| YouTube Channel

द्वैतवादी (dvaitavAdI)

 
Wordnet
Sanskrit
Synonyms:
द्वैतवादी, द्वैती
noun
यः ईश्वरजीवयोः भेदं मन्यते।
"द्वैतवादिना पूजाः अनुष्ठानानि कृत्वा विविधाः सिद्धयः प्राप्ताः।"
Synonyms:
द्वैती, द्वैतवादी
adjective
यः ईश्वरजीवयोः भेदं मन्यते।
"भक्तिपन्थः प्रायः द्वैतवादी अस्ति।"
शब्दकल्पद्रुमः
Sanskrit
द्वैतवादी, [न्] त्रि, (द्वैतं जीव ईश्वरश्चेति द्वयंवदतीति वद + णिनिः ।) जीवेश्वरयोर्भेद-वादी ईश्वरातिरिक्तजीववक्ता तस्य मतंयथा, परमात्मनो जीवात्मा पृथक् तन्मध्येकेषाञ्चिन्मते प्रकृतिरतिरिक्ता केषाञ्चिन्मते प्रकृ-तिरदृष्टमात्रे पर्य्यवसिता एवं जीवश्च पृथक् ।अत्र प्रमाणम् ।जन्मकर्म्ममरणानां प्रतिनियमादयुगपत्प्रवृत्तेश्च ।पुरुषबहुत्वं सिद्धं त्रैगुण्यविपर्य्ययाच्चैव
इति साङ्ख्यमतम्
तत्रेश्वरः सर्व्वज्ञः परमात्मा एक एव जीवःप्रतिशरीरं भिन्नः विभुर्नित्यश्च इति गोतम-मतम्
इह ब्रह्मणो जीवेतरत्वप्रतिपादनात् तयोरद्वैतंनाभिमतम् नेतरोऽनुपपत्तेर्भेदव्यपदेशाच्चमुक्तोऽप्यसृप्य व्यपदेशादाकाशोऽर्थान्तरत्वादि-व्यपदेशाद्भोगमात्रसाम्यलिङ्गाच्चेति सूत्रैर्मोक्षे-ऽपि तयोर्द्वैतनिरूपणाच्च इति गोविन्दभाष्य-मतम्
यतो द्वैतमते युक्तिरेव प्रमाणं युक्त्या यत् फलतितदेव सर्व्वाध्यात्मविद्याप्रतिपादकश्रुतीनां तात्-पर्य्यम् इति रामानुजमतञ्च