| YouTube Channel

द्वैधं (dvaidhaM)

 
शब्दकल्पद्रुमः
Sanskrit
द्वैधं,
व्य,
(द्वि + “संख्याया विधार्थे धा ।” ।४२ इति धा “द्वित्र्योश्च धमुञ् ।” ।४५ इति धा इत्यस्य धमुञ् ।) द्विप्रकारम् ।इति व्याकरणम्
(यथा, हरिवंशे ३० ।“तदण्डमकरोद्द्वैधं दिवं भुवमथापि
”क्ली, “धमुञन्तात् स्वार्थे डदर्शनम् ।” इति वार्त्ति-कोक्त्या डः राज्ञां षड्गुणानामन्यतमः इत्य-मरः १८
) एकेन सन्धिरपरेणविग्रहः इति द्वौ प्रकारौ द्वैधं निपातितम् ।इत्यमरटीकायां भरतः
(तच्च द्विविधम् ।यथा, मनुः १६७ ।“बलस्य स्वामिनश्चैव स्थितिः कार्य्यार्थसिद्धये ।द्विविधं कीर्त्तते द्वैधं षाड्गुण्यगुणवेदिभिः
”)विवादः इति त्रिकाण्डशेषः
(द्विप्रकारम् ।यथा, मनुः ७३ ।“बहुत्वं परिगृह्णीयात् साक्षिद्वैधे नराधिपः ।समेषु तु गुणोत्कृष्टान् गुणद्वैधे द्विजोत्तमान्
”त्रि यथा, “पथि द्वेधानि तृणानि ।” इतिसिद्धान्तकौमुदी
)