द्विरागमन (dvirAgamana)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Spoken Sanskrit
English द्विरागमन dvirAgamana house after a visit to that of her father
द्विरागमन dvirAgamana twice coming
द्विरागमन dvirAgamana ceremony of the second entrance of the bride into her husband's
Monier Williams Cologne
EnglishApte Hindi
Hindiद्विरागमनम्
द्विस्- आगमनम् -
"गौना, मुकलावा, दुल्हन का अपने पति के घर दूसरी बार आना"
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Shabdartha Kaustubha
Kannadaद्विरागमन
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಮದುವೆಯಾದ ನಂತರ ತಂದೆಯ ಮನೆಯಿಂದ ಪತಿಯ ಗೃಹಕ್ಕೆ ಎರಡನೆಯ ಸಲ ಬರುವುದು
व्युत्पत्तिः - > द्विः द्विवारमागमनम्
प्रयोगाः - > "वृत्ते पाणिग्रहे गेहात् पितुः पतिगृहं प्रति । पुनरागमनं वध्यास्तद्द्विरागमनं विदुः ॥"
L R Vaidya
Englishशब्दकल्पद्रुमः
Sanskritद्विरागमनं, (द्विर्वारं विवाहात् परं आग-मनं स्वामिगृहे इत्यर्थः ।) विवाहानन्तरं बध्वाःपितृगेहात् पतिगृहे पुनरागमनम् । यथा, नारायणपद्धतौ ।“वृत्ते पाणिग्रहे गेहात् पितुः पतिगृहं प्रति ।पुनरागमनं बध्वास्तद्द्विरागमनं विदुः ॥
”तस्य शुभकालदिनादि यथा । दीपिकायाम् ।“स्त्रीशुद्ध्यालिघटाजसंयुतरवौ काले विशुद्धे भृगुंसंत्यज्य प्रतिलोमगं शुभदिने यात्राप्रवेशोचिते ।त्यक्त्राहस्तु निरंशकं नवबधूयात्राप्रवेशौ पतिःकुर्य्यादेकपुरादिषु प्रतिभृगोर्नेच्छन्ति दोषं बुधाः ॥
पैत्रागारे कुचकुसुमयोः सम्भवो वा यदि स्यात्कालः शुद्धो न भवति यदा संमुखो वापि शुक्रः ।मेषे कुम्भेऽलिनि च न भवेत् भास्करश्चेत्तथापिस्वामी भद्रेऽहनि नवबधूं वेशयेन्मन्दिरं स्वम् ॥
भर्त्तर्गोचरशोभने दिनपतौ नास्तं गते भार्गवेसूर्य्ये कीटघटाजगे शुभदिने पक्षे च कृष्णेतरे ।हित्वा च प्रतिलोमगौ बुधसितौ जीवस्य शुद्धौतथाचानीता गुणशालिनी नवबधूर्नित्योत्सवामोदते ॥
एकग्रामे चतुःशाले दुर्भिक्षे राष्ट्रविप्लवे ।पतिना नीयमानायाः पुरः शुक्रो न दुष्यति ॥
”तथा, --“काश्यपेषु वशिष्ठषु भृग्वादित्याङ्गिरःसु च ।भारद्बाजेषु वात्स्येषु प्रतिशुक्रो न दोषभाक् ॥
