| YouTube Channel

द्विरागमनं (dvirAgamanaM)

 
शब्दकल्पद्रुमः
Sanskrit
द्विरागमनं,
क्ली,
(द्विर्वारं विवाहात् परं आग-मनं स्वामिगृहे इत्यर्थः ।) विवाहानन्तरं बध्वाःपितृगेहात् पतिगृहे पुनरागमनम् यथा, नारायणपद्धतौ ।“वृत्ते पाणिग्रहे गेहात् पितुः पतिगृहं प्रति ।पुनरागमनं बध्वास्तद्द्विरागमनं विदुः
”तस्य शुभकालदिनादि यथा दीपिकायाम् ।“स्त्रीशुद्ध्यालिघटाजसंयुतरवौ काले विशुद्धे भृगुंसंत्यज्य प्रतिलोमगं शुभदिने यात्राप्रवेशोचिते ।त्यक्त्राहस्तु निरंशकं नवबधूयात्राप्रवेशौ पतिःकुर्य्यादेकपुरादिषु प्रतिभृगोर्नेच्छन्ति दोषं बुधाः
पैत्रागारे कुचकुसुमयोः सम्भवो वा यदि स्यात्कालः शुद्धो भवति यदा संमुखो वापि शुक्रः ।मेषे कुम्भेऽलिनि भवेत् भास्करश्चेत्तथापिस्वामी भद्रेऽहनि नवबधूं वेशयेन्मन्दिरं स्वम्
भर्त्तर्गोचरशोभने दिनपतौ नास्तं गते भार्गवेसूर्य्ये कीटघटाजगे शुभदिने पक्षे कृष्णेतरे ।हित्वा प्रतिलोमगौ बुधसितौ जीवस्य शुद्धौतथाचानीता गुणशालिनी नवबधूर्नित्योत्सवामोदते
एकग्रामे चतुःशाले दुर्भिक्षे राष्ट्रविप्लवे ।पतिना नीयमानायाः पुरः शुक्रो दुष्यति
”तथा, --“काश्यपेषु वशिष्ठषु भृग्वादित्याङ्गिरःसु ।भारद्बाजेषु वात्स्येषु प्रतिशुक्रो दोषभाक्
”श्रीपतिसंहितायां प्रचेताः ।“पुष्यादित्यसमीरणादिति वसुष्वप्युत्तरारेवती-तारानायकरोहिणीषु शुभदे मेषालिकुम्भेरवौ ।वारेष्विज्यसितेन्दुवित्सु शुभदे तारे प्रशस्ते विधौकन्यामन्मथमीनतौलिमृगभे स्यादङ्गना-द्ब्यागमः
”ज्योतिःसारसंग्रहे ।“विवाहमासि प्रथमं बध्वा नागमनं यदि ।तदा सर्व्वमिदं चिन्त्यं युग्माद्यब्दं विचक्षणैः
”कृत्यचिन्तामणौ ।“श्वश्रूं हन्त्यष्टमे वर्षे श्वशुरञ्च दशाब्दिके ।सम्प्राप्ते द्बादशे वर्षे पतिं हन्ति द्बिरागमे
”मत्स्यसूक्ते ।“भुक्त्वा पितृगृहे कन्या भुङ्क्ते स्वामिगृहे यदि ।दौर्भाग्यं जायते तस्याः शपन्ति कुलनायिकाः
”इति ज्योतिस्तत्त्वम्
निष्कर्षस्तु ।“विवाहमासि प्रथममनागताया बध्वा अष्टम-दशमद्बादशेतरवर्षे कालशुद्धौ वैशाखमार्गशीर्ष-फाल्गुनान्यतममासे रविशुद्धौ सोमबुधगुरु-शुक्रान्यतमवारे चन्द्रतारानुकूले रोहिणीपुन-र्व्वसुमृगशिरःपुष्योत्तरात्रयहस्तस्वातीधनिष्ठा-रेवतीषु विष्टिभिन्नकरणेषु निषिद्धेतरयोगेषुकन्यामिथुनतुलामीनलग्नेषु द्विरागमनम् ।कस्यचिन्मते बुधवारोऽपि निषिद्धः ।दक्षिणदिङ्मुखगमनं गमनमभिनवनारीणाम् ।व्ययमपि धान्यादीनां बुधो बुधवासरे कुर्य्यात्
”इति सत्कृत्यमुक्तावली