोरुभयोरपि ।’अत्र हस्तद्वयं मृत्तिकाभ्यन्तरे हस्तचतुष्टयंमृत्तिकोपरि तथा, --‘तोरणे तथा कार्य्ये पार्श्वयोरुभयोरपि
धटादुच्चतरे स्यातां नित्यं दशभिरङ्गुलैः ।अवलम्बौ कर्त्तव्यौ तोरणाभ्यामधोमुखौ
मृण्मयौ सूत्रसम्बद्धौ धटमस्तकचुम्बिनौ ।प्राङ्मुखो निश्चलः कार्य्यः शुचौ देशे धटस्तथा
’नारदः ।‘शिक्यद्वयं समासाद्य धटकर्कटयोर्दृढम् ।एकत्र शिक्ये पुरुषमन्यत्र तुलयेच्छिलाम्
’पितामहः ।‘प्राङ्मुखान् कल्पयेत् दर्भान् शिक्ययोरुभयोरपि ।पश्चिमे तोलयेत् कर्त्तॄनन्यस्मिन् मृत्तिकां शुभाम्
पिटकं पूरयेत्तस्मिन् इष्टकाग्रावपांशुभिः
’अत्र मृत्तिकेष्टकाग्रावपांशूनां विकल्पः ।‘परीक्षका नियोक्तव्यास्तुलामानविशारदाः ।बणिजो हेमकाराश्च कांस्यकारास्तथैव ।कार्य्यः परीक्षकैर्नित्यमवलम्बसमो धटः
उदकञ्च प्रदातव्यं धटस्योपरि पण्डितैः ।यस्मिन्न प्लवते तोयं विज्ञयः समो धटः
तोलयित्वा नरं पूर्व्वं पश्चात्तमवतार्य्य तु ।धटस्तु कारयेन्नित्यं पताकाध्वजशोभितम्
तत आवाहयेद्देवान् विधिनानेन मन्त्रवित् ।वादित्रतूर्य्यघोषैश्च गन्धमाल्यानुलेपनैः
प्राङ्मुखः प्राञ्जलिर्भूत्वा प्राड्विवाकस्ततो वदेत्
’प्राड्विवाकसमाख्या तु पृच्छतीति प्राट् विवेचय-तीति विवाकः इति व्यवहारमातृका
*
तथा बृहस्पतिः ।‘विवादे पृच्छति प्रश्नं प्रतिपन्नं तथैव ।प्रियपूर्व्वं प्राग्वदति प्राड्विवाकस्ततः स्मृतः
’वस्तुतस्तु प्राड्विवाकसमाख्यामाह कात्यायनः ।‘व्यवहाराश्रितं प्रश्नं पृच्छति प्राडिति स्थितिः ।विवेचयति यस्तस्मिन् प्राड्विवाक इति स्मृतः
’अभिशस्तं पृच्छतीति प्राट् तदनुरूपं दिव्यंविविनक्ति इति विवाकः प्राट् चासौ विवाक-श्चेति कर्म्मधारयः
*
अस्य काम्यत्वेन नवग्रहपूजामाह मत्स्यपुराणम् ।‘नवग्रहमखं कृत्वा ततः कर्म्म समारभेत् ।अन्यथा फलदं पुंसां काम्यं जायते क्वचित्
’ततश्च प्राड्विवाकः पूर्व्वं कार्य्यं पृच्छेत् निवेदि-तञ्च विवेचयेत् ततोऽभियुक्तं तोलयित्वा अव-तार्य्य धर्म्मावाहनादि कुर्य्यात् पितामहः ।‘एह्येहि भगवन् धर्म्म दिव्ये ह्यस्मिन् समाविश ।सहितो लोकपालैश्च वस्वादित्यमरुद्गणैः
आवाह्य धटे धर्म्मं पश्चादङ्गानि विन्यसेत्
’अङ्गानि परिवारदेवताः ।‘इन्द्रं पूर्व्वे तु संस्थाप्य प्रेतेशं दक्षिणे तथा ।वरुणं पश्चिमे भागे कुवेरं उत्तरे तथा