”श्रीपतिसंहितायां प्रचेताः ।“पुष्यादित्यसमीरणादिति वसुष्वप्युत्तरारेवती-तारानायकरोहिणीषु शुभदे मेषालिकुम्भेरवौ ।वारेष्विज्यसितेन्दुवित्सु शुभदे तारे प्रशस्ते विधौकन्यामन्मथमीनतौलिमृगभे स्यादङ्गना-द्ब्यागमः ॥
”ज्योतिःसारसंग्रहे ।“विवाहमासि प्रथमं बध्वा नागमनं यदि ।तदा सर्व्वमिदं चिन्त्यं युग्माद्यब्दं विचक्षणैः ॥
”कृत्यचिन्तामणौ ।“श्वश्रूं हन्त्यष्टमे वर्षे श्वशुरञ्च दशाब्दिके ।सम्प्राप्ते द्बादशे वर्षे पतिं हन्ति द्बिरागमे ॥
”मत्स्यसूक्ते ।“भुक्त्वा पितृगृहे कन्या भुङ्क्ते स्वामिगृहे यदि ।दौर्भाग्यं जायते तस्याः शपन्ति कुलनायिकाः ॥
”इति ज्योतिस्तत्त्वम् ॥
निष्कर्षस्तु ।“विवाहमासि प्रथममनागताया बध्वा अष्टम-दशमद्बादशेतरवर्षे कालशुद्धौ वैशाखमार्गशीर्ष-फाल्गुनान्यतममासे रविशुद्धौ सोमबुधगुरु-शुक्रान्यतमवारे चन्द्रतारानुकूले रोहिणीपुन-र्व्वसुमृगशिरःपुष्योत्तरात्रयहस्तस्वातीधनिष्ठा-रेवतीषु विष्टिभिन्नकरणेषु निषिद्धेतरयोगेषुकन्यामिथुनतुलामीनलग्नेषु द्विरागमनम् ।कस्यचिन्मते बुधवारोऽपि निषिद्धः ।दक्षिणदिङ्मुखगमनं गमनमभिनवनारीणाम् ।व्ययमपि धान्यादीनां न बुधो बुधवासरे कुर्य्यात् ॥
”इति सत्कृत्यमुक्तावली ॥
वाचस्पत्यम्
Sanskritद्विरागमन द्विर्द्विवारमागमनम् । विवाहात् परत्रपितृगेहात् पतिगृहे वध्वाः पुनरागमने । तत्र नक्षत्रादितत्स्वरूपञ्च ज्यो० त० उक्तं यथा“श्रीपतिसंहितायां प्रचेताः “पुष्यादित्यसमीरणा-दितिवसुस्वात्युत्तरारेवतीतारानायकरोहिणीषु शुभदा-मेषालिकुम्भे रवौ । वारेष्विज्यसितेन्दुवित्सु शुभदेतारे प्रशस्ते विघौ कन्यामन्मथमीनतौलिमृगभे स्याद-ङ्गनाद्व्यागमः” । नारायणपद्धतौ “वृत्ते पाणिग्रहेगेहात् पितुः पतिगृहं प्रति । पुनरागमनं वध्वास्तद्द्विरागमनं विदुः” ज्योतिःसारसंग्रहे “विवाहमासिप्रथमं वध्वा नागमनं यदि । तदा सर्वमिदं चिन्त्यं यु-म्माद्यव्दं विचक्षणैः” कृत्यचिन्तामणौ “श्वश्रूं हन्त्यष्टमेवर्षे श्वशुरञ्च दशाव्दके । संप्राप्ते द्वादशे वर्षे पतिंहन्ति द्विरागमे” मत्स्यसूक्ते “भुक्त्वा पितृगृहे कन्याभुङ्क्ते स्वामिगृहें यदि । दौर्भाग्यं जायते तस्याःशपन्ति कुलनायिकाः”अत्र विहितनक्षत्रादि मुहू० पी० उक्तं यथा“चरेदथौजहाथने घटालिमेषगे रवौ रवीज्यशुद्धियोगतःशुभग्रहस्य वासर । नृयुग्ममीनकन्यकातुलावृषे विल-ग्नके द्विरागमं लघुध्रुवे चरेऽस्रपे मृदूडुनि । दैत्येज्यो-ह्यभिमुखदक्षिणे