| YouTube Channel

द्वैताद्वैत (dvaitAdvaita)

 
वाचस्पत्यम्
Sanskrit
द्वैताद्वैत
न०
द्वैतञ्चाद्वैतञ्च जीवेश्वरयोर्भेदाभेदयोः ।“अद्वैतञ्च तथाऽद्वैतं द्वैताद्वैतं तथैव द्वैतं नापिचाद्वैतमित्येतत् पारमार्थिकम् हि नैवान्यसम्बन्घोब्रह्मभावेन भावितः ईदृक्षायामवस्थायामवाप्यं परमंपदम् द्वैतपक्षाः समाख्याता येऽद्वैते तु व्यवस्थिताः”