अग्न्यादिलोकपालांश्च कोणभागेषु विन्यसेत्
*
इन्द्रः पीतो यमः श्यामो वरुणः स्फाटिकप्रभः ।कुवेरश्च सुवर्णाभो वह्निश्चापि सुवर्णभः
तथैव निरृतिः श्यामो वायुर्धूम्रः प्रशस्यते ।ईशानस्तु भवेत् शुक्ल अनन्तः शुक्ल एव
ब्रह्मा चैव भवेद्रक्त एवं ध्यायेत् क्रमादिमान्
इन्द्रस्य दक्षिणे पार्श्वे वसूनावाहयेद्बुधः ।धरो ध्रुवस्तथा सोम आपश्चैवानिलोऽनलः
प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्त्तिताः
*
देवेशेशानयोर्मध्ये आदित्यानां तथायनम् ।धातार्य्यमा मित्रश्च वरुणोऽंशुर्भगस्तथा
इन्द्रो विवस्वान् पूषा पर्ज्जन्यो दशमः स्मृतः ।ततस्त्वष्टा ततो विष्णुरजघन्यो जघन्यजः
इत्येते द्वादशादित्या मनुना परिकीर्त्तिताः
’अजघन्यो जघन्यजः इति विष्णोर्विशेषणम् * ।‘अग्नेः पश्चिमभागे तु रुद्राणामयनं विदुः ।वीरभद्रश्च शम्भुश्च गिरिशश्च महायशाः
अजैकपादहिब्रध्नः पिनाकी चापराजितः ।भुवनाधीश्वरश्चैव कपाली विशांपतिः
स्थाणुर्भवश्च भगवान् रुद्राश्चैकादश स्मृताः
’महायशाः विशांपतिर्भगवांश्चेति विशेषणानि
‘प्रेतेशरक्षसोर्मध्ये मातृस्थानं प्रकल्पयेत् ।ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ।वाराही चैव माहेन्द्री चामुण्डा गणसंयुता
’गणसंयुतेति विशेषणम्
*
‘निरृतेरुत्तरे भागे गणेशायतनं विदुः ।वरुणस्योत्तरे भागे मरुतां स्थानमुच्यते
श्वसनः स्पर्शनो वायुरनिलो मारुतस्तथा ।प्राणः प्राणेशजीवौ मरुतोऽष्टौ प्रकीर्त्तिताः
धटस्योत्तरभागे तु दुर्गामावाहयेद्बुधः ।एतासां देवतानाञ्च स्वनाम्ना पूजनं विदुः
’विशेषमाह ब्रह्मपुराणम् ।‘ओङ्कारादिसमायुक्तं नमस्कारान्तकीर्त्तितम् ।स्वनाम सर्व्वसत्त्वानां मन्त्र इत्यभिधीयते
अनेनैव विधानेन गन्धपुष्पे निवेदयेत् ।एकैकस्य प्रकर्त्तव्यं यथोद्दिष्टं क्रमेण तु
’मन्त्र इत्यभिधानादनेनैवेत्येवकारश्रुतेश्च इदंद्रव्यं ओममुकाय नमः इति योज्यं तु धर्म्मा-यार्ध्यं प्रकल्पयामि नमः इति मिताक्षरोक्तम् ।प्रमाणाभावादनन्वयाच्च पितामहः ।‘भूषावसानं धर्म्माय दत्त्वा चार्घ्यादिकं क्रमात् ।अर्ध्यादि पश्चादङ्गानां भूषान्तमुपकल्पयेत्
गन्धादिकां नैवेद्यान्तां परिचर्य्यां प्रकल्पयेत् ।’एतत् सर्व्वं प्राड्विवाकः कुर्य्यात् यथा, --‘प्राड्विवाकस्ततो विप्रो वेदवेदाङ्गपारगः ।श्रुतव्रतोपपन्नश्च शान्तचित्तो विमत्सरः
