| YouTube Channel

द्विष्टं (dviSTaM)

 
शब्दकल्पद्रुमः
Sanskrit
द्विष्टं,
क्ली,
(द्विष + क्तः ।) द्ब्यष्टम् ताम्रम् ।इत्यमरटीकासारसुन्दरी
द्बेषविषये, त्रि ।(यथा, भाषापरिच्छेदे १५१ ।“निवृत्तिस्तु भवेद्द्वेषात् द्विष्टसाधनताधियः
”तथाच ।“अचोक्षं दुष्टमुच्छिष्टं पाषाणतृणलोष्ट्रवत् ।द्विष्टं व्युषितमस्वादु पूति चान्नं विवर्ज्जयेत्
”इति सुश्रुते सूत्रस्थाने ४६ अः