| YouTube Channel

धकार (dhakAra)

 
Monier Williams Cologne
English
ध—कार
m.
the letter or sound ध्.
Shabdartha Kaustubha
Kannada
धकार
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಎಂಬ ಅಕ್ಷರ
निष्पत्तिः - > - "कारः" (वा० ३-३-१०८)
वाचस्पत्यम्
Sanskrit
धकारः तवर्गीयः पञ्चमः व्यञ्जनवर्णभेदः तस्योच्चारणस्थानं दन्त-मूलं “दन्त्या लतुलसाः स्मृताः” इति तवर्गस्य दन्त्यत्वोक्तिःदन्तमूलपरत्वेन, अन्यथा भग्नदन्तस्य तवर्गोच्चारणानुप-पत्तेः व्यञ्जनवर्णत्वादर्द्धमात्रत्वम् तस्य तस्योच्चारणेआभ्यन्तरप्रयत्नः स्पृष्टता जिह्वाग्रेण दन्तमूलस्य सम्यक्-स्पर्शेन तस्थोच्चारणात् तथात्वम् वाह्यप्रयत्नाश्च संवार-नादवोषा महाप्राणश्च, सि० कौ० मूलं दृश्यम् अस्यवाचकशब्दा वर्णाभिधानतन्त्रोक्ता यथा “धो धनार्थोरुचिः स्थाणुः सात्वतो योगिनीप्रियः मीनेशःशङ्खिनी तोयं नागेशो विश्वपावनी धिषणा धारणाचिन्ता नेत्रयुग्मं प्रियो मतिः पीतवासास्त्रिवर्णा चधात्री धर्मः प्लवङ्गमः सन्दर्शो मोहनो लज्जा वज्र-तुण्डः सुकन्धरा वामपादाङ्गुलीमूलं ज्येष्ठा सुरपुरं भवः स्पर्शात्मा दीर्घजङ्घा धनेशो धनसञ्चयः”अस्य मातृकान्यासे वामपादाङ्गुलिमूले न्यास्यता ।अस्याधिष्ठातृदेवताया ध्येयरूपम् “षड्भुजां मेषवर्णाञ्चरक्त्राम्बरधरां पराम् वरदां शोभनां रम्यां चतुर्वर्ग-प्रदायिनीम् एवं ध्यात्वा धकारन्तु तन्मन्त्रं दशधाजपेत्” अस्य स्वरूपञ्च “धकारं परमेशानि! कुण्डलीमोक्षरूपिणी आत्मादितत्त्वसंयुक्तं पञ्चदेवमयंसदा पञ्चप्राणमयं देवि! विसिनीसहितं सदा ।त्रिविन्दुसहितं वर्णं धकारं यदि भावयेत् पीत-विद्युल्लताकारं चतुर्वर्गप्रदायकम्” कामधेनु० अस्यकाव्यादौ प्रथमन्यासफलं वृ० र० टीकायामुक्तं यथा“दोधः सौख्यं मृदं नः”