सत्यसन्धः शुचिर्दक्षः सर्व्वप्राणिहिते रतः ।उपोषितः शुद्धवासाः कृतदन्तादिधावनः
सर्व्वासां देवतानाञ्च पूजां कुर्य्याद्यथाविधि
’रक्तगन्धपुष्पादीनाह नारदः ।‘रक्तैर्गन्धैश्च माल्यैश्च धूपदीपाक्षतादिभिः ।अर्च्चयेत्तु धटं पूर्व्वं ततः शिष्टांश्च पूजयेत्
’धटं धर्म्मम् तथा विष्णुनारदौ ।‘धर्म्मपर्य्यायवचनं धट इत्यभिधीयते ।’शिष्ठानिन्द्रादीन् अविशेषात् सर्व्वत्र रक्ता-न्वयः मिताक्षरायान्तु धर्म्मपूजन एव रक्तत्व-नियमः तथा, --‘चतुर्द्दिक्षु ततो होमः कर्त्तव्यो वेदपारगैः ।आज्येन हविषा चैव समिद्भिर्होमसाधनैः
सावित्र्या प्रणवेनैव स्वाहान्तेनैव होमयेत्
’सावित्र्या गायत्त्र्या तेन प्रणवादिकां गायित्त्री-मुच्चार्य्य पुनः स्वाहाकारान्तं प्रणवमुच्चार्य्यसमिदाज्यचरून् प्रत्येकमष्टोत्तरशतं जुहुयादितिमिताक्षरा वस्तुतस्तु गायत्त्रीहोमे योगियाज्ञ-वष्क्यः ।‘प्रणवव्याहृतिभ्याञ्च स्वाहान्ते होमकर्म्मणि ।तेन प्रणवादिकां सव्याहृतिकां गायत्त्रीमुच्चार्य्यस्वाहाकारान्तं पुनः प्रणवमुच्चार्य्य आज्य-पायससमिधो मिलित्वा अष्टोत्तरशतं जुहुयात्लाघवात् अतएव दैवतैक्ये हि दधिपयसो-स्तन्त्रेणानुष्ठानम् ऐन्द्रं दध्यमावास्यायामैन्द्रंपयोऽमावास्यायामिति श्राद्धविवेकः
*
यत्तु पञ्चलाङ्गलमहादाने ।‘पर्ज्जन्यादित्यरुद्रेभ्यः पायसं निर्व्वपेच्चरुम् ।एकस्मिन्नेव कुण्डे गुरुर्यस्मै निवेदयेत्
पलाशसमिधस्तद्वदाज्यं कृष्णतिलांस्तथा
’इति मत्स्यपुराणात्
चतुर्णां होतॄणां मध्ये यस्मै गुरुः पर्ज्जन्यादिभ्योहोमं कुर्व्विति आज्ञां करोति एव पर्ज्जन्यायआदित्याय रुद्रेभ्यस्तत्तन्मन्त्रैः पायसं पलाश-समिदाज्यकृष्णतिलांश्च प्रत्येकं जुहुयादितिभूपालप्रभृतिभिरुक्तम् तद्युक्तं तद्वदितितथेत्याभ्यां प्रत्येकद्रव्येण होमविधानात् अत-एव रत्नाकरकृद्भिश्चरुं जुहुयादित्युक्त्रा तद्बदितिपलाशादि जुहुयादित्युक्तम् अतएव वृषोत्-सर्गे वाचस्पतिमिश्रप्रभृतिभिरग्न्यादिहोमशेष-पायसपूषहोमशेषपिष्टकाभ्यां मिलिताभ्यां सकृत्स्विष्टिकृद्धोमो विहितः अशक्तौ तु ।‘होमो ग्रहादिपूजायां शतमष्टाधिकं भवेत् ।अष्टाविशतिरष्टौ वा शक्त्यपेक्ष्यमथापि वा
’इति देवीपुराणीयादिपददर्शनात् अत्राप्यन्यासङ्ख्या उन्नेया एवं मत्स्यपुराणे ।‘शृणु राजन् महाबाहो तडागादिषु यो विधिः ।वेद्यास्तु परितो गर्त्तारत्निमात्रास्त्रिमेखलाः