यदि स्याद्गच्छेयुर्न हि शिशुगर्भिणीनवोढाः । वालश्चेत् व्रजति विपद्यते नवोढा चेद्बन्ध्याभवति च गर्भिणी त्वगर्भा । नगरप्रवेशविषयाद्युपद्रवेकरपीडने विबुधतीर्थयात्रयोः । नृपपीडने नवबधूप्रवे-शने प्रतिभार्गवो भवति दोषकृन्नहि । पित्र्ये गृहे चेत्कुचपुष्पसम्भवः स्त्रीणां न दोषः प्रतिशुक्रसम्भवः । भृग्व-ङ्गिरोवत्सवसिष्ठकश्यपात्रीणां भरद्वाजमुनेः कुले तथा” मु०चि० “पूर्वं नववधूप्रवेशे जाते तदनन्तरं परावृत्यापिपितृगृहप्राप्तायामपि वध्वा यथेष्टवर्षाणि स्थितायाःपुनर्भर्तृगृहप्रवेशो द्विरागमशब्दवाच्यः । अयंचाचारःप्राच्योदीच्यपाश्चात्त्यानामेवेति । चरेदिति । अथ वधू-प्रवेशकथनानन्तरं पुनर्वधूप्रवेशं द्विरागमनं वक्ष्यमाण-नक्षत्रादिषु चरेत् कुर्यात्कदा? ओजहायने विषमवर्षेप्रथमे तृतीये पञ्चमे वा वर्षे सति । तथा घटालिमेषगेकुम्भवृश्चिकमेषस्थिते रवौ । तथा वरस्य रवीज्यशुद्धिःरवेः सूर्यस्य इज्यस्य गुरोः शुद्धिस्तयोर्योगतः । शुभग्रहस्यसानबुधगुरुशुक्राणामन्यतमस्य वासरे सति । मिथुनमी-नकन्यातुलावृषाणामन्यतमे लग्ने शुभग्रहावलोकितेशुभयुक्ते वा सति । लघून्यश्विनीपुष्यहस्ताः ध्रुवाणिप्रसिद्धानि चराणि श्रवणादित्रयपुनर्वसुस्वात्यः अस्रपोरा-क्षसस्तद्भं मूलं मृदूनि प्रसिद्धानि एषु भेषु द्विरागमःप्रशस्त इत्यर्थः । यदाह ऋक्षोच्चयः “तिष्यादित्यसमी-रणादितिवसुत्रीण्युत्तराण्यश्विनीरोहिण्यः शुभदाश्चवर्षमसमं मेषालिकुम्भे रविः । कन्यामन्मथमीनमे नव-वधूयानं वृषे तौलिके देवाचार्यसितेन्दुसौम्यदिवसे शुद्धेगुरौ भास्करे” इति । ग्रन्थकर्त्रात्र कानिचिद्भान्यधिकानिउक्तानि तानि राजमार्तण्डेनोक्तानि । “नीहाराशुधनोत्तरादितिगुरुब्राह्मानुराधाश्विनीमूलाहस्करवारुणा-निलहरित्वाष्ट्रेषु शस्ते तिथौ । कुम्भाजालिगतेरवौ शुभकरे प्राप्तोदये भार्गवे सूर्ये कीटघटाजगे शुभ-दिने पक्षे च कृष्णेतरे । हित्वा दिक्प्रतिलोमगौ बुध-सितौ लालाटगं दिक्पतिं चानीता गुणशालिनी नव-वधूर्नित्योत्सवैर्मन्दिरम्” । लालाटगान् यात्रायां व-क्ष्यति । शुक्रास्तनिषेधस्तु सामान्यतो वाप्यारामेत्या-दिनोक्त एवेति न पुनरुक्तः । यद्यपि प्राक् सामान्येनकालशुद्धिरुक्ता तथाप्यावश्यकत्वे । “चैत्रे पौषे हरि-स्वप्ने गुरोरस्ते मलिम्लुचे । नवोढागमनं नैव कृते पञ्च-त्वमाप्नुयादिति” बादरायणवाक्यान्नैव वधूपवेशः कार्यः ।