| YouTube Channel

द्विव्रण (dvivraNa)

 
Shabdartha Kaustubha
Kannada
द्विव्रण
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ದೇಹಕ್ಕೆಸಂಬಂಧಿಸಿದ ಎರಡು ವಿಧ ವ್ರಣ
वाचस्पत्यम्
Sanskrit
द्विव्रण
पु०
द्विविधो ब्रणः शाक० त० सुश्रुतोक्ते शारीरे आगन्तुके द्विविधे व्रणे तस्येदम् द्विव्रणीय तदधिकारेण चिकित्सितादौ द्विविधाव्रणतद्भेदनिदानादि सुश्रुतेदर्शितं यथा “अथातो द्विव्रणीयचिकित्सितं व्याख्या-स्यामः द्वौ व्रणौ भवतः शारीर आगन्तुश्चेति ।तयोः शारीरः पवनपित्तकफशोणितसन्निपातनिमित्तः ।आगन्तुरपि पुरुषपशुपक्षिव्यालसरीसृपप्रपतनपीडनप्र-हाराग्निक्षारविषतीक्ष्णौषधशकलकपालशृङ्गचकेषुपर-शुशक्तिकुन्ताद्यायुधाभिघातनिमित्तः तत्र तुल्ये व्रण-सामान्ये द्विकारणोत्थानप्रयोजनसामर्थ्याद्द्विव्रणीयइत्युच्यते सर्वस्मिन्नेवागन्तु व्रणे तत्कालमेव क्षतोष्मणःप्रसृतस्योपशमार्थं पित्तवच्छीतक्रियावधारणविधिर्वि-शेषः सन्धानार्थञ्च मधुघृतप्रयोग इत्येतद्द्विकारणोत्था-नप्रयोजनमुत्तरकालन्तु दोषोपप्लवविशेषाच्छारीरवत्-प्रतीकारः दोषोपप्लवविशेषः पुनः समासतः पञ्चदश-प्रकारः प्रसरणसामर्य्याद्यथोक्तो व्रणप्रश्नाधिकारे शुद्ध-त्वात् षोडशप्रकार इत्येके तस्य लक्षणं द्विविधं सा-मान्यं वैशेषिकञ्च तत्र सामान्यं रुक्, व्रण गात्रविचू-र्णने व्रणतीति व्रणः विशेषलक्षणं पुनर्वातादिलिङ्गवि-शेषः तत्र श्यावारुणाभस्तनुः शीतपिच्छिलाल्पस्रावी-रूक्षश्चटचटायनशीलः स्फुरणायामतोदभेदवेदनाबहुलीनिर्मांसश्चेति वातात् क्षिप्रजः पीतनीलाभः किंशुको-दकाभोष्णस्रावी दाहपाकरागविकारो पीतपिडकाजुष्ट-श्चेति पित्तात् प्रततचण्डकण्डूबहुलः स्थूलो घनःस्तब्धसिरास्नायुजालावततः कठिनः पाण्ड्ववभासो मन्द-वेदनः शुक्लशीतसान्द्रपिच्छिलास्रावी गुरुश्चेति कफात् ।प्रबालदलनिचयप्रकाशः कृष्णस्फोटपिडकाजालोपचित-स्तुरङ्गस्थानगन्धः सवेदनो धूमायनशीलो रक्तस्रावीपित्तलिङ्गश्चेति रक्तात् तोददाहधूमायनप्रायः पीता-रुणाभासस्तद्वर्णस्रावी चेति वातपित्ताभ्याम् कण्डू-यनशीलः सनिस्तोदो दारुणो मुहुर्मुहुः शीतपिच्छिलस्रावी चेति वातश्लेष्मभ्याम् गुरुः सदाह उष्णः पीतःपाण्डुस्रावी चेति पित्तश्लेष्मभ्याम् रूक्षस्तनुस्तोदब-हुलः सुप्त इव रक्तारुणाभस्तद्वर्णस्रावी चेति वात-शोणिताभ्याम् घृतमण्डाभो मीनधावनतोयगन्धिर्मृदु-र्विसर्प्युष्णकृष्णस्रावी चेति पित्तशोणिताभ्याम् रक्तो-गुरुः पिच्छिलः कण्डूप्रायः स्थिरः सरक्तपाण्डुस्रावीचेति श्लेष्मशोणिताभ्याम् स्फुरणतोददाहधूमायन-प्रायः पीततनुरक्तस्रावी चेति वातपित्तशोणितेभ्यः ।कण्डूस्फुरणचुम्चुमायनप्रायः पाण्डुघनरक्तस्रावी चेतिवातपित्तश्लेष्मशोणितेभ्यः दाहपाकरागकण्डूप्रायःपाण्डुघनरक्तस्रावी चेति श्लेष्मपित्तशोणितेभ्यः त्रिवि-धवर्णवेदनास्रावविशेषोपेतः पवनपित्तकफेभ्यः निर्द-हननिर्मथनस्फुरणतोददाहपाकरागकण्डस्वापबहुलोना-नावर्णवेदनास्रावविशेषोपेतः पवनपित्तकफशोणितेभ्यः ।जिह्वातलाभो मृदुः स्निग्धः श्लक्ष्णो विगतवेदनः सुव्य-वस्थितो निरास्रावश्चेति शुद्धो व्रण इति ।”