नव सप्ताथवा पञ्च योनिवक्त्रा नृपात्मज ।इति नवादिकुण्डानुक्त्रा, --‘स्वल्पेऽप्येकाग्निमत्कार्य्यो वित्तशाठ्यादृते नृभिः
’इति दर्शनादत्रापि अशक्तावेकाग्निविधिरितिवदन्ति अत्र प्राड्विवाकगृह्येणैव होमः ।‘दिव्येषु सर्व्वकार्य्याणि प्राड्विवाकः समाचरेत् ।अध्वरेषु यथाध्वर्य्युः सोपवासो नृपाज्ञया
’इति मिताक्षराधृतपितामहवचनात् अध्वर्य्यु-र्यजमानमात्रम् चात्र भिन्नशाखिनामृ-त्विजां रथकारवद्बिद्याप्रयुक्तिकल्पनेति वाच्यम् ।ब्राह्मणमात्रस्य नानाशाखापाठविधानेन कल्प-नानुपपत्तेः तथा मनुः ।‘वेदानधीत्य वेदौ वा वेदं वापि यथाक्रमम् ।अविप्लुतब्रह्मचर्य्यो गृहस्थाश्रममाचरेत्
इति ।प्रायश्चित्तहोमस्तु सामगानां महाव्याहृतिभिः ।‘यत्र व्याहृतिभिर्होमः प्रायश्चित्तात्मको भवेत् ।चतस्रस्तत्र कर्त्तव्याः स्त्रीपाणिग्रहणे यथा
अपि वाज्ञातमित्येषा प्राजापत्यापि वाहुतिः ।होतव्या त्रिर्विकल्पोऽयं प्रायश्चित्तविधिः स्मृतः
’इति छन्दोगपरिशिष्टात्
तु शाट्यायनहोमो भवदेवभट्टोक्तः त्रिर्वि-कल्प इत्यनेन तस्य निरासात् भट्टनारायणा-दिभिरप्रमाणीकृतत्वाच्च
*
पितामहः ।‘तोलयित्वा नरं पूर्व्वं तस्मात्तमवतार्य्य ।प्राङ्मुखः प्राञ्जलिर्भूत्वा प्राड्विवाकस्ततो वदेत्
एह्येहि भगवन् धर्म्म ! दिव्ये ह्यस्मिन् समाविश ।सहितो लोकपालैस्त्वं वस्वादित्यमरुद्गणैः
तञ्चार्थमभियुक्तस्य लेखयित्वा तु पत्रके ।मन्त्रेणानेन सहितं कुर्य्यात्तस्य शिरोगतम्
आदित्यचन्द्रावनिलोऽनलश्चद्यौर्भूमिरापो हृदयं यमश्च ।अहश्च रात्रिश्च उभे सन्ध्येधर्म्मोऽपि जानाति नरस्य वृत्तम्
इमं मन्त्रविधिं कृत्स्नं सर्व्वदिव्येषु योजयेत् ।आवाहनञ्च देवानां तथैव परिकल्पयेत्
*
धटमामन्त्रयेच्चैवं विधिनानेन मन्त्रवित् ।त्वं धटो ब्रह्मणा सृष्टः परीक्षार्थं दुरात्मनाम्
धकाराद्धर्म्ममुद्दिष्टं टकारात् कुटिलं नरम् ।धृतो धारयसे यस्माद्धटस्तेनाभिधीयते
त्वं वेत्सि सर्व्वभूतानां पापानि सुकृतानि ।त्वमेव देव ! जानीषे विदुर्यानि मानवाः
व्यवहाराभिशस्तोऽयं मानुषः शुद्धिमिच्छति ।तदेनं संशयादस्माद्धर्म्मतस्त्रातुमर्हसि
*
लेखनप्रकारमाह नन्दिपुराणम् ।‘शुभे नक्षत्रदिवसे शुभे राशिदिनग्रहे ।लेखयेत् पूज्यदेवेशान् रुद्रब्रह्मजनार्द्दनान्