दैत्येज्य इति । यदि दैत्येज्यः शुक्रोऽभिमुखदक्षिणेगन्तव्यदिगभिमुखे गन्तुर्दक्षिणदिग्भागे वा स्थितः स्यात्तदाशिशुर्बालः गर्भिणी गर्भवती नवोढा नूतनपरिणोताव्रजेत्तदा बालः विपद्यते म्रियते । गर्भिणी त्वगर्भा गर्भ-रहिता स्यात् गर्भस्राववती भवेत् । नूतनपरिणीतानवोढा बन्ध्या अपत्यसम्भवरहिता स्यात् । यदाह बा-दरायणः “अस्तङ्गते भृगोः पुत्रे तथा सम्मुखमागते ।नष्टे जीवे निरंशे वा नैव सञ्चालयेद्वधूः । गर्भिण्या का-लकेनापि नववध्वा द्विरागमे । पदमेकं न गन्तव्यं शुक्रेसम्मुखदक्षिणे । गुर्विणी स्रवते गर्मं बालो वा मरणंव्रजेत् । नवा वधूर्भवेद्वन्ध्या शुक्रे सम्मुखदक्षिणे” ।यदि शुक्रः पूर्वस्यामुदितस्तदा पूर्वदिशि गन्तुः सम्मुखएव पश्चिमां गन्तुः पृष्ठे, दक्षिणां गन्तुर्वाभे, उत्तरांगन्तुर्दक्षिणे स्यात् । तदा पूर्वोत्तरे दिशौ नगच्छेत् किन्तु पश्चिमदक्षिणे दिशौ गच्छेत् । यदिपश्चिमायामुदितः शुक्रः तदा पश्चिमां गन्तुः सम्मुखएव दक्षिणां गन्तुः दक्षिणः । पूर्वां गन्तुः पृष्ठे उत्तरांगन्तुर्वामः । तदा पश्चिमदक्षिणे दिशौ न यायात् ।किन्तु पूर्वोत्तरे दिशौ गच्छेत् । “पृष्ठे भृगौ पुत्रवतींप्रयाणे कान्तां कुलीनां सुभगां करोति । अग्रे सुखोवै विदधाति शुक्रो वैधव्यशोकौ खलु चास्त शुक्रः”इति । केचिद्दीपोत्सवप्रतिपदि नक्षत्रादिनियमं विनैवबधूप्रवेशं वाञ्छन्ति । उक्तञ्च “अस्तङ्गते गुरौ शुक्रेसिंहस्थे वा वृहस्पतौ । दीपोत्सवबलेनैव कन्याभर्तृगृहं विशेत्” इति तदेतच्छिष्टाचारतो ज्ञेयम् ।अत्र लग्नशुद्धिमाह बादरायणः “उपचयगते जीवेभृगौ केन्द्रमुपागते । शुद्धे लग्ने शुभाक्रान्ते गन्तव्यं भर्तृ-मन्दिरम” नगरप्रवेशे, विषयोदेशः आदिशब्देन ग्रामः ।तस्योपद्रवे अन्यराजकृतोपद्रवे सति दुर्भिक्षादिना वोपद्रवेसति । गन्तव्यदिशि प्रतिशुक्रकदोषो नास्ति । करपी-डने विवाहोद्देशेन यात्रायां सत्यां विबुधा देवास्तेषांयात्रा नगरकोटयात्रा देवयात्रा तीर्थयात्रा प्रयागादि-यात्रा तयोः । नृपपीडने नृपाद्राज्ञः सकाशात्पी-डायां दण्डादिकृतायां सत्याम् नववधूप्रवेशने नूतन-परिणीतायाः कन्यायाः भर्त्रगृहप्रवेशे एतेषामन्यतम-भावे सति भार्गवः सम्भुखदोषकृन्नहि । यथाह वाद-रायणः “स्वभवनपुरप्रवेशो देशानां विभ्रमे तथोद्वाहे ।