| YouTube Channel

द्वैमातुरः (dvaimAturaH)

 
Apte Hindi
Hindi
द्वैमातुरः
पुं*
- -
गणेश का नाम
द्वैमातुरः
पुं*
- -
जरासंध का नाम
Wordnet
Sanskrit
Synonyms:
गणेशः, गजाननः, गणपतिः, लम्बोदरः, वक्रतुण्डः, विनायकः, आखुवाहनः, एकदन्तः, गजमुखः, गजवदनः, गणनाथः, हेरम्बः, भालचन्द्रः, विघ्नराजः, द्वैमातुरः, गणाधिपः, विघ्नेशः, पर्शुपाणिः, आखुगः, शूर्पकर्णः, गणः
noun
हिन्दूनां एका प्रधाना तथा अग्रपूज्या देवता यस्य शरीरं मनुष्यस्य मस्तकं तु गजस्य अस्ति।
"गणेशस्य वाहनं मूषकः अस्ति।"
शब्दकल्पद्रुमः
Sanskrit
द्वैमातुरः,
पुं,
(द्वयोर्मात्रोरपत्यम् द्विमातृ +“मातुरुत्संख्यासंभद्रपूर्व्वायाः ।” ११५ ।इति अण् उत्त्वञ्च ।) गणेशः इत्यमरः ।१ ४०
(अस्य द्विमातृत्वकथा स्कन्दपुराणेगणेशखण्डे उक्ता यथा, --“आविर्भविष्ये सदने वरेण्यस्य महीपतेः ।त्रैलोक्यरक्षणार्थाय विघ्नस्यास्य प्रशान्तये ।पालनाय स्वभक्तानां साधुत्राणाय भूसुराः
शिव उवाच ।इत्युक्त्रा पुष्पकागर्भं प्रविवेश तदैव सः ।आगते नवमे मासि प्रासूत पुष्पका शिशुम्
चतुर्बाहुमिभास्यञ्च दन्तुरं सुन्दरेक्षणम् ।आयुधानि चत्वारि बिभ्रतं तेजसान्वितम्
दृष्ट्वा सा क्रन्दनं चक्रेऽरिष्टमेतत् किमागतम् ।श्रुत्वा चाक्रन्दनं तस्या वरेण्यः सगणो ययौ
ददर्श बालकं सोऽपि विस्मितः सह तैर्गणैः ।उवाच सेवकान् राजा त्यजतैनं सरोवरे
शिशुमादाय ते याताः पार्श्वस्यैवाश्रमे शुभे ।कासारे तं शिशुं त्यक्त्रा ययुः सर्वे निजं पुरम्
अपरस्मिन् दिने पार्श्वमुनिः स्नानाय चागतः ।तदैव ददृशे तेन बालकोऽद्भुतदर्शनः
आश्चर्यमकरोत्तत्र भयभीतस्तथाभवत् ।आश्रमे केन मे त्यक्तमरिष्टसुखदायिनीम्
तपसा नु फलं दातुमीदृशीं धृतवांस्तनुम् ।रक्षितुं सर्व्वलोकानां परमात्मा निजेच्छया
सुन्दरो बालकः केन त्यक्तोऽयमीदृशो बहिः ।नीत्वा स्वमाश्रमं चैनं पालयिष्ये प्रयत्नतः
इत्युक्त्रा जगृहे बालमालिलिङ्ग मुदा मुनिः ।तमानीतं मुनेः पत्नी ददर्श दीपवत्सला ।उवाच निजभर्त्तारं सुप्रसन्नाननाम्बुजा
दीपवत्सलोवाच ।किमानीतं महत् स्वामिन् भृशमाश्चर्यकारकम् ।इदं वैनायकं रूपं ममाभाति द्विजर्षभ !
इदमेव श्रियः स्थानं इदमेव तपःफलम् ।इदमेव परं ब्रह्म योगिध्येयं सनातनम् ।इदमेव परं तेज आदित्ये यदधिष्ठितम् ।इदमेव हि वेदान्ता नेति नेति प्रचक्षते
शिव उवाच ।इत्युक्त्रा हर्षसम्पन्ना भर्तुरादाय बालकम् ।स्तनपानं ददौ तस्मै ततः सा दीपवत्सला ।द्वितीयाचन्द्रवद्बालो वृद्धिं यातो दिने दिने
”)जरासन्धः इति मेदिनी रे, २६८
(अस्यद्विमातृत्वकारणं जरासन्धशब्दे द्रष्टव्यम्
)द्विमातृजे, त्रि इति हेमचन्द्रः २१०
(यथा, राजतरङ्गिण्याम् ३५५ ।“भिन्नशीला तयोर्भात्रोर्धीर्द्वैमातुरयोः पुनः
”)