पूर्व्वदिग्वदनो भूत्वा लिपिज्ञो लेखकोत्तमः ।निरोधो हस्तबाह्वोश्च मसीपत्रविधारणे
मत्स्यपुराणञ्च
‘शीर्षोपेतान् सुसम्पन्नान् समश्रेणिगतान् समान् ।अक्षरान् लेखयेद्यस्तु नरो लेखकः स्मृतः
’इति दानसागरः
धारयसे इत्यत्र भावयसे इति पाठोऽनुपयुक्तः ।तथा हि कुटिलं पापिनं संशयोपपन्नं वा ।आद्ये पापिनमित्येतावन्मात्राभिधानमनुपपन्नंऊर्द्ध्वगत्या शुद्धस्यापि ज्ञापनात् द्बितीये पूर्व्व-सिद्धत्वेन ज्ञापनानुपपत्तिः तस्मात् कुटिलंव्यवहाराभिशस्तं धारयसे इत्येवार्थः अतएवउपसंहारे संशयादस्मादित्युक्तम् अतएवकालिकापुराणेऽपि मानुषस्तोल्यते त्वयीत्युक्त-मिति
*
स्मृतिसमुच्चयव्यवहारदीपिकयो-र्विष्णुः धटञ्चसमयेन गृह्णीयात् तुलाधारकञ्च ।‘धर्म्मपर्य्यायवचनं धट इत्यभिधीयते ।त्वमेव धट जानीषे विदुर्यानि मानवाः
व्यवहाराभिशस्तोऽयं मानुषः शुद्धिमिच्छति ।तदेनं संशयादस्माद्धर्म्मतस्त्रातुमर्हसि
ब्रह्मघ्ना ये स्मृता लोका ये लोकाः कूटसाक्षिणः ।तुलाधारस्य ते लोकास्तुलां धारयतो मृषा
’समयेन त्वमेव धट इत्यादिनियमेन धटं गृह्णी-यात् योजयेत् तुलाधारकञ्च ब्रह्मघ्ना ये इत्या-दिना नियमेनेत्यर्थः अत्र नानामुनिप्रणीत-मन्त्राणाम् एकतरपाठ्यानां समानप्रयोजनानांयवब्रीहिवद्विकल्प इति ग्रन्थगौरवात्ते नलिखिताः अभिशस्तप्राड्विवाकपाठ्यानान्तुदृष्टार्थानां समुच्चयः पितामहः ।‘नित्यं देयानि दिव्यानि शुचये चार्द्रवाससे ।’शुचये जननमरणाशौचरहिताय क्षतिनंप्रति याज्ञवल्क्यदीपकलिकायां नारदः ।‘हस्तक्षतेषु सर्व्वेषु कुर्य्याद्धंसपदानि ।तान्येव पुनरालक्षेद्धस्तौ बिन्दुविचित्रितौ
’इत्यग्निविधौ हस्तक्षतिनौ हस्तक्षतमलक्तादिनाचिह्नितं कृत्वा क्षतान्तरं जातं वा इतिज्ञातव्यमिति सुतरां क्षतिनो दिव्याधिकारः ।नारदः ।‘अहोरात्रीषिते स्नाते आर्द्रवाससि मानवे ।पूर्व्वाह्णे सर्व्वदिव्यानां प्रदानमनुकीर्त्तितम्
*
धटानुमन्त्रणात् प्रागपि पुनस्तोल्नमाहकालिकापुराणम् ।‘उपोषितं तथा स्नातं मृत्समं प्रथमं तुलाम् ।सन्तोल्य कारयेद्रेखामवतार्य्यानुमन्त्रयेत्
’याज्ञवल्क्यः ।‘तुलाधारणविद्वद्भिरभियुक्तस्तुलाश्रितः ।प्रतिमानसमीभूतो रेखां कृत्वावतारितः
त्वं तुले सत्यधामासि पुरा देवैर्विनिर्म्मता ।तत् सत्यं वद कल्याणि ! संशयान्मां विमोचय
