| YouTube Channel

द्विषन् (dviSan)

 
Kridanta Forms
Sanskrit
द्विष् (द्वि॒षँ॑ अप्रीतौ - अदादिः - अनिट्)
ल्युट् = द्वेषणम्
अनीयर् = द्वेषणीयः - द्वेषणीया
ण्वुल् = द्वेषकः - द्वेषिका
तुमुँन् = द्वेष्टुम्
तव्य = द्वेष्टव्यः - द्वेष्टव्या
तृच् = द्वेष्टा - द्वेष्ट्री
क्त्वा = द्विष्ट्वा
ल्यप् = प्रद्विष्य
क्तवतुँ = द्विष्टवान् - द्विष्टवती
क्त = द्विष्टः - द्विष्टा
शतृँ = द्विषन् - द्विषती
शानच् = द्विषाणः - द्विषाणा
Wordnet
Sanskrit
Synonyms:
शत्रुः, रिपुः, वैरिः, सपत्नः, अरिः, द्विषः, द्वेषणः, दुर्हृद्, द्विट्, विपक्षः, अहितः, अमित्रः, दस्युः, शात्रवः, अभिघाती, परः, अरातिः, प्रत्यर्थो, परिपन्थी, वृषः, प्रतिपक्षः, द्विषन्, घातकः, द्वेषी, विद्विषः, हिंसकः, विद्विट्, अप्रियः, अभिघातिः, अहितः, दौहृदः
noun
येन सह शत्रुता वर्तते।
"शत्रुः अग्निश्च दुर्बलः नास्ति।"
अभिधानचिन्तामणिः
Sanskrit
--source--
षण्ढे वर्षवरः शत्रौ प्रतिपक्षः परो रिपुः
शात्रवः प्रत्यवस्थाता प्रत्यनीकोभियात्यरी ७२८
दस्युः सपत्नोऽसहनो विपक्षो द्वेषी द्विषन्वैर्यहितो जिघांसुः
दुर्हृत्परेः पन्थकपन्थिनौ द्विट्प्रत्यर्थ्यमित्रावभिमात्यराती ७२९
-wordlist-
षण्ढ (पुं), वर्षवर (पुं), शत्रु (पुं), प्रतिपक्ष (पुं), पर (पुं), रिपु (पुं), शात्रव (पुं), प्रत्यवस्थातृ (पुं), प्रत्यनीक (पुं), अभियाति (पुं), अरि (पुं), दस्यु (पुं), सपत्न (पुं), असहन (पुं), विपक्ष (पुं), द्वेषिन् (पुं), द्विषन् (पुं), वैरिन् (पुं), अहित (पुं), जिघांसु (पुं), दुर्हृद् (पुं), परिपन्थक (पुं), परिपन्थिन् (पुं), द्विष् (पुं), प्रत्यर्थिन् (पुं), अमित्र (पुं), अभिमाति (पुं), अराति (पुं)
शब्दकल्पद्रुमः
Sanskrit
द्विषन्, [त्] त्रि, (द्वेष्टीति द्विष + “द्विषो-ऽमित्रे ।” १३१ इति शतृ ।) शत्रुः ।इत्यमरः १०
(यथा, माघे ।“यियक्षमाणेनाहूतः पार्थेनाथ द्विषन् मुरम्
”)
कृदन्तरूपमाला
Sanskrit
1 {@“द्विष अप्रीतौ”@} 2 द्वेषकः-षिका, द्वेषकः-षिका, 3 दिद्विक्षकः-क्षिका देद्विषकः-षिका
द्वेष्टा 4 -ष्ट्री, द्वेषयिता-त्री, दिद्विक्षिता-त्री, देद्विषिता-त्री
5 द्विषन् 6-ती, द्वेषयन्-न्ती, दिद्विक्षन्-न्ती
-- 7 द्वेक्ष्यन्-न्ती-ती, द्वेषयिष्यन्-न्ती-ती, दिद्विक्षिष्यन्-न्ती-ती
-- द्विषाणः, द्वेषयमाणः, दिद्विक्षमाणः, देद्विष्यमाणः
द्वेक्ष्यमाणः, द्वेषयिष्यमाणः, दिद्विक्षिष्यमाणः, देद्विषिष्यमाणः
8 9 विप्रद्विट्, मित्रद्विट्, 10 मधुद्विट्, प्रद्विट्, 11 द्विट्, ब्रह्मद्विट्-द्विषौ-द्विषः