नूतनवध्वागमने प्रतिशुक्रो न दुष्यतीति” । नूतनवधूनांस्वामिगृहगमनं प्रतिशुक्रयात्रायां महान्दोषः ।तद्वाक्यं प्रागुक्तम् । अथ प्रौढस्त्रीणां द्विरागने तथागोत्रभेदपरत्वेन प्रतिशुक्रापवादान्तरमाह पित्र्येइति । पितुरिदं पित्र्यम् । तस्मिन् पित्र्ये गृहेकुचौ स्तनौ पुष्पमृतुः तत्सम्भवः स्यात्तदा स्त्रीणां प्रति-शुक्रसम्भवो दाषी नास्ति । उपलक्षणत्वाद्भर्तुः सूर्यगुरु-शुद्धिराहित्यसम्भवेऽपि दोषो नास्तीति । तदुक्तं च-ण्डेश्वरेण “पित्र्यागारे कुचकुसुमयोः सम्भवो वा यदिस्यात्पत्युः शुद्धिर्न भवति रवेः सम्मुखो वाथ शुक्रः ।तूले लग्ने गुणवति तिथौ चन्द्रताराविशुद्धौ स्त्रीणां यात्राभवति सफला सेवितुं स्वामिसद्म” इति । वाशब्दाद्गुरु-शुद्धिरपि चेन्न भवतीत्यर्थः । अथ भृग्वङ्गिरोवत्सवसिष्ठ-कश्यपात्रिभरद्वाजवंशोत्पन्नानामपि प्रतिशुक्रसम्भवो दोषोनास्ति । यदाह बादरायणः “कश्यपेषु वसिष्ठेषु चा-त्रिभृग्वङ्गिरःसु च । भारद्वाजेषु वात्स्येषु प्रतिशुक्रो नदुष्यति” इति । अयं चापवादो यात्रामात्रसाधारणः”न द्विरागमने, सम्मतिवाक्ये विशेषानुक्तेः । एवंप्राक्पद्योक्तोऽप्यपवादोज्ञेयः । केचिच्छुभं तेषामाहुः ।यदाह महेश्वरः “नो तेषां प्रतिशुक्रपातमशुभं येवत्सभृग्वङ्गिरोभारद्वाजवसिष्ठकश्यपकुलोत्पन्नास्तथाऽत्रेःकुले । देशानां विषयप्लवे च नियतं न स्याद्विवाहे तथातीर्थानां गमने तथैकनगरे ग्रामे च सौम्ये तथेति” ।सोमप्यापत्यं सौभ्यो बुधः । बुधसांमुख्येऽपि भृग्वा-दिगोत्रोत्पन्नानामपि तथा यानमशुभं नास्तिचकारात दुर्भिक्षाद्युपद्रवसद्भावेऽन्येषामपि यानमशुभंनास्तीत्यर्थः तच्चिन्त्यं मूलवाक्यस्यापवादरूपस्या-नुपलम्भात । कि च यथा साधारण्येन यस्यां कस्यां-चिद्दिशि यात्रायां शुक्राधिष्ठितादिनिषिद्धा सा चबादरायणादिवाक्येरपोह्यते । तथा बुधसाम्मुख्ये गम-ननिषेधानुक्तेरपवादस्यानुक्तत्वदर्शनात् । ननु “प्रति-शुक्रं प्रतिबुधं प्रतिभौमं गतो नृपः । बलेन शक्रतुल्यो-ऽपि हतसैन्यो निवर्तते” इति वसिष्ठोक्तिरेव बुध-साम्मुख्यदोषनिषेधबोधिकास्तीति । किं च “कुजायवृषभं दद्यात् स्वर्णं दद्याद्बुधाय च । तत्तत् सम्मुखजोदोषस्तत्क्षणादेव नश्यति” इति बुधसाम्मुख्यदोध-निराकरणार्था अपि तदुक्तिरेवास्ति प्रमाणमिति चेत् ।