यद्यस्मिन् पापकृन्मातस्ततो मां त्वमधो नय ।शुद्धश्चेत् गमयोर्द्ध्वं मां तुलामित्यभिमन्त्रयेत्
’तुलाधारणाभिज्ञैर्ब्बणिगादिभिः पाषाणादि-प्रतिमानसमीकृतस्तुलाधिरूढः अभिशस्तोदिव्याधिकारी येन सन्निवेशेन प्रतिमानसमी-करणदशायां यत्र पादादयो व्यवस्थिताः शिक्य-रज्जवश्च तत्र पाण्डुलेखेनाङ्कयित्वा पिटकादव-तारितः त्वन्तुलेति मन्त्रेण तुलां प्रार्थयेत् सत्यंसन्दिग्धार्थस्य स्वरूपं वद दर्शय पापकृद-सत्यवादी शुद्धश्च सत्यवादी मन्त्रश्चायं स्मार्त्तःपौराणिकत्वात् शूब्रैरपि पाठ्यः वेदमन्त्रवर्ज्जंशूद्रस्येति छन्दोगाह्निकधृतस्मृतौ वेदेति विशे-षणात् श्राद्धविश्वदेवादौ तु विशेषतो नमस्कार-मन्त्रविधानात् स्मार्त्तमन्त्रोऽपि निषिद्धः प्रप-ञ्चस्तु तिथितत्त्वेऽनुसन्धेयः स्त्रीपरीक्षायामषिअविकृत एव प्रयोज्यः दिव्यानीह विशुद्धयेइत्यनेन सन्दिग्वार्थसन्देहनिवृत्तिफलकतयाविशे-षेण स्त्रीपुंकर्त्तृकदिव्यविधानेन मानुषः शुद्धि-मिच्छतीत्यनेन प्रकृतावूहायोगात् अतएवपत्नीं सन्नह्याज्यं नो धेहीति मन्त्रे द्विबहुपत्नीक-यजमानकर्त्तृकप्रयोगेऽपि द्विबहुवचनोहइत्युक्तम्
*
पत्रस्थप्रतिज्ञेयार्थस्य शोध्यायतस्य स्वस्य बोधाय श्रावणमाह नारदः ।‘असुमर्थञ्च पत्रस्थमभियुक्तं यथार्हतः ।संश्राव्य मूर्द्ध्नि तस्यैव न्यस्य देयो यथाक्रमम्
’देयो दिव्यविशेषः प्राड्विवाकेनेति शेषः
*
ततः शिरोऽवस्थितपत्रकं शोध्यं नरं धटे पुन-रारोपयेत् पुनरारोपयेत्तस्मिन् शिरोऽव-स्थितपत्रकमिति स्मरणात् तुलारोपितञ्चनरं विनाडीपञ्चककालं शतत्रयगुर्व्वक्षरोच्चा-रणयोग्यम् ।‘मा कान्ते पक्षस्यान्ते पर्य्याकाशे देशे स्वाप्सीः ।कान्तं वक्त्रं वृत्तं पूर्णं चन्द्रं मत्वा रात्रौ चेत् ।क्षुत्क्षामः प्राटंश्चेतश्चेतो राहुः क्रूरः प्राद्या-त्तस्माद्ध्वान्ते हर्म्यस्यान्ते शय्यैकान्ते कर्त्तव्या
’इति श्लोकस्य पञ्चधा पाठयोग्यकालं पञ्चपला-त्मकं यावत् तावत् स्थापयेत्
यथा, स्मृतिः ।‘ज्योतिर्विद्ब्राह्मणः श्रेष्ठः कुर्य्यात् कालपरीक्ष-णम् ।विनाड्यः पञ्च विज्ञेयाः परीक्षाकालकोविदैः
’तत्कालश्च ज्योतिषे ।‘दशगुर्व्वक्षराः प्राणःषट् प्राणाः स्याद्विनाडिका ।तासां षष्ट्या घटी ज्ञेयाहोरात्रं घटिकास्तथा
’तथा षष्ट्या
*
