| YouTube Channel

द्वियजुस् (dviyajus)

 
Monier Williams Cologne
English
द्वि॑—यजुस् (द्वि॑-),
f.
a partic. brick,
ŚBr.
वाचस्पत्यम्
Sanskrit
द्वियजुस् स्त्री द्वे यजुषी उपधाने अस्याः इष्टकाभेदे द्वे य-जुषी इव शरीरे अस्य यजमाने यथोक्तं शत० ब्रा०“अथ द्वियजुषमुपदधाति इन्द्राग्नी अकामयेतां स्वर्गंलोकमियावेति तावेतामिष्टकामपश्यतां द्वियजुषमिमामेवतामुपादघातां तामुपधायास्यै प्रतिष्ठायै स्वर्गं लोकमैतांतथैयैतद्यजमानो यद्द्वियजुषमुपदधाति येन रूपेण यत्कर्म कृत्वेन्द्राग्नी स्वर्गं लोकमैतां तेन रूपेण तत्कर्म कृत्वास्वर्गं लोकमयानीति सा यद्द्वियजुर्नाम द्वे ह्येतां देवतेअपश्यतां यद्ध्येव द्वियजुषमुपदधाति यजमानो वै द्वियजुःतदाहुः यदसावेव यजमानो योऽसौ हिरण्मयः पुरु-षोऽथ कतमदस्येदं रूपमिति दैवो वाअस्य आत्मा-मानुषोऽयं तद्यत्स हिरण्मयो भवत्यमृतं वा अस्य तद्रूपंदेवरूपममृतं हिरण्मयमथ यदियं मृदः कृता भवतिमानुषं ह्यस्येदं रूपम् यदमूमेवोपदध्यात् नेमामप-शिंष्यात्क्षिप्रे हास्माल्लोकाद्यजमानः प्रेयादथ यदि मा-मपशिनष्टि यदेवास्येदं मानुषं रूपं तदस्यैतदपशिनष्टितथेहानेनात्मना सर्वमायुरेति” शत० ब्रा० १६यतो द्वे देवते एतामपश्यतामत एव द्वाभ्यां यजुर्भ्यामु-पधीयते हिरण्मयः पुरुषोऽस्य यजमानस्य देवत्वप्रयुक्त आत्मा शरीरम् द्वियजुरिष्टका मनुष्यत्वपयुक्तआत्मेत्यर्थः हिरण्मयत्वात् पुरुषस्य देवशरीरत्वं मृण्-मयत्वाद् द्वियजुषो मानुषशरीरात्मत्वम्” भा० ते चयजुषी शत० ब्रा० ७४२२१ उक्ते “यास्ते अग्ने!सूर्ये रुचः” “याश्च देवाः! सूर्ये रुचः” इति