द्विष्टम्-द्विष्टः-ष्टवान्, द्वेषितः, दिद्विक्षितः, देद्विषितः-तवान्
द्विषः, 12 द्वेषी, मित्रद्वेषी, ब्रह्मद्वेषी, 13 द्वेषणः, 14 द्विषन् 15, दिद्विक्षुः, देद्विषः
द्वेष्टव्यम्, द्वेषयितव्यम्, दिद्विक्षितव्यम्, देद्विषितव्यम्
द्वेषणीयम्, द्वेषणीयम्, दिद्विक्षणीयम्, देद्विषणीयम्
द्वेष्यम्, द्वेष्यम्, दिद्विक्ष्यम्, देद्विक्ष्यम्
ईषद्द्वेषः-दुर्द्वेषः-सुद्वेषः
-- -- -- द्विष्यमाणः, द्वेष्यमाणः, दिद्विक्ष्यमाणः, देद्विष्यमाणः
द्वेषः, द्वेषः, दिद्विक्षः, देद्विषः, द्वेष्टुम्, द्वेषयितुम्, दिद्विक्षितुम्, देद्विषितुम्
द्विष्टिः, द्वेषणा, दिद्विक्षा, देद्विषा
द्वेषणम्, द्वेषणम्, दिद्विक्षणम्, देद्विषणम्
द्विष्ट्वा, द्वेषयित्वा, दिद्विक्षित्वा, देद्विषित्वा
प्रद्विष्य, प्रद्वेष्य, प्रदिद्विक्ष्य, प्रदेद्विष्य
द्वेषम् २, द्विष्ट्वा २, द्वेषम् २, द्वेषयित्वा २, दिद्विक्षम् २, दिद्विक्षित्वा २, देद्विषम्
देद्विषित्वा २।
प्रासङ्गिक्यः
01
=>
(८८९)
02
=>
(२-अदादिः-१०१३। सक। अनि। उभ।)
03
=>
[[५। सन्नन्ताण्ण्वुलि, ‘इको झल्’ (१-२-९) इति सनः कित्त्वे, ‘षढोः कः सि’ (८-२-४१) इति षकारस्य ककारे, सकारस्य मूर्धन्ये रूपमेवम्। एवं सन्नन्ते सर्वत्र प्रक्रिया ज्ञेया।]]
04
=>
[[६। तृचि, गुणे, ‘ष्टुना ष्टुः’ (८-४-४१) इति ष्टुत्वेन टकारे रूपम्। एवं तव्यदा- दिष्वपि ज्ञेयम्।]]
05
=>
[[७। ‘द्विषः शतुर्वा’ (वा। २-३-६९) इति शतरि कर्मणि षष्ठीविकल्पः।]]
06
=>
[शत्रुं, शत्रोर्वा]
07
=>
[[८। स्यप्रत्यये, षकारस्य ककारे, प्रत्ययसकारस्य मूर्धन्ये रूपमेवम्।]]
08
=>
[पृष्ठम्०७८६+ २६]
09
=>
[[१। ‘सत्सूद्विष--’ (३-२-६१) इति सोपपदात् सोपसर्गाच्च धातोरस्य क्विप्प्रत्यये, षकारस्य जश्त्वेन डकारे चर्त्वे रूपम्।]]
10
=>
[[आ। ‘प्रसाधितस्यास्य मधुद्विषोऽभूदन्यैव लक्ष्मीरिति युक्तमेतत्।’ शि। व। ३। १२।]]
11
=>
[[२। ‘अन्येभ्योऽपि दृश्यते’ (३-२-१७८) इति कर्तरि क्विप् तच्छीलतद्धर्मतत्साधुका- रिष्वर्थेषु भवति।]]
12
=>
[[३। तच्छीलादिषु कर्तृषु ‘सम्पृचानुरुधाङ्यमाङ्यसपरिसृसंसृजपरिदेविसंज्वरपरिक्षिप- परिरटपरिवदपरिदहमुहदुषद्विष--’ (३-२-१४२) इत्यादिना घिनुण्।]]
13
=>
[[४। नन्द्यादित्वात् (३-१-१३४) कर्तरि ल्युः।]]
14
=>
[[५। ‘द्विषोऽमित्रे’ (३-२-१३१) इति अमित्रे वाच्ये शतैव भवति।]]
15
=>
[[B। ‘अदन् मधुघ्नो द्विषते विसृज्य श्ववल्कजं विश्वमुदं दुहानः।’ धा। का। २। ४४।]]