सत्यम् । प्रतिशुक्रं प्रतिबुधं इत्यादिवाक्यैर्बधसाम्म-ख्यमपि दोषावहमेवेति प्रतीयते । अत्रार्थवादोऽप्य-भाणि श्रीपतिना “प्रतीन्दुजं भूमिपतेर्गतस्य नान्ये-ग्रहास्त्राणविधौ समर्थाः” इति । त्राणं रक्षणम् । नार-देनापि “प्रतीन्दुजकृतं दोषं हन्तुं शक्ता ग्रहा नहि” इति । तत्र गोत्रादिविषयत्वेन परिहारो योऽ-भिहितः स शुक्रसाम्मुख्ये एव नतु बुधसाम्मुख्ये गोत्र-परिहारस्तु दोषकरवाक्यान्ते प्रतिशुक्रं न विद्यते इत्यु-क्तम् । ननु प्रतिशुक्रमित्यादिवाक्योपात्तस्य प्रतिबुधस्या-प्ययं परिहारोऽस्तु दोषकथनानन्तरमेव तस्याभिधानात्प्रतिशुक्रपदं तु मुख्यतां सूचयितुम् उपात्तं तदभिप्रा-येण सौम्ये तथेति महेश्वरोक्तिः साधीयसीति चेन्नयद्येषोऽभिमतः स्यात् सौम्ये तथेतिवद्भौमे तथेतिवक्तव्यं स्यात् । तच्च नोक्तम् । किं च प्रतिशुक्रपदं मु-ख्यतां सूचयितुम् उषात्तमित्युक्तं तदप्ययुक्तम् । कुतः“शुक्रास्तदोषस्य महत्त्वोक्तेस्तद्विषयकोऽयं गोत्रादिपरि-हारः । “कामं व्रजेद्वा प्रतिशुक्रमस्तङ्गते च यायान्नजिगोषुरत्रेति” श्रीपत्युक्तेः शुक्रास्तदोषस्यापवादो बुधा-नुकूल्यमपि तेनैव “अस्तङ्गतेऽप्यास्फुजिति प्रयायाद्बुधोयदि स्यादनुकूलवर्तीति” । अनुकूलवर्त्ती यातव्यदिशीष्ट-वर्त्ती । बुधप्रातिकूल्यं तु महादोषावहमेतद्वाक्यं तैरपिप्रागभिहितम् । परन्तु बुधास्तः समीचीनो न वेति नवचनं युक्तिपदवीं वा काञ्चिदभ्यधायि । तस्माद्वाचनि-केऽर्थे न युक्तिः प्रभवेदिति । बुधमाम्मुख्ये गोत्रादिपरि-हारो न शिरोमणिपदवीमारोहति । आदिशब्दात्“स्वभवनपुरप्रवेशे देशानां विभ्रमे तथोद्वाहे । नूतनवध्वा-गमने प्रतिशुक्रविचारणा नास्ति” “एकग्रामे पुरे वापिदुर्भिक्षे राष्ट्रविप्लवे । विवाहे तीर्थयात्रायां प्रतिशुक्रोन दुष्यति” इति । तुल्यन्यायत्वाद्भौमसाम्मुख्येऽपिविशिष्यर्विवचनाभावात् । किन्तु शुक्रसाम्मुख्य एवस परिहारः । सोऽपि सर्वेषां यात्रामात्रसाधारणः ।परन्तु शिशुगर्भिणीनववधूनां “अस्तङ्गते भृगोः पुत्रे”इत्यादिना बादरायणादिवाक्यात्तु विशेषफलावगतिमात्रेतत्रैषां शिश्वादीनां बुधसाम्मुख्यविचारस्तु दुरापास्त ए-वेत्यलमतिप्रसङ्गेनेति शिवम्” पी० धा०द्व्यागमद्विरागमादयोऽप्यत्र ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