पितामहः ।‘साक्षिणो ब्राह्मणाः श्रेष्ठा यथादृष्टार्थवादिनः ।ज्ञानिनः शुचयोऽलुब्धा नियोक्तव्या नृपेण तु
शंसन्ति साक्षिणः सर्व्वे शुद्ध्यशुद्धी नृपे तथा ।तुलितो यदि वर्द्धेत शुद्बः स्यान्न संशयः
समो वा हीयमानो वा विशुद्धो भवेन्नरः ।अल्पदोषः समो ज्ञेयो बहुदोषस्तु हीयते
’अल्पत्वं व्यभिचारे आलिङ्गनादिना चौर्य्येतद्देशगमनादिना
*
तत्र पुनस्तोलनमाहबृहस्पतिः ।‘धटेऽभियुक्तस्तुलितो हीनश्चेद्धानिमाप्नुयात् ।तत्समस्तु पुनस्तोल्यो वर्द्धितो विजयी भवेत्
’शोध्यः स्वल्पदोषाङ्गीकारेऽपि प्रधानदोषनिर्ण-यार्थं तत्रैव पुनस्तोलनीयः अङ्गवैगुण्यसम्भा-वनायान्तु प्रयोगान्तरमिति यदा चानुपलभ्य-मानदृष्टकारणक एव कक्षादीनां छेदनादि-स्तदाप्यशुद्धिः ।‘कक्षच्छेदे तुलाभङ्गे धटकर्कटयोस्तथा ।रज्जुच्छेदेऽक्षभङ्गे तथैवाशुद्धिमादिशेत्
’इति बृहस्पतिवचनात्
कक्षं शिक्यतलम् धटकर्कटौ तुलान्तयोः शिक्या-धारावीषद्बक्रावायसकीलकौ कर्कटशृङ्गनिभौ ।अक्षः पादः स्तम्भयोरुपरिनिविष्टस्तुलाधार-पट्ट इति मिताक्षरा
दार्ढ्यप्रयोजकः कीलकः ।इति हलायुधः
मध्यकटकमिति पारिजातः
यदा तु दृश्यमानकारणक एवैषां भङ्गस्तदापुनरारोपयेत् शिक्यादिच्छेदभङ्गेषु पुनरा-रोपयेन्नरमिति स्मृतेः ततश्च ।‘ऋत्विक्पुरोहिताचार्य्यान्दक्षिणाभिश्च तोषयेत् ।एवं कारयिता राजा भुक्त्वा भोगान् मनोरमान् ।महतीं कीर्त्तिमाप्नोति ब्रह्मभूयाय कल्पते
*
तदयं सङ्क्षेपः प्राड्विवाको लोकपालादिनम-स्कारपूर्व्वकं यथोक्तलक्षणां तुलां कुर्य्यात् ।ततः षढस्तौ सुदृढौ स्तम्भौ कृत्वा हस्तद्वय-व्यवधानेन दक्षिणोत्तरयोर्द्दिशोर्हस्तद्वयनिखननंकृत्वा पट्टधारकीलकाग्रस्तम्भयोरुपरि मध्ये पार्श्व-द्बये विहितच्छिद्रं मध्यच्छिद्रनिवेशितलोहा-ङ्कुशपट्टकं निधाय उपरि कीलकस्य तत्पट्टकस्यमध्यस्थिताङ्कुशेन तुलामध्यवलयस्थलौहाङ्कुशंसंयुञ्ज्यात् एवञ्च मध्ये स्तम्भयोरन्तरा तिर्य्यक्तुलादण्डस्तिष्ठति तुलाग्रस्थिताभ्यामायसकील-काभ्यां शिक्यद्वयरज्जुबन्धनं कुर्य्यात् तुलायाःपार्श्वयोः प्राक्प्रत्यक्दिशोस्तोरणस्तम्भौ तुलातोदशाङ्गुलोच्छ्रायौ कार्य्यौ तोरणयोरुपरि सूत्र-सम्बद्धौ मृण्मयावधोमुखौ धटमस्तकचुम्बितौअवलम्बौ कार्य्यौ यथावलम्बविश्लेषाभ्यां तुला-यामवनतिरुन्नतिश्च ज्ञेया तथा जलद्वारापि ।”इति दिव्यतत्त्वम्
*
अस्य प्रयोगस्तुलाशब्देद्रष्टव्यः